摩诃婆罗多 · 章 1.254
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.254.1
तथा शैलनिपातेन भीषिताः खाण्डवालयाः ।
दानवा राक्षसा नागास्तरक्ष्वृक्षवनौकसः ॥ १.२५४.१ ॥
如此,被落下的岩石吓坏的,是康达瓦的居民:檀那婆、罗刹、龙族,以及鬣狗与熊之林的居民。
1.254.2
द्विपाः प्रभिन्नाः शार्दूलाः सिंहाः केसरिणस्तथा ।
मृगाश्च महिषाश्चैव शतशः पक्षिणस्तथा ॥ १.२५४.२ ॥
发情的大象、老虎、狮子、鬃毛狮、鹿与水牛,以及成百上千的飞鸟。
1.254.3
समुद्विग्ना विससृपुस्तथान्या भूतजातयः ।
तं दावं समुदैक्षन्त कृष्णौ चाभ्युद्यतायुधौ ॥ १.२५४.३ ॥
其他各类生灵也极度惊惶,四散奔逃;它们望着那场林火,而两位黑天手持高举的兵器站立着。
1.254.4
उत्पातनादशब्देन त्रासिता इव चाभवन् ।
ते वनं प्रसमीक्ष्याथ दह्यमानमनेकधा ॥ १.२५४.४ ॥
仿佛被那巨大的喧嚣与咆哮声吓坏了,他们便仔细望着那片以种种方式燃烧的森林。
1.254.5
कृष्णमभ्युद्यतास्त्रं च नादं मुमुचुरुल्बणम् ।
तेन नादेन रौद्रेण नादेन च विभावसोः ॥ १.२५४.५ ॥
看见手持高举兵器的黑天,他们发出凶猛的喊叫;那可怖的吼声,连同火焰的咆哮声。
1.254.6
ररास गगनं कृत्स्नमुत्पातजलदैरिव ।
ततः कृष्णो महाबाहुः स्वतेजोभास्वरं महत् ॥ १.२५४.६ ॥
整个天空仿佛被不祥的云层所轰响;此时,大臂的黑天以自身光辉闪耀,显现出巨大的形体。
1.254.7
चक्रं व्यसृजदत्युग्रं तेषां नाशाय केशवः ।
तेनार्ता जातयः क्षुद्राः सदानवनिशाचराः ॥ १.२५४.७ ॥
克舍婆投出极其猛烈的法轮以毁灭他们。被其折磨的低等族类,连同檀那婆与夜行者,陷入痛苦。
1.254.8
निकृत्ताः शतशः सर्वा निपेतुरनलं क्षणात् ।
तत्रादृश्यन्त ते दैत्याः कृष्णचक्रविदारिताः ॥ १.२५४.८ ॥
他们被斩成数百段,瞬间全部坠入火中。那里可见被黑天法轮劈开的达提亚们。
1.254.9
वसारुधिरसंपृक्ताः सन्ध्यायामिव तोयदाः ।
पिशाचान्पक्षिणो नागान्पशूंश्चैव सहस्रशः ॥ १.२५४.९ ॥
沾满骨髓与鲜血,如同黄昏的云;皮舍遮、鸟类、龙蛇与走兽,亦成千上万。
1.254.10
निघ्नंश्चरति वार्ष्णेयः कालवत्तत्र भारत ।
क्षिप्तं क्षिप्तं पुनश्चक्रं कृष्णस्यामित्रघातिनः ॥ १.२५४.१० ॥
婆罗多之子啊,那里的伐尔什尼(黑天)如死神般挥击而行;克敌的黑天之轮一次又一次地被投出。
1.254.11
छित्त्वानेकानि सत्वानि पाणिमेति पुनः पुनः ।
तथा तु निघ्नतस्तस्य पिशाचोरगराक्षसान् ॥ १.२५४.११ ॥
切割众多生灵后,法轮一次又一次回到他手中;如此击杀之间,他灭尽了皮舍遮、蛇与罗刹。
1.254.12
बभूव रूपमत्युग्रं सर्वभूतात्मनस्तदा ।
समेतानां च सर्वेषां दानवानां च सर्वशः ॥ १.२५४.१२ ॥
那时,众生之我的黑天之相变得极其可怖,对于聚集于此的所有檀那婆而言,从四面八方都是如此。
1.254.13
विजेता नाभवत्कश्चित्कृष्णपाण्डवयोर्मृधे ।
तयोर्बलात्परित्रातुं तं च दावं यदा सुराः ॥ १.२५४.१३ ॥
当诸神以其力量试图救护那场大火时,克里希那与般度之子的战斗中,无人获胜。
1.254.14
नाशक्नुवञ्शमयितुं तदाऽभूवन्पराङ्मुखाः ।
शतक्रतुस्तु संप्रेक्ष्य विमुखानमरांस्तथा ॥ १.२५४.१४ ॥
他们无法平息,便背转身去。百祭之因陀罗看到诸神背离而去。
1.254.15
बभूव मुदितो राजन्प्रशंसन्केशवार्जुनौ ।
निवृत्तेष्वथ देवेषु वागुवाचाशरीरिणी ॥ १.२५४.१५ ॥
大王啊,诸神退去后,因陀罗欣喜地赞颂克沙瓦与阿周那。这时,一个无形之声说道。
1.254.16
शतक्रतुं समाभाष्य महागम्भीरनिःस्वना ।
न ते सखा सन्निहितस्तक्षको भुजगोत्तमः ॥ १.२५४.१६ ॥
它以极其低沉的声音对百祭之因陀罗说:“你的朋友,最优秀的蛇王德叉迦,并不在此。”
1.254.17
दाहकाले खाण्डवस्य कुरुक्षेत्रं गतो ह्यसौ ।
न च शक्यौ युधा जेतुं कथंचिदपि वासव ॥ १.२५४.१७ ॥
在焚烧康达瓦之时,他已前往俱卢之野。婆娑婆啊,这二人在战斗中无论如何都不可能被战胜。
1.254.18
वासुदेवार्जुनावेतौ निबोध वचनान्मम ।
नरनारायणावेतौ पूर्वदेवौ दिवि श्रुतौ ॥ १.२५४.१८ ॥
请依我言认识这二人:婆苏提婆与阿周那,他们是那罗与那罗衍那,天上所闻的古神。
1.254.19
भवानप्यभिजानाति यद्वीर्यौ यत्पराक्रमौ ।
नैतौ शक्यौ दुराधर्षौ विजेतुमजितौ युधि ॥ १.२५४.१९ ॥
你也知道他们的威力与勇武;在战场上,这二人无法被击败,也无法被征服。
1.254.20
अपि सर्वेषु लोकेषु पुराणावृषिसत्तमौ ।
पूजनीयतमावेतावपि सर्वैः सुरासुरैः ॥ १.२५४.२० ॥
在一切世界中,这二人是最古老、最优秀的仙人,最值得一切天神与阿修罗崇拜。
1.254.21
यक्षराक्षसगन्धर्वनरकिन्नरपन्नगैः ।
तस्मादितः सुरैः सार्धं गन्तुमर्हसि वासव ॥ १.२५४.२१ ॥
因为他们受到药叉、罗刹、乾闼婆、人类、紧那罗和蛇众的敬奉,因此,婆薮啊,你应当与众天神一同离开此地。
1.254.22
दिष्टं चाप्यनुपश्यैतत्खाण्डवस्य विनाशनम् ।
इति वाक्यमुपश्रुत्य तथ्यमित्यमरेश्वरः ॥ १.२५४.२२ ॥
你也应当看清,毁灭考达瓦森林乃是命中注定。天神之主听了这话,说:“此言不虚。”
1.254.23
क्रोधामर्षौ समुत्सृज्य संप्रतस्थे दिवं तदा ।
तं प्रस्थितं महात्मानं समवेक्ष्य दिवौकसः ॥ १.२५४.२३ ॥
于是他抛弃愤怒与怨恨,动身前往天界。众天人见这位大德者启程,...
1.254.24
सहिताः सेनया राजन्ननुजग्मुः पुरन्दरम् ।
देवराजं तदा यान्तं सह देवैरवेक्ष्य तु ॥ १.२५४.२४ ॥
大王啊,那时众天神率其军队随从补罗达罗而去。众人见天神之王与诸天神一同离去……
1.254.25
वासुदेवार्जुनौ वीरौ सिंहनादं विनेदतुः ।
देवराजे गते राजन्प्रहृष्टौ केशवार्जुनौ ॥ १.२५४.२५ ॥
英雄毗湿奴神(Vāsudeva)与阿周那发出狮吼;大王啊,天王离去之后,克舍婆与阿周那欢喜不已。
1.254.26
निर्विशङ्कं वनं वीरौ दाहयामासतुस्तदा ।
स मारुत इवाभ्राणि नाशयित्वाऽर्जुनः सुरान् ॥ १.२५४.२६ ॥
于是两位英雄毫无畏惧地焚烧了那片森林;阿周那如风吹散云朵一般,摧毁了诸神。
1.254.27
व्यधमच्छरसङ्घातैर्देहिनः खाण्डवालयान् ।
न च स्म किंचिच्छक्नोति भूतं निश्चरितुं ततः ॥ १.२५४.२७ ॥
他以箭的密集齐发,驱散了居住在坎达瓦林中的有形众生;于是没有任何生灵能从那里逃出。
1.254.28
संछिद्यमानमिषुभिरस्यता सव्यसाचिना ।
नाशक्नुवंश्च भूतानि महान्त्यपि रणेऽर्जुनम् ॥ १.२५४.२८ ॥
即便被善用双手的(阿周那)箭矢射倒,那些巨大的生灵在战场上也无法抵挡阿周那。
1.254.29
निरीक्षितुममोघास्त्रं योद्धुं चापि कुतो रणे ।
शतं चैकेन विव्याध शतेनैकं पतत्रिणाम् ॥ १.२५४.२९ ॥
连注视那不失之箭都困难,又怎能在战场上与之交锋?他以一箭射穿百个,又以百箭射穿一只飞禽。
1.254.30
व्यसवस्तेऽपतन्नग्नौ साक्षात्कालहता इव ।
न चालभन्त ते शर्म रोधःसु विषमेषु च ॥ १.२५४.३० ॥
他们失去生命,坠入火中,仿佛被死神亲自击中;即使在岩石和崎岖之处,他们也找不到栖身之所。
1.254.31
पितृदेवनिवासेषु सन्तापश्चाप्यजायत ।
भूतसङ्घाश्च बहवो दीनाश्चक्रुर्महास्वनम् ॥ १.२५४.३१ ॥
在祖先与诸神的居所中也生起了痛苦,众多可怜的生灵群体发出了巨大的哀号。
1.254.32
रुरुदुर्वारणाश्चैव तथा मृगतरक्षवः ।
तेन शब्देन वित्रेसुर्गङ्गोदधिचरा झषाः ॥ १.२५४.३२ ॥
象群哀鸣,鹿与豹也一样;因那声音,在恒河与大海中游动的鱼群都惊恐四散。
1.254.33
विद्याधरगणाश्चैव ये च तत्र वनौकसः ।
न त्वर्जुनं महाबाहो नापि कृष्णं जनार्दनम् ॥ १.२५४.३३ ॥
那里的众毗陀罗和林中居民也是如此;但是,啊,大臂者,他们竟不能注视阿周那,甚至也不能注视克利须那·遮那陀那。
1.254.34
निरीक्षितुं वै शक्नोति कश्चिद्योद्धुं कुतः पुनः ।
एकायनगता येऽपि निष्पेतुस्तत्र केचन ॥ १.२५४.३४ ॥
无人能够注视他们,更何况与之交战;那些走上唯一之路的人中,有些人从那里逃了出来。
1.254.35
राक्षसा दानवा नागा जघ्ने चक्रेण तान्हरिः ।
ते तु भिन्नशिरोदेहाश्चक्रवेगाद्गतासवः ॥ १.२५४.३५ ॥
哈里以轮宝击杀罗刹、檀那婆与龙蛇;他们的头颅与身躯被劈裂,在轮宝的疾速之下失去了生命。
1.254.36
पेतुरन्ये महाकायाः प्रदीप्ते वसुरेतसि ।
समांसरुधिरौधैश्च वसाभिश्चापि तर्पितः ॥ १.२५४.३६ ॥
其他身躯庞大的生灵坠入熊熊燃烧的“婆苏精液”(火)之中;火焰被肉与血的洪流以及脂髓所满足。
1.254.37
उपर्याकाशगो भूत्वा विधूमः समपद्यत ।
दीप्ताक्षो दीप्तजिह्वश्च संप्रदीप्तमहाननः ॥ १.२५४.३७ ॥
他升到天空中,变得无烟;他的眼睛燃烧,舌头如火焰,巨大的口全都烈烈燃起。
1.254.38
दीप्तोर्ध्वकेशः पिङ्गाक्षः पिबन्प्राणभृतां वसाम् ।
तां स कृष्णार्जुनकृतां सुधां प्राप्य हुताशनः ॥ १.२५४.३८ ॥
他的头发向上燃烧,双眼呈棕黄色;饮用众生的脂肪,那火神得到了克里希那与阿周那所备的甘露,变得强盛。
1.254.39
बभूव मुदितस्तृप्तः परां निर्वृतिमागतः ।
तथाऽसुरं मयं नाम तक्षकस्य निवेशनात् ॥ १.२५४.३९ ॥
他欢喜而满足,达到了至高的安宁;于是从德叉迦的住所中,走出了名叫摩耶的阿修罗。
1.254.40
विप्रद्रवन्तं सहसा ददर्श मधुसूदनः ।
तमग्निः प्रार्थयामास दिधक्षुर्वातसारथिः ॥ १.२५४.४० ॥
摩图苏陀那忽然看见他逃跑;于是以风为御者、欲要焚烧的火神便向他恳求。
1.254.41
शरीरवाञ्जटी भूत्वा नदन्निव बलाहकः ।
विज्ञाय दानवेन्द्राणां मयं वै शिल्पिनां वरम् ॥ १.२५४.४१ ॥
他化作有身躯、结发的形象,如云般咆哮;认出了摩耶,那是檀那婆诸王中、工匠中的最优秀者。
1.254.42
जिघांसुर्वासुदेवस्तं चक्रमुद्यम्य धिष्ठितः ।
स चक्रमुद्यतं दृष्ट्वा दिधक्षन्तं च पावकम् ॥ १.२५४.४२ ॥
世尊欲杀他,举起神轮而立;他看见了高举的神轮,以及那欲要焚烧的火神。
1.254.43
अभिधावार्जुनेत्येवं मयस्त्राहीति चाब्रवीत् ।
तस्य भीतस्वनं श्रुत्वा मा भैरिति धनंजयः ॥ १.२५४.४३ ॥
他说:“阿周那,快跑过来,救救摩耶!”听到他惊恐的呼声,财主说:“不要害怕。”
1.254.44
प्रत्युवाच मयं पार्थो जीवयन्निव भारत ।
तं न भेतव्यमित्याह मयं पार्थो दयापरः ॥ १.२५४.४४ ॥
婆罗多的后裔啊,普利塔之子如同让他重获生命一般回答摩耶。怀着慈悲的普利塔之子对摩耶说:“你不必害怕。”
1.254.45
तं पार्थेनाभये दत्ते नमुचेर्भ्रातरं मयम् ।
न हन्तुमैच्छद्दाशार्हः पावको न ददाह च ॥ १.२५४.४५ ॥
普利塔之子赐予他庇护之后,达沙尔哈(克里希那)不愿杀死那魔王纳木支之兄摩耶,火神(帕瓦卡)也没有焚烧他。
1.254.46
तद्वनं पावको धीमान्दिनानि दश पञ्च च ।
ददाह कृष्णपार्थाभ्यां रक्षितः पाकशासनात् ॥ १.२५४.४६ ॥
智慧的帕瓦卡焚烧那片森林十五天,在克里希那与普利塔之子的护卫下,受帝释天(因陀罗)的庇护。
1.254.47
तस्मिन्वने दह्यमाने षडग्निर्न ददाह च ।
अश्वसेनं मयं चैव चतुरः शार्ङ्गकांस्तथा ॥ १.२५४.४७ ॥
那片森林燃烧之时,六重之火没有焚烧阿濕伐色那、摩耶,也没有焚烧那四位沙尔伽。