摩诃婆罗多 · 章 1.250
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.250.1
स तु नैराश्यमापन्नः सदा ग्लानिसमन्वितः ।
पितामहमुपागच्छत्संक्रुद्धो हव्यवाहनः ॥ १.२५०.१ ॥
他陷入绝望,常怀沮丧。愤怒的献祭之火(阿耆尼)走近祖父(梵天)。
1.250.2
तच्च सर्वं यथान्यायं ब्रह्मणे संन्यवेदयत् ।
उवाच चैवनं भगवान्मुहूर्तं स विचिन्त्य तु ॥ १.२५०.२ ॥
他依礼将一切完整禀告梵天。世尊沉思片刻,便这样对他说。
1.250.3
उपायः परिदृष्टो मे यथा त्वं धक्ष्यसेऽनघ ।
कालं च कंचित्क्षमतां ततस्तद्धक्ष्यते भवान् ॥ १.२५०.३ ॥
无罪者啊,我已找到让你焚烧它的办法。请稍待片刻;那时你便能焚烧它。
1.250.4
भविष्यतः सहायौ ते नरनारायणौ तदा ।
ताभ्यां त्वं सहितो दावं धक्ष्यसे हव्यवाहन ॥ १.२५०.४ ॥
届时,那罗与那罗延将成为你的两位助手;与他们同在,你将焚烧森林之火,献祭之火啊。
1.250.5
एवमस्त्विति तं वह्निर्ब्रह्माणं प्रत्यभाषत ।
संभूतौ तौ विदित्वा तु नरनारायणावृषी ॥ १.२५०.५ ॥
阿耆尼回答梵天说:“就这样吧。”他得知那罗与那罗延两位仙人已经降生。
1.250.6
कालस्य महतो राजंस्तस्य वाक्यं स्वयंभुवः ।
अनुस्मृत्य जगामाथ पुनरेव पितामहम् ॥ १.२५०.६ ॥
国王啊,过了很长时间,他想起自生者(梵天)的话,便再次前往祖父那里。
1.250.7
अब्रवीच्च तदा ब्रह्मा यथा त्वं धक्ष्यसेऽनल ।
खाण्डवं दावमद्यैव मिषतोऽस्य शचीपतेः ॥ १.२५०.७ ॥
于是梵天说道:火神啊,今日你便将焚烧坎达婆森林,而舍姬之主因陀罗正在旁观。
1.250.8
नरनारायणौ यौ तौ पूर्वदेवौ विभावसो ।
संप्राप्तौ मानुषे लोके कार्यार्थं हि दिवौकसाम् ॥ १.२५०.८ ॥
毗婆娑啊,那两位古老的天神,那罗与那罗衍那,为了天神的使命已来到人间。
1.250.9
अर्जुनं वासुदेवं च यौ तौ लोकोऽभिमन्यते ।
तावेतौ सहितावेहि खाण्डवस्य समीपतः ॥ १.२५०.९ ॥
请将世人所尊崇的阿周那与婆苏提婆二人一同带到坎达婆森林附近。
1.250.10
तौ त्वं याचस्व साहाय्ये दाहार्थं खाण्डवस्य च ।
ततो धक्ष्यसि तं दावं रक्षितं त्रिदशैरपि ॥ १.२५०.१० ॥
你应向那二人请求相助,以焚烧坎达婆森林;如此,你便能焚烧这连诸天神也守护着的森林。
1.250.11
तौ तु सत्वानि सर्वाणि यत्नतो वारयिष्यतः ।
देवराजं च सहितौ तत्र मे नास्ति संशयः ॥ १.२५०.११ ॥
那二人将竭力阻止一切众生,那里还有天神之王因陀罗相助。对此我毫无疑问。
1.250.12
एतच्छ्रुत्वा तु वचनं त्वरितो हव्यवाहनः ।
कृष्णपार्थावुपागम्य यमर्थं त्वभ्यभाषत ॥ १.२५०.१२ ॥
火神(献祭之载者)闻此言后,急忙走到克里希纳与普利塔之子身边,将自己的来意告诉了他们。
1.250.13
तं ते कथितवानस्मि पूर्वमेव नृपोत्तम ।
तच्छ्रुत्वा वचनं त्वग्नेर्बीभत्सुर्जातवेदसम् ॥ १.२५०.१३ ॥
毗舍衍那说:諸王之最,我先前已告訴你了。聞得火神之言,毗婆蘇(阿周那)便對遍知者(火神)說道。
1.250.14
अब्रवीन्नृपशार्दूल तत्कालसदृशं वचः ।
दिधक्षुं खाण्डवं दावमकामस्य शतक्रतोः ॥ १.२५०.१४ ॥
毗舍衍那说:諸王中的猛虎,他說出了符合當時情況的話,關於想焚燒康達婆森林而不為因陀羅(百祭者)所喜的事。
1.250.15
उत्तमास्त्राणि मे सन्ति दिव्यानि च बहूनि च ।
यैरहं शक्नुयां योद्धुमपि वज्रधरान्बहून् ॥ १.२५०.१५ ॥
阿周那說:我擁有最上乘及眾多天界神兵,憑藉它們,即使對抗許多執金剛者,我也能夠作戰。
1.250.16
धनुर्मे नास्ति भगवन्बाहुवीर्येण संमितम् ।
कुर्वतः समरे यत्नं वेगं यद्विषहेन्मम ॥ १.२५०.१६ ॥
阿周那說:尊貴者啊,我沒有一張與我臂力相稱的弓,能夠承受我在戰鬥中全力施展的力量。
1.250.17
शरैश्च मेऽर्थो बहुभिरक्षयैः क्षिप्रमस्यतः ।
न हि वोढुं रथः शक्तः शरान्मम यथेप्सितान् ॥ १.२५०.१७ ॥
阿周那說:我發射迅速,需要許多取之不盡的箭;而我的戰車無法承載我所欲用的箭。
1.250.18
अश्वांश्च दिव्यानिच्छेयं पाण्डुरान्वातरंहसः ।
रथं च मेघनिर्घोषं सूर्यप्रतिमतेजसम् ॥ १.२५०.१८ ॥
阿周那說:我願得神聖的白色駿馬,迅疾如風;又願得一輛如雲雷轟鳴、光耀如太陽的戰車。
1.250.19
तथा कृष्णस्य वीर्येण नायुधं विद्यते समम् ।
येन नागान्पिशाचांश्च निहन्यान्माधवो रणे ॥ १.२५०.१९ ॥
没有任何武器能与黑天的威力相比,凭此摩陀婆可在战场上杀死蛇神与鬼怪。
1.250.20
उपायं कर्मसिद्धौ च भघवन्वक्तुमर्हसि ।
निवारयेयं येनेन्द्रं वर्षमाणं महावने ॥ १.२५०.२० ॥
尊者啊,请您告诉我成就此事的方法,借此我可以阻挡在大森林中降雨的因陀罗。
1.250.21
पौरुषेण तु यत्कार्यं तत्कर्ताऽहं स्म पावक ।
करणानि समर्थानि भगवन्दातुमर्हसि ॥ १.२५०.२१ ॥
净化者啊,凭人力应当完成的事,我自己便是那行事之人;尊者啊,请您赐予我得力的工具。