Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.245

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.245.1

उक्तवन्तो यथावीर्यमसकृत्सर्ववृष्णयः ।
ततोऽब्रवीद्वासुदेवो वाक्यं धर्मार्थसंयुतम् ॥ १.२४५.१ ॥

诸位毗瑟尼人各依其力,反复发言。于是婆苏提婆说出了与法与利相结合的话。

1.245.2

मयोक्तं न श्रुतं पूर्वं सहितैः सर्वयादवैः ।
अतिक्रान्तमतिक्रान्तं न निवर्तेत कर्हिचित्।
शृणुध्वं सहिताः सर्वे मम वाक्यं सहेतुकम् ॥ १.२४५.२ ॥

我所说的,诸位雅达瓦人此前从未一同听过。已逝之事永不复返。所以你们大家一起听我这有理由的话。

1.245.3

नावमानं कुलस्यास्य गुडाकेशः प्रयुक्तवान् ।
संमानोऽभ्यधिकस्तेन प्रयुक्तोऽयं न संशयः ॥ १.२४५.३ ॥

谷陀迦舍(阿周那)并未辱没此族,他反而给予了更大的尊敬,此事无疑。

1.245.4

अर्थलुब्धान्न वः पार्थो मन्यते सात्वतान्सदा ।
स्वयंवरमनाधृष्यं मन्यते चापि पाण्डवः ॥ १.२४५.४ ॥

普利塔(阿周那)并不总是认为你们萨特瓦塔人贪图财富。般度之子也认为选婿大典不可侵犯。

1.245.5

प्रदानमपि कन्यायाः पशुवत्को नु मन्यते ।
विक्रयं चाप्यपत्यस्य कः कुर्यात्पुरुषो भुवि ॥ १.२४५.५ ॥

谁会把嫁出少女看作如同牲畜?又有哪个人会在世上出卖自己的子嗣?

1.245.6

एतान्दोषांस्तु कौन्तेयो दृष्टवानिति मे मतिः ।
क्षत्रियाणां तु वीर्येण प्रशस्तं हरणं बलात्।
अतः प्रसह्य हृतवान्कन्यां धर्मेण पाण्डवः ॥ १.२४५.६ ॥

我认为般度之子看到了这些弊端。但对于刹帝利而言,凭勇力强行劫夺是被赞许的。因此般度之子强行带走了少女,这符合法。

1.245.7

उचितश्चैव संबन्धः सुभद्रा च शयस्विनी ।
एष चापीदृशः पार्थः प्रसह्य हृतवानतः ॥ १.२४५.७ ॥

与美臂的苏跋陀罗结合确实合适;而这样的般度之子帕尔沙,因此强行将她掳走。

1.245.8

भरतस्यान्वये जातं शान्तनोश्च यशस्विनः ।
कुन्तिभोजात्माजापुत्रं का बुभूषेत नार्जुनम् ॥ १.२४५.८ ॥

谁不愿成为阿周那呢?他生于婆罗多的世系,出自光荣的商多努之家,是贡提跋闍之女的儿子。

1.245.9

न तं पश्यामि यः पार्थं विजयेत रणे बलात् ।
वर्जयित्वा विरूपाक्षं भगनेत्रहरं हरम् ॥ १.२४५.९ ॥

我看不出谁能在战斗中以力量战胜帕尔沙,除了毁去婆伽双目的三眼神哈罗(Hara)以外。

1.245.10

अपि सर्वेषु लोकेषु सेन्द्ररुद्रेषु मारिष ।
स च नाम रथस्तादृङ्मदीयास्ते च वाजिनः ॥ १.२४५.१० ॥

尊者啊,在所有世界中,即便在因陀罗与楼陀罗之中,确有这样的战车;我的那些马也是如此。

1.245.11

मम शस्त्रं विशेषेण तूणौ चाक्षयसायकौ ।
योद्धा पार्थश्च शीघ्रास्त्रः को नु तेन समो भवेत्।
तमभिद्रुत्य सान्त्वेन परमेण धनञ्जयम् ॥ १.२४५.११ ॥

我的武器尤其精良,我的箭袋中装满了取之不尽的箭。帕尔沙是武士,善用迅捷的兵器;谁能与他相比?因此,我当以最大的和解之意走近达难闍耶——

1.245.12

निवर्तयत संहृष्टा ममैषा परमा मतिः ।
यदि निर्जित्य वः पार्थो बलाद्गच्छेत्स्वकं पुरं ॥ १.२४५.१२ ॥

请欢欣地让他回去;这是我的最高主张。若帕尔沙以武力战胜你们,径直回到自己的城中——

1.245.13

प्रणश्येद्वो यशः सद्यो न तु सान्त्वे पराजयः ।
पितृष्वसायाः पुत्रो मे संबन्धं नार्हति द्विषाम्।
तच्छ्रुत्वा वासुदेवस्य तथा कर्तुं जनाधिप ॥ १.२४५.१३ ॥

即使你们在和解中失败,你们的名声也不会立刻毁灭。我姑母之子不配与敌人结亲。人主啊,听了婆修提婆的话,就照他说的去做吧。

1.245.14

उद्योगं कृतवन्तस्ते भेरीं सन्नाद्य यादवाः ।
अर्जुनस्तु तदा श्रुत्वा भेरीसन्नादनं महत् ॥ १.२४५.१४ ॥

耶达瓦人做好准备,敲响了战鼓。那时,阿周那听到了战鼓的巨响。

1.245.15

कौन्तेयस्त्वरमाणस्तु सुभद्रामभ्यभाषत ।
आयान्ति वृष्णयः सर्वे ससुहृज्जनबान्धवाः ॥ १.२४५.१५ ॥

贡蒂之子急忙对苏跋陀罗说:“所有的婆里尼人都带着朋友、民众和亲属前来了。”

1.245.16

त्वदर्थं योद्धुकामास्ते मदरक्तान्तलोचनाः ।
प्रमत्तानशुचीन्मूढान्सुरामत्तान्नराधमान् ॥ १.२४५.१६ ॥

为了你,他们想要作战而来,因醉酒眼角发红。他们疏忽、不洁、愚昧,被酒灌醉,是人中最卑劣之辈。

1.245.17

वमनं पानशीलांस्तान्करिष्यामि शरोत्तमैः ।
उताहो वा मदोन्मत्तान्नयिष्यामि यमक्षयम् ॥ १.२४५.१७ ॥

我要用最好的箭让那些嗜酒者呕吐;或者把那些醉得发狂的人送往阎摩之所。

1.245.18

एवमुक्त्वा प्रियां पार्थो न्यवर्तत महाबलः ।
निवर्तमानं दृष्ट्वैव सुभद्रा त्रस्ततां गता ॥ १.२४५.१८ ॥

说完这些,大力的贝塔离开了他心爱的人。苏跋陀罗看见他转身离去,便感到恐惧。

1.245.19

एवं मा वद पार्थेति पादयोः पतिता तदा ।
सुभद्रा तु कलिर्जाता वृष्णीनां निधाय च ॥ १.२४५.१९ ॥

“请这样对我说,帕尔塔。”说罢,苏跋陀罗当时跪倒在阿周那脚下。然而在毗瑟尼族之中生出了争端,她将它藏在心中。

1.245.20

एवं ब्रुवन्तः पौरास्ते ह्यपवादरताः प्रभो ।
मम शोकं वर्धयन्ति तस्मान्नाशं न चिन्तये।
परिवादभयान्मुक्ता त्वत्प्रसादाद्भवाम्यहम् ॥ १.२४५.२० ॥

“这些市民如此议论,以诽谤为乐,主啊,他们增加了我的悲伤;因此我不去想毁灭。摆脱了责难之惧,蒙您恩典,我将得以安然。”

1.245.21

एवमुक्तस्ततः पार्थः प्रियया भद्रया तदा ।
गमनाय मतिं चक्रे पार्थः सत्यपराक्रमः ॥ १.२४५.२१ ॥

被他所爱的跋陀罗如此说后,真正勇武的帕尔塔当时决定动身。

1.245.22

स्तितपूर्वं तदाऽऽभाष्य परिष्वज्य प्रियां तदा ।
उत्थाप्य च पुनः पार्थो याहि याहीति चाब्रवीत् ॥ १.२४५.२२ ॥

然后,他先开口,拥抱了他所爱的人,又扶她起来,帕尔塔说:“去吧,去吧。”

1.245.23

ततः सुभद्रा त्वरिता रश्मीन्संगृह्य पाणिना ।
चोदयामास जवनाञ्शीग्रमश्वान्कृतत्वरा ॥ १.२४५.२३ ॥

于是苏跋陀罗急忙用手握住缰绳,立即驱策迅捷的马匹,急急忙忙。

1.245.24

ततस्तु कृतसन्नाहा वृष्णिवीराः समाहिताः ।
प्रत्यानयार्थं पार्थस्य जवनैस्तुरगोत्तमैः ॥ १.२४५.२४ ॥

于是披甲、意志坚定的毗瑟尼勇士们,乘上最好的迅捷良马出发,要把阿周那带回来。

1.245.25

राजमार्गमनुप्राप्ता दृष्ट्वा पार्थस्य विक्रमम् ।
प्रासादपङ्क्तिस्तम्भेषु वेदिकासु ध्वजेषु च ॥ १.२४५.२५ ॥

到达王道,见到普利塔之子的勇武,他们望向宫殿行列的柱子、台阶和旗帜。

1.245.26

अर्जुनस्य शरान्दृष्ट्वा विस्मयं परमं गताः ।
केशवस्य वचस्तथ्यं मन्यमानास्तु यादवाः ॥ १.२४५.२६ ॥

见到阿周那的箭,他们充满了极大的惊异;耶达瓦们认为克沙瓦的话是真实的。

1.245.27

अतीत्य तं रैवतकं श्रुत्वा तु विपृथोर्वचः ।
अर्जुनेन कृतं श्रुत्वा गन्तुकामास्तु वृष्णयः ॥ १.२४५.२७ ॥

越过那座莱瓦塔卡山,听到毗普里图的话和阿周那所做之事,维律尼的英雄们想要前往。

1.245.28

श्रुत्वा दीर्घं गतं पार्थं न्यवर्तन्त महारथाः ।
पुरोद्यानमतिक्रम्य विशालं च गिरिव्रजम् ॥ १.२४५.२८ ॥

听说普利塔之子已走远,大车战士们便返回,越过城前的园林和群山环绕的广阔吉里弗拉贾。

1.245.29

सानुमुज्जयिनीं चैव वनान्युपवनानि च ।
पुण्येष्वानर्तराष्ट्रेषु वापीपद्मसरांसि च ॥ १.२४५.२९ ॥

萨努山峰与乌贾因尼,森林与园林,以及圣地阿那尔塔国的阶梯井与莲花湖。

1.245.30

प्राप्य धेनुमतीतीर्थमश्वरोधसरः प्रति ।
प्रेक्षावर्तं ततः शैलमम्बुदं च नगोत्तमम् ॥ १.२४५.३० ॥

到达达努玛蒂渡口与阿什瓦罗达萨拉湖,然后到达普雷克沙瓦尔塔山与群山之冠阿姆布达。

1.245.31

आराच्छृङ्गमथासाद्य तीर्णः करवतीं नदीम् ।
प्राप्य साल्वेयराष्ट्राणि निषधानप्यतीत्य च ॥ १.२४५.३१ ॥

从远处到达山峰,渡过卡拉瓦蒂河,抵达萨尔瓦王国,又越过尼沙陀人的领地,

1.245.32

देवापृथुपुरं पश्यन् सर्वतः सुसमाहितः ।
तमतीत्य महाबाहुर्देवारण्यमपश्यत ॥ १.२४५.३२ ॥

全神贯注地环视提婆普利图城四周,越过它之后,大臂者看见了天神之林。

1.245.33

पूजयामासुरायान्तं देवारण्ये महर्षयः ।
स वनानि नदीः शैलान् गिरिप्रस्रवणानि च ॥ १.२४५.३३ ॥

当他来到天神之林时,大仙人们向他致敬。他看见了森林、河流、山岳和山间泉水。

1.245.34

अतीत्य च तदा पार्थः सुभद्रासारथिस्तदा ।
कौरवं विषयं प्राप्य विशोकः समपद्यत ॥ १.२४५.३४ ॥

然后,作为苏跋陀罗的御者的普利塔之子帕尔塔越过之后,到达俱卢之地,离开了忧愁。

1.245.35

सोदर्याणां महाबाहुः सिंहाशयमिवाशयम् ।
दूरादुपवनोपेतं समन्तात्सलिलावृतम् ॥ १.२४५.३५ ॥

这位大臂的兄弟从远处看见那座城市,像狮子的洞穴,有园林环绕,四面被水包围。

1.245.36

भद्रया मुदितो जिष्णुर्ददर्श वृजिनं पुरम् ॥ १.२४५.३६ ॥

与跋陀罗同乐的胜利者(阿周那)看见了伏利纳城。