Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.243

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.243.1

वृष्म्यन्धकपुरात्तस्मादपयातुं धनञ्जयः ।
विनिश्चित्य तया सार्धं सुभद्रामिदमब्रवीत् ॥ १.२४३.१ ॥

Dhanañjaya(阿周那)决定从伐里斯尼与安陀迦之城出发,于是与她一同对苏跋陀罗说了这些话。

1.243.2

द्विजानां गुणमुख्यानां यथार्हं प्रतिपादय ।
भोज्यैर्भक्ष्यैश्च कामैश्च स्वपुरीं प्रतियास्यताम् ॥ १.२४३.२ ॥

以其所宜,将食物、美味与所欲之物赠予德行卓越的再生族,让他们返回自己的城市。

1.243.3

आत्मनश्च समुद्दिश्य महाव्रतसमापनम् ।
गच्छ भद्रे स्वयं तूर्णं महाराजनिवेशनम् ॥ १.२४३.३ ॥

为了我们自己,也为了完成大誓,吉祥者啊,你亲自快快前往大王的宫殿。

1.243.4

तेजोबलजवोपेतैः शुक्लैर्हयवरोत्तमैः ।
वाजिभिः शैव्यसुग्रीवमेघपुष्पबलाहकैः ॥ १.२४३.४ ॥

以白色的上等骏马为驾,它们具备光辉、力量与速度——名为 Śaivya、Sugrīva、Megha-puṣpa 与 Balāhaka 的马。

1.243.5

युक्तं रथवरं तूर्णमिहानय सुसत्कृतम् ।
व्रतार्थमिति भाषित्वा सखीभिः सुभगे सह ॥ १.२४३.५ ॥

快快将已套好的上等战车带到这里,装饰精良。说是“为了誓愿”,吉祥的你,与女伴们一同前来。

1.243.6

क्षिप्रमादाय पर्येहि सह सर्वायुधेन च ।
अनुकर्षान्तपताकाश्च तूणीरांश्च धनूंषि च ॥ १.२४३.६ ॥

快快拿着所有兵器,连同缰绳、顶端的旗帜、箭袋与弓,来到我身边。

1.243.7

सर्वान्रथवरे स्थाप्य सोत्सेधाश्च महागदाः ॥ १.२४३.७ ॥

将一切置于良车之上,还有高高的大铁棍。

1.243.8

अर्जुनेनैवमुक्ता सा सुभद्रा भद्रभाषिणी ।
जगाम नृपतेर्वेश्म सखीभिः सहिता तदा ॥ १.२४३.८ ॥

阿周那如此说后,善言的妙贤便与女伴们一同前往国王的宫殿。

1.243.9

व्रतार्थमिति तत्रस्थान्रक्षिणो वाक्यमब्रवीत् ।
रथेनानेन यास्यामि महाव्रतसमापनम् ॥ १.२४३.९ ॥

她对站在那里的守卫说:"为了誓愿,我将乘此车前往完成大愿。"

1.243.10

शैब्यसुग्रीवयुक्तेन सायुधेनैव शार्ङ्गिणः ।
रथेन रमणीयेन प्रयास्यामि व्रतार्थिनी ॥ १.२४३.१० ॥

以耦于执弓者(克里希那)的舍耶和须羯哩婆所驾的美车,携带武器,我将为履行誓愿而出发。

1.243.11

सुभध्रयैवमुक्ते तु जनाः प्राञ्जलयोऽभवन् ।
योजयित्वा रथवरं कल्याणैरभिभाष्य ताम् ॥ १.२४३.११ ॥

妙贤如此说后,众人合掌而立;套好良车,以吉祥之言与她交谈。

1.243.12

यथोक्तं सर्वमारोप्य आयुधानि च भामिनी ।
क्षिप्रमादाय कल्याणी सुभद्राऽर्जुनमब्रवीत् ॥ १.२४३.१२ ॥

按所说将一切与武器装上,迅速取来,吉祥而光彩的妙贤对阿周那说。

1.243.13

रथोऽयं रथिनां श्रेष्ठ आनीतस्तव शासनात् ।
स त्वं याहि यथाकामं कुरून्कौरवनन्दन ॥ १.२४३.१३ ॥

此车是车士中的最优者,已按你的命令牵来。请你随意前往俱卢族,考拉瓦之喜悦者。

1.243.14

निवेद्य तु रथं भर्तुः सुभद्रा भद्रसंमता ।
ब्राह्मणानां तदा हृष्टा ददौ सा विविधं वसु ॥ १.२४३.१४ ॥

苏跋陀罗因善良而受人敬重,将战车献给丈夫后,便欢喜地把各种财物布施给婆罗门。

1.243.15

स्नेहवन्ति च भोज्यानि प्रददावीप्सितानि च ।
यथाकामं यथाश्रद्धं वस्त्राणि विविधानि च ॥ १.२४३.१५ ॥

她按各人所愿、依信心所及,施予美味可口的食物和各式衣裳。

1.243.16

तर्पिता विविधैर्भोज्यैस्तान्यवाप्य वसूनि च ।
ब्राह्मणाः स्वगृहं जग्मुः प्रयुज्य परमाशिषः ॥ १.२४३.१६ ॥

婆罗门们以各种食物满足,得到了那些财物,口中诵出至高的祝福,各自回家去了。

1.243.17

सुभद्रया तु विज्ञप्तः पूर्वमेव धनञ्जयः ।
अभीशुग्रहणे पार्थ न मेऽस्ति सदृशो भुवि ॥ १.२४३.१७ ॥

财天(阿周那)早已被苏跋陀罗告知,便说道:“普利塔之子啊,论执掌缰绳,世上没有人与我相等。”

1.243.18

तस्मात्सा पूर्वमारुह्य रश्मीञ्जग्राह माधवी ।
सोदरा वासुदेवस्य कृतस्वस्त्ययना हयान् ॥ १.२४३.१८ ॥

于是婆薮提婆的妹妹摩陀维先行登车,行完吉祥的仪式,便握住了马的缰绳。

1.243.19

व्यत्ययित्वा तु तल्लिङ्गं यतिवेषं धनञ्जयः ।
आमुच्य कवचं वीरः समुच्छ्रितमहद्धनुः ॥ १.२४३.१९ ॥

达那阳阇更换了他的标记,穿上苦行者的服饰;英雄卸下铠甲,拿起高高举起的大弓。

1.243.20

आरुरोह रथश्रेष्ठं शुक्लवासा धनञ्जयः ।
महेन्द्रदत्तं मुकुटं तथैवाभरणानि च ॥ १.२४३.२० ॥

达那阳阇身着白衣登上最好的战车,戴着摩哂陀罗(因陀罗)所赐的王冠,也佩戴了相应的饰物。

1.243.21

अलङ्कृत्य तु कौन्तेयः प्रयातुमुपचक्रमे ।
ततः कन्यापुरे घोषस्तुमुलः समपद्यत ॥ १.२४३.२१ ॥

身着盛装的贡蒂之子开始出发;这时,少女之城里响起了一片喧嚣。

1.243.22

दृष्ट्वा नववरं पार्थं बाणखड्गधनुर्धरम् ।
अभीशुहस्तां सुश्रोणीमर्जुनेन रथे स्थिताम् ॥ १.२४३.२२ ॥

看见新婚的帕尔塔手持箭、剑与弓,又见那位腰肢纤美的女子手执缰绳,与阿周那一同立于战车之上……

1.243.23

ऊचुः कन्यास्तदा यान्तीं वासुदेवसहोदराम् ।
सर्वकामसमृद्धा त्वं सुभद्रे भद्रभाषिणि ॥ १.२४३.२३ ॥

这时,少女们对正要离去的婆苏提婆之妹说:"苏跋陀罗啊,言语和善的你,一切愿望都已圆满!"

1.243.24

वासुदेवप्रियं लब्ध्वा भर्तारं वीरमर्जुनम् ।
सर्वसीमन्तिनीनां त्वां श्रेष्ठां कृष्णसहोदरीम् ॥ १.२४३.२४ ॥

你深受婆苏提婆喜爱,得到英雄阿周那为夫,在所有已婚女子中你最为殊胜,克里希那的妹妹啊。

1.243.25

मन्यामहे महाभागे सुभद्रे भद्रभाषिणि ।
यस्मात्सर्वमनुष्याणां श्रेष्ठो भर्ता तवार्जुनः ॥ १.२४३.२५ ॥

哦,大福的苏跋陀罗,哦,说吉祥言语的人,我们认为你的丈夫阿周那是所有人中最好的。

1.243.26

उपपन्नस्त्वया वीरः सर्वलोकमहारथः ।
हे प्रयाहि गृहान्भद्रे सुहृद्भिः संगमोऽस्तु ते ॥ १.२४३.२६ ॥

你得到了这位英雄,他是一切世界中的大战车手,堪称相配。吉祥的人啊,回家去吧,愿你与朋友重逢。

1.243.27

एवमुक्ता प्रहृष्टाभिः सखीभिः प्रतिनन्दिता ।
भद्रा भद्रजवोपेतानश्वान्पुनरचोदयत् ॥ १.२४३.२७ ॥

欢欣的女伴们这样说了,并向她致贺,跋陀罗便再次驱策那些速度吉祥的马。

1.243.28

पार्श्वे चामरहस्ता सा सखी तस्याङ्गनाऽभवत् ।
ततः कन्यापुरद्वारात्सघोषादभिनिःसृतम् ॥ १.२४३.२८ ॥

她身旁手持牦牛尾拂的那位女伴成了她的侍女。随后,伴着喧响,车辆从少女城的门中驶出。

1.243.29

ददृशुस्तं रथश्रेष्ठं जना जीमूतनिस्वनम् ।
सुभद्रासङ्गृहीतस्य रथस्य महतः स्वनम् ॥ १.२४३.२९ ॥

人们看见那辆如雷鸣云般的殊胜战车,并听见了被苏跋陀罗选中之人的那辆大车的巨响。

1.243.30

मेघस्वनमिवाकाशे शुश्रुवुः पुरवासिनः ।
सुभद्रया तु संपन्ने तिष्ठन्रथवरेऽर्जुनः ॥ १.२४३.३० ॥

城中居民听到它,如同天空中的云雷之声;阿周那与苏跋陀罗一同站在那辆殊胜的战车上,[被人看见]。

1.243.31

प्रबभौ च तयोपेतः कैलास इव गङ्गया ।
पार्थः सुभद्रासहितो विरराज महारथः ॥ १.२४३.३१ ॥

如同凯拉萨山与恒河相映生辉,与她同在的般度之子熠熠生辉;大车勇士阿周那与苏跋陀罗同光辉耀。

1.243.32

विराजते यथा शक्रो राजञ्शच्या समन्वितः ।
सुभद्रां प्रेक्ष्य पार्थेन ह्रियमाणां यशस्विनीम् ॥ १.२४३.३२ ॥

大王啊,犹如因陀罗与舍娇同在而光辉照耀,他见到被般度之子带走的光荣的苏跋陀罗,也便光彩焕发。

1.243.33

चक्रुः किलकिलाशब्दानासाद्य बहवो जनाः ।
दाशार्हाणां कुलस्य श्रीः सुभद्रा मद्रभाषिणी ॥ १.२४३.३३ ॥

众人发出"kilakilā"的呼喊;达舍尔哈族之光、言语甜美的苏跋陀罗,

1.243.34

अभिकामा सकामेन पार्थेन सह गच्छति ।
अथापरे तु संक्रुद्धा गृह्णीत घ्नत माचिरम् ॥ १.२४३.३४ ॥

她心愿相随,与同样心愿的般度之子同行。另一些人则怒不可遏地喊道:“抓住他,打他,不要迟疑!”

1.243.35

इति संवार्य शस्त्राणि ववर्षुरभितो दिशम् ।
इति संभाषमाणानां स नादः सुमहानभूत् ॥ १.२४३.३५ ॥

于是,他们以兵器遮蔽,从四面八方倾泻箭雨;那些如此高声议论者发出的喧声变得极为巨大。

1.243.36

स तेन जनघोषेण वीरो गज इवार्दितः ।
ववर्ष शरवर्षाणि न तु कंचन रोषयत् ॥ १.२४३.३६ ॥

那位英雄被众人的喧嚣所困扰,犹如受伤的象,倾泻箭雨,却未曾激怒任何一人。

1.243.37

मुमोच निशितान्बाणान्दीप्यमानान्स्वतेजसा ।
प्रासादवरसङ्घेषु हर्म्येषु भवनेषु च ॥ १.२४३.३७ ॥

他以自身的光芒放出锐利的箭矢,射向最好的宫殿群、高楼与住宅。

1.243.38

क्षोभयित्वा पुरश्रेष्ठं गरुत्मानिव सागरम् ।
प्रेक्षन्रैवकतद्वारं निर्ययौ भरतर्षभः ॥ १.२४३.३८ ॥

他如金翅鸟搅动大海般搅动了最好的城市,望着莱瓦塔卡门,婆罗多族的雄牛走了出去。