摩诃婆罗多 · 章 1.238
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.238.1
सोऽपरान्तेषु तीर्थानि पुण्यान्यायतनानि च ।
सर्वाण्येवानुपूर्व्येण जगामामितविक्रमः ॥ १.२३८.१ ॥
此具无限威力者,依次前往西方诸地的一切圣渡口与神庙。
1.238.2
समुद्रे पश्चिमे यानि तीर्थान्यायतनानि च ।
तानि सर्वाणि गत्वा स प्रभासमुपजग्मिवान् ॥ १.२३८.२ ॥
他遍访西方大洋上的一切圣渡口与神庙,然后来到了钵罗婆娑。
1.238.3
चिन्तयामास रात्रौ तु गदेन कथितं पुरा ।
सुभद्रायाश्च माधुर्यरूपसंपद्गुणानि च ॥ १.२३८.३ ॥
夜里他思念着从前迦陀所讲述的苏跋陀罗的温婉、容貌、财富与德行。
1.238.4
प्राप्तुमं तां चिन्तयामास कोऽत्रोपायो भवेदिति ।
वेषवैकृत्यमापन्नः परिव्राजकरूपधृत् ॥ १.२३८.४ ॥
他思量要得到她该有什么办法,于是改变容貌,化作游方苦行者的模样。
1.238.5
कुकुरान्धकवृष्णीनामज्ञातो वेषधारणात् ।
भ्रममाणश्चरन्भैक्षं परिव्राजकवेषवान् ॥ १.२३८.५ ॥
因为伪装,库库罗、安陀迦与毗湿尼诸族都不认得他;他身着游方苦行者的衣装,沿途乞食而行。
1.238.6
येनकेनाप्युपायेन प्रविश्य च गृहं महत् ।
दृष्ट्वा सुभद्रां कृष्णस्य भगिनीमेकसुन्दरीम् ॥ १.२३८.६ ॥
无论用什么办法,他进入一座大宅,见到了克里希那的妹妹、独一无二的美人苏跋陀罗。
1.238.7
वासुदेवमतं ज्ञात्वा करिष्यामि हितं शुभम् ।
एवं विनिश्चयं कृत्वा दीक्षितो वै तदाऽभवत् ॥ १.२३८.७ ॥
知道婆苏提婆的意见后,我将做有益而吉祥的事。作出这样的决定后,他那时便受了戒。
1.238.8
त्रिदण्डी मुण्डितः कुण्डी अक्षमालाङ्गुलीयकः ।
योगभारं वहन्पार्थो वटवृक्षस्य कोटरम् ॥ १.२३८.८ ॥
持三杖,剃光头,带水瓶、念珠与戒指,背负瑜伽之担,普利塔之子进入了榕树的树洞。
1.238.9
प्रविशंश्चैव बीभत्सुर्वृष्टिं वर्षति वासवे ।
चिन्तयामास देवेशं केशवं क्लेशनाशनम् ॥ १.२३८.९ ॥
当因陀罗降雨之时,进入的毗跋苏(阿周那)想念了解除烦恼的天神之主柯沙婆。
1.238.10
केशवश्चिन्तितं ज्ञात्वा दिव्यज्ञानेन दृष्टवान् ।
शयानः शयने दिव्ये सत्यभामासहायवान् ॥ १.२३८.१० ॥
柯沙婆知其所思,以神圣的智慧看见了;他与萨提亚婆摩同在神床上躺着。
1.238.11
केशवः सहसा राजञ्जहाय च ननन्द च ।
पुनः पुनः सत्यभामा चाब्रवीत्पुरुषोत्तमम् ॥ १.२३८.११ ॥
大王啊!柯沙婆忽然起身大笑;萨提亚婆摩一再向这位人中至尊说话。
1.238.12
भगवंश्चिन्तयाविष्टः शयने शयितः सुखम् ।
भवान्बहुप्रकारेण जहास च पुनः पुनः ॥ १.२३८.१२ ॥
世尊啊!您沉浸于思虑,安然躺在床上,以种种方式一再大笑。
1.238.13
श्रोतव्यं यदि वा कृष्ण प्रसादो यदि ते मयि ।
वक्तुमर्हसि देवेश तच्छ्रोतुं कामयाम्यहम् ॥ १.२३८.१३ ॥
克里希那啊,若此事值得聆听,且你对我有所垂怜,天神之主啊,请说出来吧;我愿意听闻。
1.238.14
पितृष्वसुर्यः पुत्रो मे भीमसेनानुजोऽर्जुनः ।
तीर्थयात्रां गतः पार्थः कारणात्समयात्तदा ॥ १.२३८.१४ ॥
阿周那是我姑母之子,是怖军的幼弟,乃普利塔之子,因某种缘故,在约定的时候,已前往圣地朝圣。
1.238.15
तीर्थयात्रासमाप्तौ तु निवृत्तो निशि भारतः ।
सुभध्रां चिन्तयामास रूपेणाप्रतिमां भुवि ॥ १.२३८.१५ ॥
朝圣完毕后,婆罗多(阿周那)夜间返回,心中思念苏跋陀罗,她是世上美貌无双的女子。
1.238.16
चिन्तयेन्नेव तां भद्रां यतिरूपधरोऽर्जुनः ।
यतिरूपप्रतिच्छन्नो द्वारकां प्राप्य माधवीम् ॥ १.२३८.१६ ॥
身披苦行者之相的阿周那,不应思念那位吉祥的女子;隐于苦行者之相中的阿周那,即便抵达摩陀婆的杜瓦拉卡,也不应如此思念。
1.238.17
येनकेनाप्युपायेन दृष्ट्वा तु वरवर्णिनीम् ।
वासुदेवमतं ज्ञात्वा प्रयतिष्ये मनोरथम् ॥ १.२३८.१७ ॥
无论用什么方法,我都要见到那位肤色明艳的美丽女子;知晓了婆苏提婆的心意后,我将为实现心愿而努力。
1.238.18
एवं व्यवसितः पार्थो यतिलिङ्गेन पाण्डवः ।
छायायां वटवृक्षस्य वृष्टिं वर्षति वासवे ॥ १.२३८.१८ ॥
阿周那如此决定,以苦行者之相立于一棵榕树的树荫之下,那时因陀罗正降下大雨。
1.238.19
योगभारं वहन्नेव मानसं दुःखमाप्तवान् ।
एतदर्थं विजानीहि हसन्तं मां मुदा प्रिये ॥ १.२३८.१९ ॥
负荷瑜伽之重担时,他心中便生出悲痛。为此,爱妻啊,你当知道我正欢喜地笑着。
1.238.20
भ्रातरं तव पश्येति सत्यभामां व्यसर्जयत् ।
तत उत्थाय शयनात्प्रस्थितो मधुसूदनः ॥ १.२३८.२० ॥
他说"去看你的兄长吧",便遣散了萨蒂亚帕玛。随后,摩图苏丹从床上起身,启程而去。
1.238.21
प्रभासदेशं संप्राप्तं बीभत्सुमपराजितम् ।
तीर्थान्यनुचरन्तं तं शुश्राव मधुसूदनः ॥ १.२३८.२१ ॥
摩图苏丹听说不败的毗跋佉(阿周那)已抵达普拉巴沙国,正在巡游各处圣地。
1.238.22
चाराणां चैव वचनादेकाकी स जनार्दनः ।
तत्राभ्यगच्छत्कौन्तेयं महात्मातं स माधवः ॥ १.२३८.२२ ॥
依据探子之言,那位生主(克里希那)独自前往那里,去会见伟大的贡蒂之子;那位摩陀婆。
1.238.23
ददृशाते तदान्योन्यं प्रभासे कृष्णपाण्डवौ ॥ १.२३८.२३ ॥
那时,在普拉巴沙,克里希那与般度之子彼此相见。
1.238.24
तावन्योन्यं समाश्लिष्य पृष्ट्वा च कुशलं वने ।
आस्तां प्रियसखायौ तौ नरनारायणावृषी ॥ १.२३८.२४ ॥
二人相互拥抱,在林中问候彼此的安好,便停留在那里——那两位亲爱的朋友,仙人那罗与那罗衍那。
1.238.25
ततोऽर्जुनं वासुदेवस्तां चर्यां पर्यपृच्छत ।
किमर्थं पाण्डवैतानि तीर्थान्यनुचरस्युत ॥ १.२३८.२५ ॥
于是毗湿奴之子黑天问阿周那关于那次巡礼:“般度之子啊,你为何依次游历这些圣地?”
1.238.26
ततोऽर्जनो यथावृत्तं सर्वमाख्यातवांस्तदा ।
श्रुत्वोवाच च वार्ष्णेय एवमेतदिति प्रभुः ॥ १.२३८.२६ ॥
于是阿周那将所发生的一切都讲述了一遍。毗湿奴后裔(黑天)听后说:“确是如此。”
1.238.27
तौ विहृत्य यथाकामं प्रभासे कृष्णपाण्डवौ ।
महीधरं रैवतकं वासायैवाभिजग्मतुः ॥ १.२३८.२७ ॥
黑天与般度之子二人在普拉巴萨随意游览之后,前往莱瓦塔卡山居住。
1.238.28
पूर्वमेव तु कृष्णस्य वचनात्तं महीधरम् ।
पुरुषा मण्डयाञ्चक्रुरुपजह्रश्च भोजनम् ॥ १.२३८.२८ ॥
早先,依照黑天的吩咐,人们已经装饰了那座山,并且备好了食物。
1.238.29
प्रतिगृह्यार्जुनः सर्वमुपभुज्य च पाण्डवः ।
सहैव वासुदेवेन दृष्टवान्नटनर्तकान् ॥ १.२३८.२९ ॥
阿周那接受并享用了一切之后,与婆薮提婆一同观看了演员与舞者。
1.238.30
अभ्यनुज्ञाय तान्सर्वानर्चयित्वा च पाण्डवः ।
सत्कृतं शनं दिव्यमभ्यगच्छन्महामतिः ॥ १.२३८.३० ॥
大智的般度之子向所有人告辞并致以敬意之后,缓缓地走向那个神圣而受尊敬的地方。
1.238.31
ततस्तत्र महाबाहुः शयानः शयने शुभे ।
तीर्थानां पल्वलानां च पर्वतानां च दर्शनम्।
आपगानां वनानां च कथयामास सात्वते ॥ १.२३८.३१ ॥
那时,大臂者躺在华美的床榻上,向萨特瓦塔讲述了圣渡口、小湖、山岳、河流与森林的景象。
1.238.32
एवं स कथयन्नेव निद्रया जनमेजय ।
कौन्तेयोऽपि हृतस्तस्मिञ्शयने स्वर्गसन्निभे ॥ १.२३८.३२ ॥
如此说着,嗬,阇那迷阇耶,贡蒂之子也在那如天界般的床榻上被睡眠夺去了意识。
1.238.33
मधुरेणैव गीतेन वीणाशब्देन चैव ह ।
प्रबोध्यमानो बुबुधे स्तुतिभिर्मङ्गलैस्तता ॥ १.२३८.३३ ॥
被甜美的歌声与琵琶(vīṇā)之音唤醒,他醒了过来,吉祥的赞颂四处传扬。
1.238.34
स कृत्वाऽवश्यकार्याणि वार्ष्णेयेनाभिनन्दितः ।
वार्ष्णेयं समनुज्ञाप्य तत्र वासमरोचयत् ॥ १.२३८.३४ ॥
完成了必要的事务,受到伐尔什尼(Vārṣṇeya)的欢迎,征得伐尔什尼的许可后,他决定留在那里。
1.238.35
तथेत्युक्त्वा वासुदेवो भोजनं वै शशास ह ।
यतिरूपधरं पार्थं विसृज्य सहसा हरिः।
रथेन काञ्चनाङ्गेन द्वारकामभिजग्मिवान् ॥ १.२३८.३५ ॥
瓦薇提瓦说"就这样吧",并吩咐准备饮食;随后,他送别了以苦行者模样出现的普利塔之子,哈里便忽然乘坐金色车身的战车前往德瓦拉卡。
1.238.36
अलङ्कृता द्वारका तु बभूव जनमेजय ॥ १.२३८.३६ ॥
嗬,阇那迷阇耶,德瓦拉卡被装饰一新。
1.238.37
दिदृक्षन्तश्च गोविन्दं द्वारकावासिनो जनाः ।
नरेन्द्रमार्गमाजग्मुस्तूर्णं शतसहस्रशः ॥ १.२३८.३७ ॥
众多居住在德瓦拉卡的人渴望见到戈文达,迅速成百上千地来到王道上。
1.238.38
क्षणार्धमपि वार्ष्णेया गोविन्दविरहाक्षमाः ।
कौतूहलसमाविष्टा भृशमुत्प्रेक्ष्य संस्थिताः ॥ १.२३८.३८ ॥
连半刻也不能忍受与戈文达分离的瓦尔希尼人,充满好奇,专注地凝望而立。
1.238.39
अवलोकेषु नारीणां सहस्राणि शतानि च ।
भोजवृष्ण्यन्धकानां च समवायो महानभूत् ॥ १.२३८.३९ ॥
成千上百的女子前来观看,博伽、瓦尔希尼与安陀迦的大批人聚集在一起。
1.238.40
स तथा सत्कृतः सर्वैर्भोजवृष्ण्यन्धकात्मजैः ।
अभिवाद्याभिवाद्यांश्च सर्वैश्च प्रतिनन्दितः ॥ १.२३८.४० ॥
如此受到博伽、瓦尔希尼与安陀迦诸子的敬待,他向值得敬礼的人致敬,而众人也都回礼欢迎他。
1.238.41
कुमारैः सर्वशो वीरः सत्कारेणाभिचोदितः ।
समानवयसः सर्वानाश्लिष्य स पुनःपुनः ॥ १.२३८.४१ ॥
在所有少年的敬重激励下,这位英雄一次又一次地拥抱了所有与他同龄的人。
1.238.42
कृष्णः स्वभवनं रम्यं प्रविवेश महाबलः ।
प्रभासादागतं देव्यः सर्वाः कृष्णमपूजयन् ॥ १.२३८.४२ ॥
大力的克里希纳进入了他那可爱的宫殿,所有王后都礼敬从普拉巴沙归来的克里希纳。