Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.31

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.31.1

कोऽपराधो महेन्द्रस्य कः प्रमादश्च सूतज ।
तपसा वालखिल्यानां संभूतो गरुडः कथम् ॥ १.३१.१ ॥

御者之子啊!因陀罗有何过失,又有何疏忽?garuḍa 是如何借助伐罗嗬利亚仙人的苦行而诞生的?

1.31.2

कश्यपस्य द्विजातेश्च कथं वै पक्षिराट् सुतः ।
अधृष्टः सर्वभूतानामवध्यस्चाभवत्कथम् ॥ १.३१.२ ॥

鸟王如何成为婆罗门迦叶波之子?他如何成为一切众生都无法战胜、无法杀害的存在?

1.31.3

कथं च कामचारी स कामवीर्यश्च खेचरः ।
एतदिच्छाम्यहं श्रोतुं पुराणे यदि पठ्यते ॥ १.३१.३ ॥

他又如何成为随意游行、力量随心所欲、翱翔天空之者?若此事载于往世书中被诵读,我愿听闻。

1.31.4

विषयोऽयं पुराणस्य यन्मां त्वं परिपृच्छसि ।
शृणु मे वदतः सर्वमेतत्संक्षेपतों द्विज ॥ १.३१.४ ॥

双生者啊,你所问之事正属于往世书的内容。请听我简要地讲述这一切。

1.31.5

यजतः पुत्रकामस्य कश्यपस्य प्रजापतेः ।
साहाय्यमृषयो देवा गन्धर्वाश्च ददुः किल ॥ १.३१.५ ॥

迦叶波,众生之主,为求子而行祭祀时,仙人、天神与乾达婆皆予以相助。

1.31.6

तत्रेध्मानयने शक्रो नियुक्तः कश्यपेन ह ।
मुनयो वालखिल्याश्च ये चान्ये देवतागणाः ॥ १.३१.६ ॥

在那里,迦叶波确实派遣帝释天(因陀罗)去取来供火用的薪柴;伐罗嗬利亚仙人及其他天神群体也在场。

1.31.7

शक्रस्तु वीर्यसदृशमिध्यभारं गिरिप्रभम् ।
समुद्यम्यानयामास नातिकृच्छ्रादिव प्रभुः ॥ १.३१.७ ॥

然而因陀罗以其与自身力量相称的方式,轻举如山的柴薪重担而来,对于这位大能者而言,似乎并不十分吃力。

1.31.8

अथापश्यदृषीन्ह्रस्वानङ्गुष्ठोदरवर्ष्मणः ।
पलाशवर्तिकामेकां वहतः संहतान्पथि ॥ १.३१.८ ॥

于是他看见一些极矮小的仙人,身形不过拇指与腹部大小,聚集在路上,共同扛着一根紫荆枝。

1.31.9

प्रलीनान्स्वेष्विवाङ्गेषु निराहारांस्तपोधनान् ।
क्लिश्यमानान्मन्दबलान्गोष्पदे संप्लुतोदके ॥ १.३१.९ ॥

他们仿佛缩进了自己的肢体之中,不食不饮,以苦修为财富,备受煎熬,力量衰弱,沉没在牛蹄印中的水里。

1.31.10

तान्सर्वान्विस्मयाविष्टो वीर्योन्मत्तः पुरन्दरः ।
अपहास्याभ्यगाच्छीघ्रं लम्बयित्वाऽवमन्य च ॥ १.३१.१० ॥

因陀罗见到他们全部,惊讶不已,又因自己的力量而狂傲,便嘲笑着迅速走近,将他们吊起并加以轻蔑。

1.31.11

तेऽथ रोषसमाविष्टाः सुभृशं जातमन्यवः ।
आरेभिरे महत्कर्म तदा शक्रभयंकरम् ॥ १.३१.११ ॥

于是他们被强烈的愤怒所充满,怒火升起,开始了一场令帝释天恐惧的大祭典。

1.31.12

जुहुवुस्ते सुतपसो विधिवज्जातवेदसम् ।
मन्त्रैरुच्चावचैर्विप्रा येन कामेन तच्छृणु ॥ १.३१.१२ ॥

那些大苦行者依照仪轨向耆多吠陀(火神)献上供品,念诵高低不一的种种咒语。诸位婆罗门,请听他们这样做所出于的愿望。

1.31.13

कामवीर्यः कामगमो देवराजभयप्रदः ।
इन्द्रोऽन्यः सर्वदेवानां भवेदिति यतव्रताः ॥ १.३१.१३ ॥

愿这位以意志为力量、随意往来、令诸天之王生畏的人,成为众天神中的另一位因陀罗——守持誓愿者如此说。

1.31.14

इन्द्राच्छतगुणः शौर्ये वीर्ये चैव मनोजवः ।
तपसो नः फलेनाद्य दारुणः संभवित्विति ॥ १.३१.१४ ॥

勇武与力量胜过因陀罗百倍,迅捷如意念——愿以我们苦行的果实,今日生出一位可怖之人。

1.31.15

तद्बुद्ध्वा भृशसंतप्तो देवराजः शतक्रतुः ।
जगाम शरणं तत्र कश्यपं संशितव्रतम् ॥ १.३१.१५ ॥

因陀罗——诸天之王、百祭者——得知此事,极为忧惧,便前往坚守誓愿的迦叶波那里寻求庇护。

1.31.16

तच्छ्रुत्वा देवराजस्य कश्यपोऽथ प्रजापतिः ।
वालखिल्यानुपागम्य कर्मसिद्धिमपृच्छत ॥ १.३१.१६ ॥

迦叶波,众生之主,听闻诸天之王的话后,走近瓦拉基利亚仙人,询问祭仪成就之事。

1.31.17

केन कामेन चारब्धं भवद्भिर्होमकर्म च ।
याथातथ्येन मे ब्रूत श्रोतुं कौतूहलं हि मे ॥ १.३१.१७ ॥

你们出于何种欲望而开始了火供之仪?请如实告诉我;我很想听闻。

1.31.18

अवज्ञाताः सुरेन्द्रेण मूढेनाकृतबुद्धिना ।
ऐश्वर्यमदमत्तेन सदाचारान्निरस्यता ॥ १.३१.१८ ॥

我们被众神之主轻慢——那位愚痴、心智未成熟、被权势之醉所迷的天主,将我们逐出了正行。

1.31.19

तद्विघातार्थमारम्भो विधिवत्तस्य कश्यप ॥ १.३१.१९ ॥

迦叶啊,他依照仪轨开始了这项行动,以阻碍它。

1.31.20

एवमस्त्विति तं चापि प्रत्यूचुः सत्यवादिनः ।
तान्कश्यप उवाचेदं सान्त्वपूर्वं प्रजापतिः ॥ १.३१.२० ॥

“就这样吧。”那些说真话的人也这样回答了他。于是生主迦叶先以安抚之语对他们说道:

1.31.21

अयमिन्द्रस्त्रिभुवने नियोगाद्ब्रह्मणः कृतः ।
इन्द्रार्थे च भवन्तोऽपि यत्नवन्तस्तपोधनाः ॥ १.३१.२१ ॥

这位因陀罗受梵天之命被设立于三界。诸位苦行富足者啊,你们也应当为因陀罗而努力。

1.31.22

न मिथ्या ब्रह्मणो वाक्यं कर्तुमर्हथ सत्तमाः ।
भवतां हि न मिथ्याऽयं संकल्पो वै चिकीर्षितः ॥ १.३१.२२ ॥

诸位善人中的至善者啊,你们不应使梵天的话落空。你们的这个决心也并非虚妄,它确实应当被实现。

1.31.23

भवत्वेष पतत्रीणामिन्द्रोऽतिबलसत्त्ववान् ।
प्रसादः क्रियतामस्य देवराजस्य याचतः ॥ १.३१.२३ ॥

愿这位因陀罗成为诸飞禽中最强有力、最有力量的一位。愿那位前来恳求的天王获得恩惠。

1.31.24

एवमुक्ताः कश्यपेन वालखिल्यास्तपोधनाः ।
प्रत्यूचुरभिसंपूज्य मुनिश्रेष्ठं प्रजापतिम् ॥ १.३१.२४ ॥

迦叶如此说后,富有苦行的婆罗希利亚们向最优秀的仙人、生主致以敬意,然后回答道。

1.31.25

इन्द्रार्थोऽयं समारम्भः सर्वेषां नः प्रजापते ।
अपत्यार्थं समारम्भो भवतश्चायमीप्सितः ॥ १.३१.२५ ॥

此举为因陀罗而行,哦造物主,是我们众人的事业。而您的此举则为求得子嗣而愿。

1.31.26

तदिदं सफलं कर्म त्वयैव प्रतिगृह्यताम् ।
तथा चैवं विधत्स्वात्र यथा श्रेयोऽनुपश्यसि ॥ १.३१.२६ ॥

故愿此业成就;请您亲自接受。此事之中,您见何为善,便依之而行。

1.31.27

एतस्मिन्नेव काले तु देवी दाक्षायणी शुभा ।
विनता नाम कल्याणी पुत्रकामा यशस्विनी ॥ १.३१.२७ ॥

就在此时,吉祥的女神毗那他,出自达刹之族,福泽吉祥,渴望子嗣,声名远扬,

1.31.28

तपस्तप्त्वा व्रतपरा स्नाता पुंसवने शुचिः ।
उपचक्राम भर्तारं तामुवाचाथ कश्यपः ॥ १.३१.२८ ॥

她修苦行、持戒,为男嗣之仪沐浴洁净,便走近丈夫;于是迦叶波对她说道。

1.31.29

आरम्भः सफलो देवि भविता यस्त्वयेप्सितः ।
जनयिष्यसि पुत्रौ द्वौ वीरौ त्रिभुवनेश्वरौ ॥ १.३१.२९ ॥

女神啊,您所愿求的事业必将成就;您将生下两位英勇之子,成为三界之主。

1.31.30

तपसा वालखिल्यानां मम संकल्पतस्तथा ।
भविष्यतो महाभागौ पुत्रौ त्रैलोक्यपूजितौ ॥ १.३१.३० ॥

凭借瓦拉基利耶的苦行与我的意愿,必将如此:两位大福之子,受三界所尊崇。

1.31.31

उवाच चैनां भगवान्कश्यपः पुनरेव ह ।
धार्यतामप्रमादेन गर्भोऽयं सुमहोदयः ॥ १.३१.३१ ॥

尊贵的迦叶再次对她说:“小心地怀住这个胎儿,它的兴盛将极为伟大。”

1.31.32

एकः सर्वपतत्रीणामिन्द्रत्वं कारयिष्यति ।
लोकसंभावितो वीरः कामरूपो विहङ्गमः ॥ १.३१.३२ ॥

此一子将使一切飞禽得到因陀罗的地位。这位在世间备受尊崇的英雄,将成为能随意变化形态的鸟。

1.31.33

शतक्रतुमथोवाच प्रीयमाणः प्रजापतिः ।
त्वत्सहायौ महावीर्यौ भ्रातरौ ते भविष्यतः ॥ १.३१.३३ ॥

于是生主欢喜地对百祭(因陀罗)说:“两位大力的兄弟将成为你的助手。”

1.31.34

नैताभ्यां भविता दोषः सकाशात्ते पुरंदर ।
व्येतु ते शक्र संतापस्त्वमेवेन्द्रो भविष्यसि ॥ १.३१.३४ ॥

这两位不会使你有任何过失,哦,城破者。愿你的忧愁消散,哦,帝释;你自己将仍是因陀罗。

1.31.35

न चाप्येवं त्वया भूयः क्षेप्तव्या ब्रह्मवादिनः ।
न चावमान्या दर्पात्ते वाग्वज्रा भृशकोपनाः ॥ १.३१.३५ ॥

你也不可再如此侮辱那些宣说梵的仙人,也不可因傲慢而轻视他们;他们的言辞如雷霆,且极易发怒。

1.31.36

एवमुक्तो जगामेन्द्रो निर्विशङ्कस्त्रिविष्टपम् ।
विनता चापि सिद्धार्था बभूव मुदिता तथा ॥ १.३१.३६ ॥

如此被告知之后,因陀罗无所畏惧地前往天界;毗那多也因目的达成而欢喜。

1.31.37

जनयामास पुत्रौ द्वावरुणं गरुडं तथा ।
विकलाङ्गोऽरुणस्तत्र भास्करस्य पुरःसरः ॥ १.३१.३७ ॥

她生下两个儿子,阿鲁那与迦楼罗。阿鲁那肢体残缺,成为走在太阳前面的人。

1.31.38

पतत्त्रीणां च गरुडमिन्द्रत्वेनाभ्यषिञ्चत ।
तस्यैतत्कर्म सुमहच्छ्रूयतां भृगुनन्दन ॥ १.३१.३८ ॥

他们将迦楼罗立为众鸟之因陀罗。婆利古之子啊,请听他这一伟大的事迹。