Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.252

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.252.1

तौ रथाभ्यां रथश्रेष्ठौ दावस्योभयतः स्थितौ ।
दिक्षु सर्वासु भूतानां चक्राते कदनं महत् ॥ १.२५२.१ ॥

这两位最优秀的车士站在各自的战车上,位于森林大火的两侧,在四面八方对众生造成了巨大的杀戮。

1.252.2

यत्र यत्र च दृश्यन्ते प्राणिनः खाण्डवालयाः ।
पलायन्तः प्रवीरौ तौ तत्रतत्राभ्यधावताम् ॥ १.२५२.२ ॥

凡是看到住在揭陀婆林中的生灵逃窜之处,那两位英雄便立即追上去。

1.252.3

छिद्रं न स्म प्रपश्यन्ति रथयोराशुचारिणोः ।
आविद्धावेव दृश्येते रथिनौ तौ रथोत्तमौ ॥ १.२५२.३ ॥

在那两辆疾速奔驰的战车之间,人们看不到任何空隙;那两位最优秀的车士只显得在冲击、在投掷。

1.252.4

खाण्डवे दह्यमाने तु भूतान्यथ सहस्रशः ।
उत्पेतुर्भैरवान्नादान्विनदन्तः समन्ततः ॥ १.२५२.४ ॥

当揭陀婆林燃烧之时,成千上万的生灵从四面八方腾起,发出可怖的叫喊。

1.252.5

दग्धैकदेशा बहवो निष्टप्ताश्च तथाऽपरे ।
स्फुटिताक्षा विशीर्णाश्च विप्लुताश्च तथाऽपरे ॥ १.२५२.५ ॥

许多生灵一侧被烧焦,另有许多被烤得通体焦黑;有的眼睛爆裂,有的支离破碎,还有的则惊慌地四处奔逃。

1.252.6

समालिङ्ग्य सुतानन्ये पितॄन्भ्रातॄनथाऽपरे ।
त्यक्तुं न शेकुः स्नेहेन तत्रैव निधनं गताः ॥ १.२५२.६ ॥

有人拥抱着儿子,有人拥抱着父亲和兄弟;出于深情,他们无法放开,便死在那里。

1.252.7

सन्दष्टदशनाश्चान्ये समुत्पेतुरनेकशः ।
ततस्तेऽतीव घूर्णन्तः पुनरग्नौ प्रपेदिरे ॥ १.२५२.७ ॥

其他人咬紧牙关,多次飞起;随后他们剧烈旋转,又跌回火中。

1.252.8

दग्धपक्षाक्षिचरणा विचेष्टन्तो महीतले ।
तत्रतत्र स्म दृश्यन्ते विनश्यन्तः शरीरिणः ॥ १.२५२.८ ॥

翅膀、眼睛和脚被烧焦,在地上翻滚,四处可见有形体的生灵正在死去。

1.252.9

जलाशयेषु तप्तेषु क्वाथ्यमानेषु वह्निना ।
गतसत्वाः स्म दृश्यन्ते कूर्ममत्स्याः समन्ततः ॥ १.२५२.९ ॥

在被火烧得滚烫沸腾的池塘里,到处可见失去生气的龟和鱼。

1.252.10

शरीरैरपरे दीप्तैर्देहवन्त इवाग्नयः ।
अदृश्यन्त वने तत्र प्राणिनः प्राणिसंक्षये ॥ १.२५२.१० ॥

其他生灵身体燃烧,如同化身的火焰,在那片森林中、在众生毁灭之际显现。

1.252.11

कांश्चिदुत्पततः पार्थः शरैः संछिद्य खण्डशः ।
पातयामास विहगान्प्रदीप्ते वसुरेतसि ॥ १.२५२.११ ॥

Pārtha(阿周那)以箭将一些飞起的鸟截成碎块,使它们坠入熊熊烈火之中。

1.252.12

ते शराचितसर्वाङ्गा निनदन्तो महारवान् ।
ऊर्ध्वमुत्पत्य वेगेन निपेतुः खाण्डवे पुनः ॥ १.२५२.१२ ॥

他们全身插满箭矢,大声嘶鸣,疾速飞起,又坠落回到犍陀婆林中。

1.252.13

शरैरभ्याहतानां च सङ्घशः स्म वनौकसाम् ।
विरावः शुश्रुवे घोरः समुद्रस्येव मथ्यतः ॥ १.२५२.१३ ॥

林中居民成群被箭射中,发出可怕的哀号,仿佛大海被搅动一般。

1.252.14

वह्नेश्चापि प्रदीप्तस्य खमुत्पेतुर्महार्चिषः ।
जनयामासुरुद्वेगं सुमहान्तं दिवौकसाम् ॥ १.२५२.१४ ॥

熊熊烈火的巨大火焰冲向天空,使天上的居民极为不安。

1.252.15

तेनार्चिषा सुसन्तप्ता देवाः सर्षिपुरोगमाः ।
ततो जग्मुर्महात्मानः सर्व एव दिवौकसः।
शतक्रतुं सहस्राक्षं देवेशमसुरार्दनम् ॥ १.२५२.१५ ॥

被那火焰深深折磨的伟大天神们,在仙人们引领下,天上的众神都前往千眼的神王、大地的主宰、阿修罗的摧毁者舍婆克拉图。

1.252.16

किं न्विमे मानवाः सर्वे दह्यन्ते चित्रभानुना ।
कच्चिन्न संक्षयः प्राप्तो लोकानाममरेश्वर ॥ १.२५२.१६ ॥

为何这些人都被火焰烧灼?莫非众世界的毁灭已经降临,不死者之主啊?

1.252.17

तच्छ्रुत्वा वृत्रहा तेभ्यः स्वयमेवान्ववेक्ष्य च ।
खाण्डवस्य विमोक्षार्थं प्रययौ हरिवाहनः ॥ १.२५२.१७ ॥

听到这些并亲自察看后,杀死弗栗多、驾驭黄褐色骏马的因陀罗出发去解救护那婆林。

1.252.18

महता रथबृन्देन नानारूपेण वासवः ।
आकाशं समवाकीर्य प्रववर्ष सुरेश्वरः ॥ १.२५२.१८ ॥

率领庞大的战车队,化作种种形象,婆薮之主、诸神之王遮蔽天空,降下大雨。

1.252.19

ततोऽक्षमात्रा व्यसृजन्धाराः शतसहस्रशः ।
चोदिता देवराजेन जलदाः खाण्डवं प्रति ॥ १.२५२.१९ ॥

于是,受天王因陀罗驱使的云团向祸林(Khāṇḍava)倾泻了数十万道水流,粗如车轴孔。

1.252.20

असंप्राप्तास्तु ता धारास्तेजसा जातवेदसः ।
ख एव समुशुष्यन्त नकाश्चित्पावकं गताः ॥ १.२५२.२० ॥

那些水流尚未抵达火神,便在天空中被火神的威力所烧干;有些甚至未能到达火神。

1.252.21

ततो नमुचिहा क्रुद्धो भृशमर्चिष्मतस्तदा ।
पुनरेव महामेघैरम्भांसि व्यसृजद्बहु ॥ १.२५२.२१ ॥

那时,杀死那牟吉的因陀罗极为愤怒于那光耀者,再次以大云团倾泻了大量的水。

1.252.22

अर्चिर्धाराभिसंबद्धं धूमविद्युत्समाकुलम् ।
बभूव तद्वनं घोरं स्तनयित्नुसमाकुलम् ॥ १.२५२.२२ ॥

那座可怖的森林被火焰的洪流缠绕,充满了烟雾与闪电,并被雷鸣所笼罩。