摩诃婆罗多 · 章 1.241
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.241.1
स तथेति प्रतिज्ञाय सहितो यतिना हरिः ।
कृत्वा तु संविदं तेन प्रहृष्टः केशवोऽभवत् ॥ १.२४१.१ ॥
他答应说“就这样吧”,哈里与苦行者一同与他订立了协议,克舍婆欣喜不已。
1.241.2
पर्वते तौ विहृत्यैव यथेष्टं कृष्णपाण्डवौ ।
तां पुरीं प्रविवेशाथ गृह्य हस्तेन पाण्डवम्।
प्रविश्य च गृहं रम्यं सर्वभोगसमन्वितम् ॥ १.२४१.२ ॥
二人在山中随意游览之后,克里希纳与班度之子进入了那座城市;他牵着班度之子的手,走进一座装饰着各种享受的美丽宅院。
1.241.3
पार्थमावेदयामास रुक्मिणीसत्यभामयोः ।
हृषीकेशवचः श्रुत्वा ते उभे चोचतुर्भृशम् ॥ १.२४१.३ ॥
听了希里舍舍的话后,罗克弥尼与萨蒂亚芭摩向帕尔塔禀告,二人都说了很多。
1.241.4
मनोरथो महानेष हृदि नौ परिवर्तते ।
कदा द्रक्षाव बीभत्सुं पाण्डवं पुरमागतम् ॥ १.२४१.४ ॥
这个巨大的愿望在我们心中萦绕:何时才能见到已来到城中的班度之子毗跋蹉?
1.241.5
इत्येवं हर्षमाणे ते वदन्त्यौ सुभृशं प्रियम् ।
रुग्मिणीसत्यभामे वै दृष्ट्वा प्रीतोऽभवद्यतिः ॥ १.२४१.५ ॥
二人欢喜地说了许多亲切的话;苦行者见到罗克弥尼与萨蒂亚芭摩,心中欢喜。
1.241.6
सर्वेषां हर्षमाणानां पार्थो हर्षमुपागमत् ।
प्राप्तमज्ञातरूपेण चागतं चार्जुनं हरिः ॥ १.२४१.६ ॥
在所有欢喜的人中,帕尔塔也感到了喜悦;哈里看见了以不被认出的形象到来的阿周那。
1.241.7
सत्कृत्य पूज्यमानं तु प्रीत्या चैव ह्यपूजयत् ।
स तं प्रियातिथिं श्रेष्ठं समीक्ष्य यतिमागतम् ॥ १.२४१.७ ॥
他既已敬重了受尊敬的人,又以爱意再次礼敬他。看到这位亲爱的客人、最杰出的苦行者到来,他便礼敬了他。
1.241.8
सोदर्यां भगिनीं कृष्णः सुभद्रामिदमब्रवीत् ।
अयं देशातिथिर्भद्रे संशितव्रतवानृषिः ॥ १.२४१.८ ॥
克里希纳对他的亲妹妹苏跋德拉说:“贤淑的人啊,这是本地的客人,一位持守严格誓愿的仙人。”
1.241.9
प्राप्नोतु सततं पूजां तव कन्यापुरे वसन् ।
आर्येण च परिज्ञातः पूजनीयो यतिस्त्वया ॥ १.२४१.९ ॥
愿他居于少女城,常受你的尊敬。贵人深知他;这位苦行者值得你礼敬。
1.241.10
रागाद्भरस्व वार्ष्णेयि भक्ष्यैर्भोज्यैर्यतिं सदा ।
एष यद्यदृषिर्ब्रूयात्कार्यमेव न संशयः ॥ १.२४१.१० ॥
维里希尼之女啊,请以爱意常以美味食物供养这位苦行者。此仙人所说之事,务必照办,毫无疑问。
1.241.11
सखीभिः सहिता भद्रे भवास्य वशवर्तिनी ।
पुरा हि यतयो भद्रे ये भैक्षार्थमनुव्रताः ॥ १.२४१.११ ॥
贤淑的人啊,你与侍女们一同顺从于他吧。贤淑的人啊,过去那些持戒前来乞食的苦行者,也都是这样的。
1.241.12
ते बभूवुर्दशार्हाणां कन्यापुरनिवासिनः ।
तेभ्यो भोज्यानि भक्ष्याणि यथाकालमतन्द्रिताः।
कन्यापुरगताः कन्याः प्रयच्छन्ति यशस्विनि ॥ १.२४१.१२ ॥
他们成为了十戒族的少女城居民。依时节,毫不懈怠地为他们供上饭食与美味。居于少女城的少女们,光荣的人啊,把这些献给他们。
1.241.13
सा तथेत्यब्रवीत्कृष्णं करिष्यामि यथाऽऽथ माम् ।
तोषयिष्यामि वृत्तेन कर्मणा च द्विजर्षभम् ॥ १.२४१.१३ ॥
她对克利须那说:"我会照你说的去做。以我的品行与行为,我将使那位再生者中的最优者欢喜。"
1.241.14
एवमेतेन रूपेण कंचित्कालं धनञ्जयः ।
उवास भक्ष्यैर्भोज्यैश्च भद्रया परमार्चितः ॥ १.२४१.१४ ॥
就这样,以此形貌,达那闍耶与跋德罗同住了一段时间,备受盛情款待,美食佳肴不断。
1.241.15
तस्य सर्वगुणोपेतां वासुदेवसहोदरीम् ।
पश्यतः सततं भद्रां प्रादुरासीन्मनोभवः ॥ १.२४१.१५ ॥
他持续注视着拥有一切美德的婆苏提婆之妹跋德罗,爱欲(摩娜波婆)便在他心中生起。
1.241.16
गूहयन्निव चाकारमालोक्य वरवर्णिनीम् ।
दीर्घमुष्णं विनिश्वस्य पार्थः कामवशं गतः ॥ १.२४१.१६ ॥
见到那位容颜俊美的女子,他仿佛掩饰着内心,长长地、热热地叹了一口气,陷入了欲望的掌控。
1.241.17
स कृष्णां द्रौपदीं मेने न रूपे भद्रया समाम् ।
प्राप्तां भूमान्विन्द्रसेनां साक्षाद्वा वरुणात्मजाम् ॥ १.२४१.१७ ॥
他认为克利希那·德罗波蒂在容貌上不及跋德罗,连降临大地的频度塞娜,甚至婆楼那之女,也不能与之相比。
1.241.18
अतीतकाले संप्राप्ते सर्वास्तापि सुरस्त्रियः ।
न समा भद्रया लोके इत्येवं मन्यतेऽर्जुनः ॥ १.२४१.१८ ॥
阿周那认为,往昔降临的所有天女,在世间也没有一人能与跋德罗相比。
1.241.19
अतीतसमये काले सोदर्याणां धनञ्जयः ।
न सस्मार सुभद्रायां कामाङ्कुशनिवारितः ॥ १.२४१.१९ ॥
往昔,财富征服者在姐妹之中不曾想起苏婆达罗,他被欲望的铁钩所制。
1.241.20
क्रीडारतिपरां भद्रां सखीगणसमावृताम् ।
प्रीयते स्मार्जुनः पश्यन्स्वाहामिव विभावसुः ॥ १.२४१.२० ॥
阿周那见到被众女伴环绕、沉醉于嬉戏与欢乐中的跋陀罗,心中欢喜,如火神见到娑诃而喜悦。
1.241.21
पाण्डवस्य सुभद्रायाः सकाशे तु यशस्विनः ।
समुत्पत्तिः प्रभावश्च गदेन कथितः पुरा ॥ १.२४१.२१ ॥
在般度之子面前,关于苏婆达罗,那位光荣者的出生与威力早先已由伽陀讲述。
1.241.22
श्रुत्वा चाशनिनिर्घोषं केशवेनापि धीमता ।
उपमामर्जुनं कृत्वा विस्तरः कथितः पुरा ॥ १.२४१.२२ ॥
闻那如雷霆般的吼声,智慧的羯舍婆亦以阿周那作譬喻,先前已详细述说。
1.241.23
क्रुद्धमानप्रलापश्च वृष्णीनामर्जुनं प्रति ।
पौरुषं चोपमां कृत्वा प्रावर्तत धनुष्मताम् ॥ १.२४१.२३ ॥
伐栗尼族愤怒而自负的哀叹转向阿周那;以勇力为喻,在诸弓手之间开始了。
1.241.24
अन्योन्यकलहे चापि विवादे चापि वृष्णयः ।
अर्जुनोपि न मे तुल्यः कुतस्त्वमिति चाब्रुवन् ॥ १.२४१.२४ ॥
在彼此的争吵与辩论中,伐栗尼族也说:“阿周那尚且不及我,你又怎能与我相比?”
1.241.25
जातांश्च पुत्रान्गृह्णन्त आशिषो वृष्णयोऽब्रवन् ।
अर्जुनस्य समो वीर्ये भव तात धनुर्धरः ॥ १.२४१.२५ ॥
vṛṣṇi们接过新生的儿子,祝福说:"亲爱的孩子,愿你在勇力上与阿周那相当,成为一名弓箭手。"
1.241.26
तस्मात्सुभद्रा चकमे पौरुषाद्भरतर्षभम् ।
सत्यसन्धस्य रूपेण चातुर्येण च मोहिता ॥ १.२४१.२६ ॥
因此,苏跋陀罗因这位薄伽的雄姿而心生爱慕;她被这位誓言不欺者的容貌与机智所迷惑。
1.241.27
चारणातिथिसंघानां गदस्य च निशम्य सा ।
अदृष्टे कृतभावाभूत्सुभद्रा भरतर्षभे ॥ १.२४१.२७ ॥
苏跋陀罗听了赞者、客人群以及伽陀的讲述后,对这位从未见过的薄伽雄牛生出了情意。
1.241.28
कीर्तयन्ददृशे यो यः कथंचित्कुरुजाङ्गलम् ।
तं तमेव तदा भद्रा बीभत्सुं स्म हि पृच्छति ॥ १.२४१.२८ ॥
凡是有人以某种方式描述库鲁-阇安伽罗地区,苏跋陀罗便向那人询问关于比跋陀苏(阿周那)的事。
1.241.29
अभीक्ष्णश्रवणादेवमभीक्ष्णपरिपृच्छनात् ।
प्रत्यक्ष इव भद्रायाः पाण्डवः प्रत्यपद्यत ॥ १.२४१.२९ ॥
因为不断地听闻和不断地询问,那位般度之子对跋陀罗而言仿佛就在眼前一般。
1.241.30
भुजौ भुजगसङ्काशौ ज्याघातेन किणीकृतौ ।
पार्थोऽयमिति पश्यन्त्या निःशंसयमजायत ॥ १.२४१.३० ॥
她看着那两条如蛇般的手臂,因弓弦的击打而磨出了厚茧,心中无疑地确定:"这是帕尔塔。"
1.241.31
यथारूपं हि शुश्राव सुभद्रा भरतर्षभम् ।
तथारूपमवेक्ष्यैनं परां प्रीतिमवाप सा ॥ १.२४१.३१ ॥
须跋陀罗见到薄羅多族的俊杰,与所闻的容貌一模一样,心中生出无上的欢喜。
1.241.32
सा कदाचिदुपासीनं पप्रच्छ कुरुनन्दनम् ।
कथं देशाश्च चरिता नानाजनपदाः कथम् ॥ १.२४१.३२ ॥
一日,她向坐在身旁的俱卢之喜询问:您是如何走遍各地和众多邦国的?
1.241.33
सरांसि सरितश्चैव वनानि च कथं यते ।
दिशः काश्च कथं प्राप्ताश्चरता भवता सदा ॥ १.२४१.३३ ॥
湖泊、河流和森林,您是如何穿越的?您不断远行,又是如何抵达各个方向的?
1.241.34
स तथोक्तस्तदा भद्रां बहुनर्मामृतं ब्रुवन् ।
उवाच परमप्रीतस्तथा बहुविधाः कथाः ॥ १.२४१.३४ ॥
他听了这样的问话,十分欢喜,以许多如甘露般的戏言对吉祥的跋陀罗讲述了种种故事。
1.241.35
निशण्य विविधं तस्य लोके चरितमात्मनः ।
तथा परिगतो भावः कन्यायाः समपद्यत ॥ १.२४१.३५ ॥
她听到他在世间所做的种种事迹,少女的心中也生起了同样的情意。
1.241.36
पर्वसन्धौ तु कस्मिंश्चित्सुभद्रा भरतर्षभम् ।
रहस्येकान्तमासाद्य हर्षमाणाऽभ्यभाषत ॥ १.२४१.३६ ॥
在某个节日交替之时,须跋陀罗在僻静之处走近薄羅多族的俊杰,欢喜地与他交谈。
1.241.37
यतिना रचता देशान्खाण्डवप्रस्थवासिनी ।
कश्चिद्भगवता दृष्टा पृथाऽस्माकं पितृष्वसा ॥ १.२४१.३७ ॥
在苦行者创造了诸地之后,一位世尊看见了居住在坎达瓦普拉斯塔的我们的姑母普利塔。
1.241.38
भ्रातृभिः प्रीयते सर्वैर्दृष्टः कच्चिद्युधिष्ठिरः ।
कच्चिद्धर्मपरो भीमो धर्मराजस्य धीमतः ॥ १.२४१.३८ ॥
尤迪什提拉是否被众兄弟欢喜地看见?虔信法的怖军,是否看见于智慧的法王身边?
1.241.39
निवृत्तसमयः कच्चिदपराधाद्धनञ्जयः ।
नियमे कामभोगानां वर्तमानः प्रिये रतः ॥ १.२४१.३९ ॥
财富征服者因某种过错,其誓约之期是否已满?他是否守持欲乐的节制,在爱妻身边欢喜?
1.241.40
क्व नु पार्थश्चरत्यद्य बहिः स वसतीर्वसन् ।
सुखोचितो ह्यदुःखार्हो दीर्घबाहुररिन्दमः ॥ १.२४१.४० ॥
普利塔之子如今游荡在何方?他居住在外面的住处,习惯于安逸,不配受苦,是长臂的敌人征服者。
1.241.41
कच्चिच्छ्रुतो वा दृष्टो वा पार्थो भगवताऽर्जुनः ।
निशम्य वचनं तस्यास्तामुवाच हसन्निव ॥ १.२४१.४१ ॥
世尊是否听闻或看见了普利塔之子阿周那?他听了她的话,仿佛微笑般对她说道。
1.241.42
आर्या कुशलिनी कुन्ती सहपुत्रा सहस्नुषा ।
प्रीयते पश्यती पुत्रान्खाण्डवप्रस्थ आसते ॥ १.२४१.४२ ॥
高贵的贡蒂安好,与众子和儿媳同在;看着儿子们而欢喜,居住在坎达瓦普拉斯塔。
1.241.43
अनुज्ञातश्च मात्रा च सोदरैश्च धनञ्जयः ।
द्वारकामावसत्येको यतिलिङ्गेन पाण्डवः ॥ १.२४१.४३ ॥
得到母亲和兄弟的允许后,财主(阿周那)这位般度之子,以苦行者的装束独自住在德瓦拉卡。
1.241.44
पश्यन्ती सततं कस्मान्नाभिजानासि माधवि ।
निशण्य वचनं तस्य वासुदेवसहोदरी ॥ १.२४१.४४ ॥
你时常看见他,为何却认不出他,啊摩陀毗?婆薮提婆的妹妹听了他的话。
1.241.45
निश्वासबहुला तस्थौ क्षितिं विलिखती तदा ।
ततः परमसंहृष्टः सर्वशस्त्रभृतां वरः ॥ १.२४१.४५ ॥
她屡屡叹息,站着用脚划着地面。那时,持兵器者中最优秀的人非常欢喜,
1.241.46
अर्जुनोऽहमिति प्रीतस्तामुवाच धनञ्जयः ।
यथा तव गतो भावः श्रवणान्मयि भामिनि ॥ १.२४१.४६ ॥
“我就是阿周那。”欢喜的财主对她说:“美人啊,你因听闻我而在心中生出的情意……”
1.241.47
त्वद्गतः सततं भावस्तथा तव गुणैर्मम ।
प्रशस्तेऽहनि धर्मेण भद्रे स्वयमहं वृतः ॥ १.२४१.४७ ॥
“我对你的情意时刻不变,你的美德也使你对我如此。善良的人啊,在吉日,依法,我自己被你选中了。”
1.241.48
सत्यवानिव सावित्र्या भविष्यामि पतिस्तव ॥ १.२४१.४८ ॥
正如萨谛耶梵是萨维德丽的丈夫,我将成为你的丈夫。
1.241.49
एवमुक्त्वा ततः पार्थः प्रविवेश लतागृहम् ।
ततः सुभद्रा ललिता लज्जाभावसमन्विता ॥ १.२४१.४९ ॥
说罢,般度之子进入了藤蔓亭。那时,优雅的苏跋陀罗充满羞怯之情,
1.241.50
मुमोह शयने दिव्ये शयाना न तथोचिता ।
नाकरोद्यतिपूजां सा लज्जाभावमुपेयुषी ॥ १.२४१.५० ॥
她躺在神圣的床榻上,心神迷乱,这对她并不相宜。她陷入羞怯之中,没有行迎接尊者的礼敬。
1.241.51
कन्यापुरे तु यद्वृत्तं ज्ञात्वा दिव्येन चक्षुषा ।
शशास रुक्मिणीं कृष्णो भोजनादि तदार्जुने ॥ १.२४१.५१ ॥
而黑天以神眼得知在少女城所发生的事,便吩咐罗克弥尼关于阿周那的饮食等事宜。
1.241.52
तदाप्रभृति तां भद्रां चिन्तयन्वै धनञ्जयः ।
आस्ते स्म स तदाऽऽरामे कामेन भृशपीडितः ॥ १.२४१.५२ ॥
从那时起,财主一直留在那园中,心中只想着那位吉祥的苏跋陀罗,被欲望深深折磨。
1.241.53
सुभद्रा चापि न स्वस्था पार्थं प्रति बभूव सा ।
कृशा विवर्णवदना चिन्ताशोकपरायणा ॥ १.२४१.५३ ॥
苏跋陀罗对般度之子也不安宁。她消瘦、面色苍白,沉溺于忧虑与悲伤之中。
1.241.54
निश्वासपरमा भद्रा मानसेन मनस्विनी ।
न शय्यासनभोगेषु रतिं विन्दति केनचित् ॥ १.२४१.५४ ॥
那位吉祥而有志的女子,满是叹息,心中痛苦,在床榻、座位与享乐之中都找不到丝毫快乐。
1.241.55
न नक्तं न दिवा शेते बभूवोन्मत्तदर्शना ।
एवं शोकपरां भद्रां देवी वाक्यमथाब्रवीत्।
मा शोकं कुरु वार्ष्णेयि धृतिमालम्ब्य शोभने ॥ १.२४१.५५ ॥
她夜里不眠,白日也不眠,目光如同癫狂之人。于是天女对陷入悲伤的跋陀罗说了这些话:“伐尔奇尼之女啊,不要悲伤;振作起来,光彩照人的人。”
1.241.56
रुक्मिण्येवं सुभद्रां तां कृष्णस्यानुमते तदा ।
रहोगत्य तदा श्वश्रूं देवकीं वाक्यमब्रवीत् ॥ १.२४१.५६ ॥
于是,经克里希那同意,罗克密妮这样对苏跋陀罗说;随后,她独自走开,对婆婆提婆基说了这些话。
1.241.57
अर्जुनो यतिरूपेण ह्यागतः सुसमाहितः ।
कन्यापुरमथाविश्य पूजितो भद्रया मुदा ॥ १.२४१.५७ ॥
阿周那以苦行者的形象前来,内心完全专注。他进入少女之城,受到跋陀罗欢喜的礼敬。
1.241.58
तं विदित्वा सुभद्रापि लज्जया परिमोहिता ।
दिवानिशं शयाना सा नाकरोद्भोजनादिकम् ॥ १.२४१.५८ ॥
认出他后,苏跋陀罗也因羞愧而心神迷乱。她昼夜躺卧,不进饮食等任何事。
1.241.59
एवमुक्ता तया देवी भद्रां शोकपरायणाम् ।
तत्समीपं समागत्य श्लक्ष्णं वाक्यमथाब्रवीत् ॥ १.२४१.५९ ॥
经她这样说后,天女来到沉浸于悲伤的跋陀罗身边,温和地说了这些话。
1.241.60
मा शोकं कुरु वार्ष्णेयि धृतिमालम्ब्य शोभने ।
राज्ञे निवेदयित्वापि वसुदेवाय धीमते ॥ १.२४१.६० ॥
伐尔奇尼之女啊,不要悲伤;振作起来,光彩照人的人。在禀告国王和智慧的婆修提婆之后,
1.241.61
कृष्णायापि तथा भद्रे प्रहर्षं कारयामि ते ।
पश्चाज्जानामि ते वार्तां मा शोकं कुरु भामिनि ॥ १.२४१.६१ ॥
我也会这样告诉黑天,让你欢喜,吉祥的女子啊。之后我会得知你的消息;不要悲伤,美丽的女子。
1.241.62
एवमुक्त्वा तु सा माता भद्रायाः प्रियकारिणी ।
निवेदयामास तदा भद्रामानकदुन्दुभेः ॥ १.२४१.६२ ॥
这样说完后,那位使跋陀罗欢喜的母亲便将跋陀罗的事告诉了阿那迦敦都毗。
1.241.63
रहस्येकासना तत्र भद्राऽस्वस्थेति चाब्रवीत् ।
आरामे तु यतिः श्रीमानर्जुनश्चेति नः श्रुतम् ॥ १.२४१.६३ ॥
在那里,她独自秘密地坐着,跋陀罗说她身体不适。我们还听说,花园里有一位身为苦行者的光辉的阿周那。
1.241.64
अक्रूराय च कृष्माय आहुकाय च सात्येकः ।
निवेद्यतां महाप्राज्ञ श्रोतव्यं यदि बान्धवैः ॥ १.२४१.६४ ॥
请萨提亚基也将此事告诉阿克鲁罗、黑天和阿呼迦,哦大智者,如果亲属应当听闻。
1.241.65
वसुदेवस्तु तच्छ्रुत्वा अक्रूराहुकयोस्तथा ।
निवेदयित्वा कृष्णेन मन्त्रयामास तैस्तदा ॥ १.२४१.६५ ॥
婆苏提婆听闻此事后,同样告知阿克鲁罗和阿呼迦,然后便与黑天及他们商议。
1.241.66
इदं कार्यमिदं कृत्यमिदमेवेति निश्चितः ।
अक्रूरश्चोग्रसेनश्च सात्यकिश्च गदस्तथा ॥ १.२४१.६६ ॥
他们决定说:“这就是要做的事,这就是义务,这正是确定的。”阿克鲁罗、乌格拉塞那、萨提亚基,还有迦达也是如此。
1.241.67
पृथुश्रवाश्च कृष्णश्च सहिताः शिनिना मुहुः ।
रुक्मिणी सत्यभामा च देवकी रोहिणी तथा ॥ १.२४१.६७ ॥
普利图什罗瓦斯与黑天同希尼多次聚会;鲁格弥尼、萨提亚婆玛、提婆吉和罗希尼亦然。
1.241.68
वसुदेवेन सहिताः पुरोहितमते स्थिताः ।
विवाहं मन्त्रयामासुर्द्वादशेऽहनि भारत ॥ १.२४१.६८ ॥
与婆苏提婆一同依祭司之议而坐,于第十二日商议婚事,婆罗多啊。
1.241.69
अज्ञातं रौहिणेयस्य उद्धवस्य च भारत ।
विवाहं तु सुभद्रायाः कर्तुकामो गदाग्रजः ॥ १.२४१.६९ ॥
婆罗多啊,在罗赫尼之子(大力罗摩)与乌陀瓦不知情的情况下,加陀之兄(黑天)想为妙贤办婚礼。
1.241.70
महादेवस्य पूजार्थं महोत्सव इति ब्रुवन् ।
चतुस्त्रिंशदहोरात्रं सुभद्रार्तिप्रशान्तये ॥ १.२४१.७० ॥
说这是敬奉大天的盛大节日,为了平息妙贤的忧伤,持续三十四个昼夜。
1.241.71
नगरे घोषयास हितार्थं सव्यसाचिनः ।
इतश्चतुर्थे त्वहनि अन्तर्द्वीपं तु गम्यताम् ॥ १.२४१.७१ ॥
城中为萨维亚萨钦(阿周那)的利益发布告示:从此地起第四日,众人当前往内岛。
1.241.72
सदारैः सानुयात्रैश्च सपुत्रैः सहबाधवैः ।
गन्तव्यं सर्ववर्मैश्च गन्तव्यं सर्वयादवैः ॥ १.२४१.७२ ॥
应与妻室、随从、子嗣及亲属同行;所有披甲战士与所有雅达瓦人都应前往。
1.241.73
एवमुक्तास्तु ते सर्वे तथा चक्रुश्च सर्वशः ।
ततः सर्वदशार्हाणामन्तर्द्वीपे च भारत ॥ १.२४१.७३ ॥
众人如此受命,便全部照办。然后,婆罗多啊,在诸达夏尔哈人的岛上。
1.241.74
चतुस्त्रिंशदहोरात्रं बभूव परमोत्सवः ।
कृष्णरामाहुकाक्रूरप्रद्युम्नशिनिसत्यकाः ॥ १.२४१.७४ ॥
三十四昼夜举行盛大的庆典,黑天、罗摩、阿呼迦、阿克鲁罗、普拉杜姆纳、希尼与萨提亚迦都在场。
1.241.75
समुद्रं प्रययुर्हृष्टाः कुकुरान्धकवृष्णयः ।
युक्तयन्त्रपताकाभिर्वृष्णयो ब्राह्मणैः सह ॥ १.२४१.७५ ॥
欢欣的库库罗、安陀迦与毗湿尼人驾着车驾、举着旗帜前往大海;毗湿尼人与婆罗门同行。
1.241.76
समुद्रं प्रययुर्नौभिः सर्वे पुरनिवासिनः ।
ततस्त्वरितमागत्य दाशार्हगणपूजितम् ॥ १.२४१.७६ ॥
城中居民都乘船前往大海;随后迅速到达诸达夏尔哈军众所敬拜之地。
1.241.77
सुभद्रा पुण्डरीकाक्षमब्रवीद्यतिशासनात् ।
कृत्यवान्द्वादशाहानि स्थाता स भगवानिह ॥ १.२४१.७७ ॥
苏跋陀罗奉苦行者之命对莲花眼者说:“这位世尊因有职责,将在此停留十二天。”
1.241.78
तिष्ठतस्तस्य कः कुर्यादुपस्थानविधिं सदा ।
तमुवाच हृषीकेशः कस्त्वदन्यो विशेषतः ॥ १.२४१.७८ ॥
他停留时,谁会始终行侍奉之礼?希瑟凯莎对她说:“除你之外,还有谁尤其合适?”
1.241.79
तमृषिं प्रत्युपस्थातुमितो नार्हति माधवि ।
त्वमेवास्मन्मतेनाद्य महर्षेर्वशवर्तिनी ॥ १.२४१.७९ ॥
摩陀维啊,此地没有别人配去侍奉那位仙人。依我们今日的看法,唯有你应当顺从那位大仙。
1.241.80
कुरु सर्वाणि कार्याणि कीर्तिं धर्ममवेक्ष्य च ।
तस्य चातिथिमुख्यस्य सर्वेषां च तपस्विनाम् ॥ १.२४१.८० ॥
顾念名誉与法,尽心完成一切职责;对那位尊贵的客人和所有苦行者,也应如此。
1.241.81
संविधानपरा भद्रे भव त्वं वशवर्तिनी ॥ १.२४१.८१ ॥
善良的女子啊,要专心安排诸事,并且顺从。
1.241.82
एवमादिश्य भिक्षां च भद्रां च मधुसूदनः ।
ययौ शङ्खप्रणादेन भेरीणां निस्वनेन च ॥ १.२४१.८२ ॥
如此吩咐了吉祥的施舍之事后,摩图苏陀那在海螺的吹响与战鼓的轰鸣中离去。
1.241.83
ततस्तु द्वीपमासाद्य दानधर्मपरायणाः ।
उग्रसेनमुखाश्चान्ये विजहुः कुकुरान्धकाः ॥ १.२४१.८३ ॥
随后抵达岛上,以施舍之法为务的乌格罗塞那为首的库库罗与安陀迦人,尽情欢乐。
1.241.84
पटहानां प्रणादैश्च भेरीणां निस्वनेन च ।
सप्तयोजनविस्तार आयतो दशयोजनम् ॥ १.२४१.८४ ॥
鼓声与大鼓的轰鸣充满其间,它宽七由旬,长十由旬。
1.241.85
बभूव स महाद्वीपः सपर्वतमहावनः ।
सेतुपुष्करिणीजालैराक्रीडः सर्वसात्वताम् ॥ १.२४१.८५ ॥
这座大岛有山峦与大森林,遍布桥梁与莲池,成为所有萨特瓦塔人的游乐之地。
1.241.86
वापीपल्वलसङ्घैश्च काननैश्च मनोरमैः ।
वासुदेवस्य क्रीडार्थं योग्यः सर्वप्रहर्षतः ॥ १.२४१.८६ ॥
这里布满井池与水塘,并有迷人的树林,适合瓦苏德瓦游玩,使所有人极为欢喜。
1.241.87
कुकुरान्धकवृष्णीनां तथा प्रियकरस्तदा ।
बभूव परमोपेतस्त्रिविष्टप इवापरः ॥ १.२४१.८७ ॥
那时它成为库库拉、安陀迦与毗湿尼人的喜乐之所,具足最高的德性,宛如另一座天界。
1.241.88
चतुस्त्रिंशदहोरात्रं दानधर्मपरायणाः ।
उग्रसेनमुखाः सर्वे विजहुः कुकुरान्धकाः ॥ १.२४१.८८ ॥
三十四昼夜,专心于布施之法,以乌格罗塞那为首的库库拉与安陀迦人尽情欢乐。
1.241.89
विचित्रमाल्याभरणाश्चित्रगन्धानुलेपनाः ।
विहाराभिगताः सर्वे यादवा हर्षसंयुताः ॥ १.२४१.८९ ॥
佩戴斑斓的花环与饰物,涂抹各色香膏,沉浸于游乐之中的所有雅达瓦人都充满欢喜。
1.241.90
सुनृत्तगीतवादित्रै रममाणास्तदाऽभवन् ।
प्रतियाते दशार्हाणामृषभे शार्ङ्गधन्वनि।
सुभध्रोद्वाहनं पार्थः प्राप्तकालममन्यत ॥ १.२४१.९० ॥
他们沉醉于精妙的舞蹈、歌唱与乐器之中。当达沙尔哈的雄牛、持弓的舍尔迦离去后,帕尔塔认为苏跋陀罗的婚礼时机已到。