Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.240

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.240.1

चैराः संचारिते तस्मिन्ननुज्ञाते युधिष्ठिरे ।
वासुदेवाभ्यनुज्ञातः कथयित्वेतिकृत्यताम् ॥ १.२४०.१ ॥

当坚战允许、此事已宣布,并得到婆苏提婆(黑天)的赞同后,他说:“让此事依此而行。”

1.240.2

कृष्णस्य मतमास्थाय प्रययौ भरतर्षभः ।
द्वारकाया उपवने तस्थौ वै कार्यसाधनः ॥ १.२४०.२ ॥

采纳黑天的意见,婆罗多族的雄牛出发,在杜瓦拉卡城外的园林中停留,决心完成其事。

1.240.3

निवृत्ते ह्युत्सवे तस्मिन्गिरौ रैवतके तदा ।
वृष्णयोऽप्यगमन्सर्वे पुरीं द्वारवतीमनु ॥ १.२४०.३ ॥

当那次庆典结束时,所有的毗湿尼族人也从莱瓦塔卡山返回杜瓦拉瓦蒂城。

1.240.4

चिन्तयानस्ततो भद्रामुपविष्टः शिलातले ।
रमणीये वनोद्देशे बहुपादपसंवृते ॥ १.२४०.४ ॥

于是,他思念着巴德拉(苏跋陀罗),坐在一块石板上,那是一处被许多树木环绕的幽美林地。

1.240.5

सालतालाश्वकर्णैश्च बकुलैरर्जुनैस्तथा ।
चम्पकाशोकपुन्नागैः केतकैः पाटलैस्तथा ॥ १.२४०.५ ॥

其中有娑罗树、多罗树、马耳树,有八卡拉树与阿周那树,也有瞻波树、无忧树、普那伽树、钩木树与波吒罗树。

1.240.6

कर्णिकारैरशोकैश्च अङ्कोलैरतिमुक्तकैः ।
एवमादिभिरन्यैश्च संवृते स शिलातले ॥ १.२४०.६ ॥

那石板周围环绕着迦尼迦罗树、无忧树、安哥罗树、阿提穆克塔卡树,以及诸如此类的其他树木。

1.240.7

पुनःपुनश्चिन्तयानः सुभद्रां भद्रभाषिणीम् ।
यदृच्छया चोपपन्नान्वृष्णिवीरान्ददर्श सः ॥ १.२४०.७ ॥

他反复思念温言软语的苏跋陀罗,忽然看见恰好来到此处的伐里舍尼英雄们。

1.240.8

बलदेवं च हार्दिक्यं साम्बं सारणमेव च ।
प्रद्युम्नं च गदं चैव चारुदेष्णं विदूरथम् ॥ १.२४०.८ ॥

他也看见了大力、心之子、三婆、萨罗那、普罗颂那、伽陀、妙施与毗都罗陀。

1.240.9

भानुं च हरितं चैव विपृथुं पृथुमेव च ।
तथान्यांश्च बहून्पश्यन्हृदि शोकमधारयत् ॥ १.२४०.९ ॥

他看见婆努、哈利多、毗普利图、普利图以及其他许多人,心中便怀着悲伤。

1.240.10

ततस्ते सहिताः सर्वे यतिं दृष्ट्वा समुत्सुकाः ।
वृष्णयो विनयोपेताः परिवार्योपतस्थिरे ॥ १.२४०.१० ॥

于是他们众人一同见到苦行者,都心生敬慕;谦恭的伐里舍尼人围绕他并上前侍立。

1.240.11

ततोऽर्जुनः प्रीतमनाः स्वागतं व्याजहार सः ।
आस्यतामास्यतां सर्वै रमणीये शिलातले ॥ १.२४०.११ ॥

于是阿周那心中欢喜,致以欢迎之辞说:“请诸位都坐在这美丽的石台上,请坐。”

1.240.12

इत्येवमुक्ता यतिना प्रीतास्ते यादवर्षभाः ।
उपोपविविशुः सर्वे ते स्वागतमिति ब्रुवन् ॥ १.२४०.१२ ॥

苦行者这样说了以后,那些欢喜的耶达瓦英雄们都在他身边坐下,并说:“欢迎。”

1.240.13

परितः सन्निविष्टेषु वृष्णिवीरेषु पाण्डवः ।
आकारं गूहमानस्तु कुशलप्रश्नमब्रवीत् ॥ १.२४०.१३ ॥

众维利尼英雄围坐四周时,般度之子隐藏自己的容貌,询问他们是否安好。

1.240.14

सर्वत्र कुशलं चोक्त्वा बलदेवोऽब्रवीदिदम् ।
प्रसादं कुरु मे विप्र कुतस्त्वं चागतो ह्यसि ॥ १.२४०.१४ ॥

向各处致以问候之后,大力罗摩说道:婆罗门啊,请施恩于我,您从何处而来?

1.240.15

त्वया दृष्टानि पुण्यानि वद त्वं वदतांवर ।
पर्वतांश्चैव तीर्थानि वनान्यायतनानि च ॥ १.२४०.१५ ॥

请讲述你所见的圣地,善辩者中最优秀的人:山峦、圣渡口、森林与神庙。

1.240.16

तीर्थानां दर्शनं चैव पर्वतानां च भारत ।
आपगानां वनानां च कथयामास ताः कथाः ॥ १.२४०.१६ ॥

婆罗多的后裔啊,他讲述了所见圣渡口、山峦、河流与森林的那些故事。

1.240.17

श्रुत्वा धर्मकथाः पुण्या वृष्णिवीरा मुदान्विताः ।
अपूजयंस्तदा भिक्षुं कथान्ते जनमेजय ॥ १.२४०.१७ ॥

听完神圣的法之故事,维利尼英雄们满心欢喜,在故事结束时敬重了那位乞士,哦,遮娜梅阁耶。

1.240.18

ततस्तु यादवाः सर्वे मन्त्रयन्ति स्म भारत ।
अयं देशातिथिः श्रीमान्यतिलिङ्गधरो द्विजः ॥ १.२४०.१८ ॥

于是,所有耶达瓦人,婆罗多的后裔啊,开始商议:这位来自他乡的尊贵婆罗门,身带苦行者的标记。

1.240.19

आवासं कमुपाश्रित्य वसेत निरुपद्रवः ।
इत्येवं प्रब्रुवन्तस्तु रौहिणेयं च यादवाः ॥ १.२४०.१९ ॥

“这位婆罗门应当依靠哪处住所,才能无所困扰地居住?”耆度族人这样议论着,也向罗訶尼耶(大力罗摩)这样说道。

1.240.20

ददृशुः कृष्णमायान्तं सर्वे यादवनन्दनम् ।
एहि केशव तातेति रौहिणेयो वचोऽब्रवीत् ॥ १.२४०.२० ॥

众耆度族人看见耆度族的喜悦者克里希那走来。罗訶尼耶说道:“来吧,凯沙瓦,亲爱的。”

1.240.21

यतिलिङ्गधरो विद्वान्देशातिथिरयं द्विजः ।
वर्षमासनिवासार्थमागतो नः पुरं प्रति।
स्थाने यस्मिन्निवसतु तन्मे ब्रूहि जनार्दन ॥ १.२४०.२१ ॥

这位身披苦行者标记的博学婆罗门,是他乡来的客人;为了在我们城中居住一年多的时间而来。耆那尔达那啊,请告诉我,他应当住在哪个地方。

1.240.22

त्वयि स्थिते महाभाग परवानस्मि धर्मतः ।
स्वयं तु रुचिरे स्थाने वासयेर्यदुनन्दन ॥ १.२४०.२२ ॥

大福之人啊,只要你在这里,我依法便听从于你。耆度族的喜悦者,你亲自让他住在一个令人愉快的地方吧。

1.240.23

प्रीतः स तेन वाक्येन परिष्वज्य जनार्दनम् ।
बलदेवोऽब्रवीद्वाक्यं चिन्तयित्वा महाबलः ॥ १.२४०.२३ ॥

他因这番话而欢喜,拥抱了耆那尔达那。随后大力的巴拉德瓦沉思片刻,说出了这番话。

1.240.24

आरामे तु वसेद्धीमांश्चतुरो वर्षमासकान् ।
कन्यागृहे सुभद्राया भुक्त्वा भोजनमिच्छया ॥ १.२४०.२४ ॥

这位智者应在花园中居住四年又几个月,并依自己的意愿,在苏跋陀罗的少女宫中用膳。

1.240.25

लतागृहेषु वसतामिति मे धीयते मतिः ।
लब्धानुज्ञास्त्वया तात मन्यन्ते सर्वयादवाः ॥ १.२४०.२५ ॥

「我的定见是,居住在藤萝亭中的人应当如此。亲爱的,蒙你允许,所有的夜达瓦人也都这样认为。」

1.240.26

बलवान्दर्शनीयश्च वाग्मी श्रीमान्बहुश्रुतः ।
कन्यापुरसमीपे तु न युक्तमिति मे मतिः ॥ १.२४०.२६ ॥

「强壮、英俊、善辩、尊贵而博学的人,不宜住在少女城附近,这是我的看法。」

1.240.27

गुरुः शास्ता च नेता च शास्त्रज्ञो धर्मवित्तमः ।
त्वयोक्तं न विरुध्येहं करिष्यामि वचस्तव ॥ १.२४०.२७ ॥

「你是师长、统治者和领导者,通晓典籍,是最精通法的人。你所说的,我在此不会反对;我将遵从你的话。」

1.240.28

शुभाशुभस्य विज्ञाता नान्योऽस्मि भुवि कश्चन ॥ १.२४०.२८ ॥

「在世上通晓善与恶的人,除我之外再无他人。」

1.240.29

अयं देशातिथिः श्रीमान्सर्वधर्मभृतां वरः ।
धृतिमान्विनयोपेतः सत्यबादी जितेन्द्रियः ॥ १.२४०.२९ ॥

「这位来自远方的客人光彩照人,是一切护持法者中的最优者:坚定、谦恭、诚实,并且克制诸根。」

1.240.30

यतिलिङ्गधरो ह्येष को विजानाति मानसम् ।
त्वमिमं पुण्डरीकाक्ष नीत्वा कन्यापुरं शुभम् ॥ १.२४०.३० ॥

「此人身披苦行者的标记,谁能知道他的心?莲花眼的人啊,你把他带到美丽的少女城去吧。」

1.240.31

निवेदय सुभद्रायै मद्वाक्यपरिचोदितः ।
भक्ष्यैर्भोज्यैश्च पानैश्च अन्नैरिष्टैश्च पूजय ॥ १.२४०.३१ ॥

听从我的话,去告知苏跋陀罗,并以可嚼之食、可食之餐、饮料、谷物和可意之物款待她。