摩诃婆罗多 · 章 1.248
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.248.1
इन्द्रप्रस्थे वसन्तस्ते जघ्रुरन्यान्नराधिपान् ।
शासनाद्धृतराष्ट्रस्य राज्ञः शान्तनवस्य च ॥ १.२४८.१ ॥
他们居住在因陀罗补罗时,依国王持国和山本努之子的命令,征服了其他诸王。
1.248.2
आश्रित्य धर्मराजानं सर्वलोकोऽवसत्सुखम् ।
पुण्यलक्षणकर्माणं स्वदेहमिव देहिनः ॥ १.२४८.२ ॥
依靠法王,全体民众安乐地生活,犹如有身之人依托自身的身体;他的行为具有福德的标志。
1.248.3
स समं धर्मकामार्थान्सिषेवे भरतर्षभ ।
त्रीनिवात्मसमान्बन्धून्नीतिमानिव मानयन् ॥ १.२४८.३ ॥
婆罗多族的雄牛啊,他平等地奉行法、欲与利,像通晓正道的人那样尊敬与自己相等的三位亲属。
1.248.4
तेषां समविभक्तानां क्षितौ देहवतामिव ।
बभौ धर्मार्थकामानां चतुर्थ इव पार्थिवः ॥ १.२४८.४ ॥
在大地上以有形之身均分的法、利、欲之间,那位君主犹如第四者般光耀。
1.248.5
अध्येतारं परं वेदान्प्रयोक्तारं महाध्वरे ।
रक्षितारं शुभाँल्लोकाँल्लोभिरे तं जनाधिपम् ॥ १.२४८.५ ॥
众人都渴望那位人主——最善于诵习吠陀、在大祭中施行吠陀、守护吉祥世界的君王。
1.248.6
अधिष्ठानवती लक्ष्मीः परायणवती मतिः ।
वर्धमानोऽखिलो धर्मस्तेनासीत्पृथिवीक्षिताम् ॥ १.२४८.६ ॥
因他之故,在大地的君主之中,吉祥有了稳固的根基,智慧有了至上的依靠,整个法得以增长。
1.248.7
भ्रातृभिः सहितौ राजा चतुर्भिरधिकं बभौ ।
प्रयुज्यमानैर्विततो वेदैरिव महाध्वरः ॥ १.२४८.७ ॥
国王与兄弟们在一起,比四人更加光彩夺目,犹如由吠陀颂唱而展开的大祭祀。
1.248.8
तं तु धौम्यादयो विप्राः परिवार्योपतस्थिरे ।
बृहस्पतिसमा मुख्याः प्रजापतिमिवामराः ॥ १.२४८.८ ॥
以陀摩为首的婆罗门,地位尊贵、与神师勃里诃斯帕蒂相当,环绕着他侍奉他,犹如诸天侍奉生主。
1.248.9
धर्मराजे ह्यतिप्रीत्या पूर्णचन्द्र इवामले ।
प्रजानां रेमिरे तुल्यं नेत्राणि हृदयानि च ॥ १.२४८.९ ॥
人民极其爱戴法王,如同无瑕天空中的满月,百姓的眼睛与心灵同样欢喜。
1.248.10
न तु केवलदैवेन प्रजा भावेन रेमिरे ।
यद्बभूव मनःकान्तं कर्मणा स चकार तत् ॥ १.२४८.१० ॥
百姓之乐并非仅因天命,而是因他的品性;他以行动成就了心中所喜之事。
1.248.11
न ह्ययुक्तं न चासत्यं नासह्यं न च वाऽप्रियम् ।
भाषितं चारुभाषस्य जज्ञे पार्थस्य धीमतः ॥ १.२४८.११ ॥
睿智的普利塔之子言语和悦,从其口中既无不当之语,也无虚妄、难忍或令人不悦之言。
1.248.12
स हि सर्वस्य लोकस्य हितमात्मन एव च ।
चिकीर्षन्सुमहातेजा रेमे भरतसत्तम ॥ १.२४८.१२ ॥
这位大光辉者愿为世界及自身谋福,因此欢喜,婆罗多族中最优秀者啊。
1.248.13
तथा तु मुदिताः सर्वे पाण्डवा विगतज्वराः ।
अवसन्पृथिवीपालाँस्तापयन्तः स्वतेजसा ॥ १.२४८.१३ ॥
如此,诸般若的般度之子们欢喜无忧,居住于彼处,以自身光辉使大地的守护者们震慑。
1.248.14
ततः कतिपयाहस्य बीभत्सुः कृष्णमब्रवीत् ।
उष्णानि कृष्ण वर्तन्ते गच्छावो यमुनां प्रति ॥ १.२४८.१४ ॥
过了几天,毗跋particular(阿周那)对黑天说:“黑天啊,天气炎热;我们去往亚穆纳河吧。”
1.248.15
सुहृज्जनवृतौ तत्र विहृत्य मधुसूदन ।
सायाह्ने पुनरेष्यावो रोचतां ते जनार्दन ॥ १.२४८.१५ ॥
“摩图苏陀那啊,我们在那里与亲友相伴游玩之后,傍晚再回来,若您愿意,耶那尔达那啊。”
1.248.16
कुन्तीमातर्ममाप्येतद्रोचते यद्वयं जले ।
सुहृज्जनवृताः पार्थ विहरेम यथासुखम् ॥ १.२४८.१६ ॥
婆苏提婆说:“贡蒂之子啊,这也合我意:让我们与亲友相伴,在水中自在游戏吧,普利塔之子啊。”
1.248.17
आमन्त्र्य तौ धर्मराजमनुज्ञाप्य च भारत ।
जग्मतुः पार्थगोविन्दौ सुहृज्जनवृतौ ततः ॥ १.२४८.१७ ॥
婆罗多之子啊,二人向法王告辞并获得允许后,在亲友环绕中,普利塔之子与戈温达便离去了。
1.248.18
विहरन्खाण्डवप्रस्थे काननेषु च माधवः ।
पुष्पितोपवनां दिव्यां ददर्श यमुनां नदीम् ॥ १.२४८.१८ ॥
摩陀婆在腾跋普罗斯塔与林间游历时,见到了那花木繁茂的神圣亚穆纳河。
1.248.19
तस्यास्तीरे वनं दिव्यं सर्वर्तुसुमनोहरम् ।
आलयं सर्वभूतानां खाण्डवं खड्गचर्मभृत् ॥ १.२४८.१९ ॥
河岸上有一片神圣的森林,四季花开,美不胜收,是一切众生的居所——坎达瓦,仿佛手持剑与盾。
1.248.20
ददर्श कृत्स्नं तं देशं सहितः सव्यसाचिना ।
ऋक्षगोमायुशार्दूलवृककृष्णमृगान्वितम् ॥ १.२४८.२० ॥
他与萨维亚萨钦(阿周那)一同察看了整个地区,那里充满了熊、豺、虎、狼和黑羚羊。
1.248.21
शाखामृगगणैर्जुष्टं गजद्वीपिनिषेवितम् ।
शकबर्हिणदात्यूहहंससारसनादितम् ॥ १.२४८.२१ ॥
那里有成群的猴子,象与豹常来栖息,鹦鹉、孔雀、达蒂尤哈鸟、天鹅和鹤的鸣声回荡其间。
1.248.22
नानामृगसहस्रैश्च पक्षिभिश्च समावृतम् ।
मानार्हं तच्च सर्वेषां देवदानवरक्षसाम् ॥ १.२४८.२२ ॥
它被成千上万种各样的野兽与飞禽环绕,对于诸神、檀那婆与罗刹而言,都是值得敬重的所在。
1.248.23
आलयं पन्नगेन्द्रस्य तक्षकस्य महात्मनः ।
वेणुशाल्मलिबिल्वातिमुक्तजंब्वाम्रचम्पकैः ॥ १.२४८.२३ ॥
这里是伟大的蛇王德叉迦的居所,遍布竹、木棉、木橘、阿提穆克塔、阎浮树、芒果与金色含笑树。
1.248.24
अङ्कोलपनसाश्वत्थतालजम्बीरवञ्जुलैः ।
एकपद्मकतालैश्च शतशश्चैव रौहिणैः ॥ १.२४८.२४ ॥
其中遍布安戈罗树、波罗蜜、菩提树、棕榈、柠檬与旺祖拉树,还有一种单莲树与棕榈,以及成百上千棵罗希纳树。
1.248.25
नानावृक्षैः समायुक्तं नानागुल्मसमावृतम् ।
वेत्रकीचकसंयुक्तमाशीविषनिषेवितम् ॥ १.२४८.२५ ॥
林木繁多,灌丛环绕,藤与竹丛生,毒蛇所居。
1.248.26
विगतार्कं महाभोगविततद्रुमसङ्कटम् ।
व्यालदंष्ट्रिगणाकीर्णं वर्जितं सर्वमानुषैः ॥ १.२४८.२६ ॥
不见日光,巨树枝叶纠结,满是獠牙猛兽,为众人所避。
1.248.27
रक्षसां भुजगेन्द्राणां पक्षिणां च महालयम् ।
खाण्डवं सुमहाप्राज्ञः सर्वलोकविभागवित् ॥ १.२४८.२७ ॥
坎达瓦林乃罗刹、蛇王与飞鸟的大居所;通晓诸界区分的大智者见之。
1.248.28
दृष्टवान्सर्वलोकेश अर्जुनेन समन्वितः ।
पीताम्बरधरो देवस्तद्वनं बहुधा चरन् ॥ १.२४८.२८ ॥
世界之主、身着黄衣的天神与阿周那同行,多方巡行于那片林中,看见了它。
1.248.29
सद्रुमस्य सयक्षस्य सभूतगणपक्षिणः ।
खाण्डवस्य विनाशं तं ददर्श मधुसूदनः ॥ १.२४८.२९ ॥
摩图苏陀那见到坎达瓦林连同树木、夜叉、鬼众与飞鸟的毁灭。
1.248.30
विहारदेशं संप्राप्य नानाद्रुममनुत्तमम् ।
गृहैरुच्चावचैर्युक्तं पुरन्दरपुरोपमम् ॥ १.२४८.३० ॥
抵达一处游憩之地,林木繁多而殊胜,屋舍高低错落,宛如因陀罗之城。
1.248.31
भक्ष्यैर्भोज्यैश्च पेयैश्च रसवद्बिर्महाधनैः ।
माल्यैश्च विविधैर्गन्धैस्तथा वार्ष्मेयपाण्डवौ ॥ १.२४८.३१ ॥
以可食之物、可享之餐与饮品,以美味珍贵之物,以种种花环与各色香料——伐里希尼耶与般度之子。
1.248.32
तदा विविशतुः पूर्णं रत्नैरुच्चावचैः शुभैः ।
यथोपजोषं सर्वश्च जनश्चिक्रीड भारत ॥ १.२४८.३२ ॥
于是二人进入装满各种吉祥珍宝的(殿堂);婆罗多之后啊,众人皆依其所喜而尽情嬉戏。
1.248.33
स्त्रियश्च विपुलश्रोष्ण्यश्चारुपीनपयोधराः ।
मदस्खलितगामिन्यश्चिक्रीडुर्वामलोचनाः ॥ १.२४८.३३ ॥
那些宽臀、美丽丰满的乳房、醉步蹒跚、眼神明媚的女子也尽情嬉戏。
1.248.34
वने काश्चिज्जले काश्चित्काश्चिद्वेश्मसु चाङ्गनाः ।
यथादेशं यथाप्रीति चिक्रीडुः पार्थकृष्णयोः ॥ १.२४८.३४ ॥
有人在林中,有人在水中,有人在宅邸中,随处随兴,与阿周那和黑天嬉戏。
1.248.35
वासुदेवप्रिया नित्यं सत्यभामा च भामिनी ।
द्रौपदी च सुभद्रा च वासांस्याभरणानि च।
प्रायच्छन्त महाराज स्त्रीणां ताः स्म मदोत्कटाः ॥ १.२४८.३५ ॥
毗湿奴之爱妻萨蒂亚帕玛、婀娜的德罗波蒂与苏跋陀罗常在其中;大王啊,她们醉意高涨,将衣裳与饰品赠予众女。
1.248.36
काश्चित्प्रहृष्टा ननृतुश्चुक्रुशुश्च तथा पराः ।
जहसुश्च परा नार्यः पपुश्चान्या वरासवम् ॥ १.२४८.३६ ॥
有人欢喜地起舞,有人高声叫嚷;另有女子欢笑,又有人饮起那上好的美酒。
1.248.37
रुरुधुश्चापरास्तत्र प्रजघ्नुश्च परस्परम् ।
मन्त्रयामासुरन्याश्च रहस्यानि परस्परम् ॥ १.२४८.३७ ॥
有人在那里相互阻拦,有人相互殴打。另一些人彼此商议秘密之事。
1.248.38
वेणुवीणामृदङ्गानां मनोज्ञानां च सर्वशः ।
शब्देन पूर्यते हर्म्यं तद्वनं सुमहर्द्धिमत् ॥ १.२४८.३८ ॥
笛、琵琶与鼓的悦耳之声充满了整座楼阁;那片树林极其华美。
1.248.39
तस्मिंस्तदा वर्तमानो कुरुदाशार्हनन्दनौ ।
समीपं जग्मतुः कंचिदुद्देशं सुमनोहरम् ॥ १.२४८.३९ ॥
当时在场的库鲁与达沙尔哈两族的两位王子,走近了一处极其迷人的地方。
1.248.40
तत्र गत्वा महात्मानौ कृष्णौ परपुरञ्जयौ ।
महार्हासनयो राजंस्ततस्तौ सन्निषीदतुः ॥ १.२४८.४० ॥
大王啊,两位心胸高尚、征服敌城的克里希那到达那里,坐在贵重的座位上。
1.248.41
तत्र पूर्वव्यतीतानि विक्रान्तानीतराणि च ।
बहूनि कथयित्वा तौ रेमाते पार्थमाधवौ ॥ १.२४८.४१ ॥
在那里,二人讲述了许多往昔及其他的英勇事迹,阿周那与摩陀婆都感到欢愉。
1.248.42
तत्रोपविष्टौ मुदितौ नाकपृष्ठेऽश्विनाविव ।
अभ्यागच्छत्तदा विप्रो वासुदेवधनञ्जयौ ॥ १.२४८.४२ ॥
两人在那里欢欣而坐,如同天空之背上的双阿濕媞,此时一位婆罗门走近了婆苏提婆与达南闍耶。
1.248.43
बृहच्छालप्रतीकाशः प्रतप्तकनकप्रभः ।
हरिपिङ्गोज्ज्वलश्मश्रुः प्रमाणायामतः समः ॥ १.२४८.४३ ॥
他如同高大的娑罗树,闪耀着熔炼黄金的光辉;他的胡须明亮,呈狮子般的赭黄色,身材高矮与宽窄相称。
1.248.44
तरुणादित्यसङ्काशश्चीरवासा जटाधरः ।
पद्मपत्राननः पिङ्गस्तेजसा प्रज्वलन्निव ॥ १.२४८.४४ ॥
他如同初升的太阳,身穿树皮衣,头戴缠结的发髻;面容如荷叶,呈黄色;他仿佛因自身的光辉而燃烧起来。
1.248.45
जगाम तौ कृष्णपार्थौ दिधक्षुः खाण्डवं वनम् ।
उपसृष्टं तु तं कृष्णो भ्राजमानं द्विजोत्तमम्।
अर्जनो वासुदेवश्च तूर्णमुत्पत्य तस्थतुः ॥ १.२४८.४५ ॥
克里希那与帕尔塔欲焚烧康达瓦森林而前往。于是克里希那与阿周那迅速起身,走近那位光辉的婆罗门中的最优者,站立在他身旁。