Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.34

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.34.1

इत्येवमुक्तो गरुडः प्रत्युवाच शचीपतिम् ।
सख्यं मेऽस्तु त्वया देव यथेच्छसि पुरंदर।
बलं तु मम जानीहि महच्चासह्यमेव च ॥ १.३४.१ ॥

被如此称呼后,迦卢达回答舍之夫(因陀罗)说:“天神补罗陀罗啊,若你愿意,我们便结为朋友。请知道我的力量:它巨大而不可承受。”

1.34.2

कामं नैतत्प्रशंसन्ति सन्तः स्वबलसंस्तवम् ।
अनिमित्तं सुरश्रेष्ठ सद्यः प्राप्नोति गर्हणाम् ॥ १.३४.२ ॥

善人确实不赞许自我夸耀己力;无故如此者,立即招致非议,天神中的至尊啊。

1.34.3

गुणसंकीर्तनं चापि पृष्टेनान्येन गोपते ।
वक्तव्यं न तु वक्तव्यं स्वयमेव शतक्रतो ॥ १.३४.३ ॥

即使他人询问,也可述说自己的美德;但是,牧牛之主啊,百祭者啊,不应自己主动说出。

1.34.4

सखेति कृत्वा तु सखे पृष्टो वक्ष्याम्यहं त्वया ।
न ह्यात्मस्तवसंयुक्तं वक्तव्यमनिमित्ततः ॥ १.३४.४ ॥

视你为友,朋友啊,既然你询问,我便说;然而充满自我夸耀的话,不应无故说出。

1.34.5

सपर्वतवनामुर्वीं ससागरजलामिमाम् ।
वहे पक्षेण वै शक्र त्वामप्यत्रावलम्बिनम् ॥ १.३४.५ ॥

帝释啊,这片连同山岳、森林与海水的大地,我可以用一只翅膀承载,连同此刻攀附于其上的你也一并承载。

1.34.6

सर्वान्संपिण्डितान्वापि लोकान्सस्थाणुजङ्गमान् ।
वहेयमपरिश्रान्तो विद्धीदं मे महद्बलम् ॥ १.३४.६ ॥

即使把一切有静止与运动之物的世界聚集在一起,我也能毫不疲倦地承载。请知道,这就是我的伟大力量。

1.34.7

इत्युक्तवचनं वीरं किरीटी श्रीमतां वरः ।
आह शौनक देवेन्द्रः सर्वलोकहितः प्रभुः ॥ १.३४.७ ॥

对那位英雄说完这些话后,戴冠者、诸位光荣者中最优秀的、众神之主、利益一切世界者因陀罗说道:哦,憍尸迦(Śaunaka)。

1.34.8

एवमेव यथात्थ त्वं सर्वं संभाव्यते त्वयि ।
संगृह्यतामिदानीं मे सख्यमत्यन्तमुत्तमम् ॥ १.३४.८ ॥

正如你所说,一切都可能在你身上实现。现在请接受我最崇高、最上乘的友谊。

1.34.9

न कार्यं यदि सोमेन मम सोमः प्रदीयताम् ।
अस्मांस्ते हि प्रबाधेयुर्येभ्यो दद्याद्भवानिमम् ॥ १.३४.९ ॥

如果你不需要苏摩,就把我的苏摩给我。你把它给了谁,他们必定会压迫我们。

1.34.10

किंचित्कारणमुद्दिश्य सोमोऽयं नीयते मया ।
न दास्यामि समापातुं सोमं कस्मैचिदप्यहम् ॥ १.३४.१० ॥

出于某种缘由,我正带走这份苏摩。这份苏摩我不会交给任何人饮用。

1.34.11

यत्रेमं तु सहस्राक्ष निक्षिपेयमहं स्वयम् ।
त्वमादाय ततस्तृर्णं हरेथास्त्रिदिवेश्वर ॥ १.३४.११ ॥

哦,千眼者,我亲自放置它的地方,你从那里迅速取走并带走它,哦,三界之主。

1.34.12

वाक्येनानेन तुष्टोऽहं यत्त्वयोक्तमिहाण्डज ।
यमिच्छसि वरं मत्तस्तं गृहाण खगोत्तम ॥ १.३४.१२ ॥

你在此所说的这番话让我满意,哦,卵生者。你想从我这里得到的恩惠,请接受吧,哦,鸟中之最。

1.34.13

इत्युक्तः प्रत्युवाचेदं कद्रूपुत्राननुस्मरन् ।
भवेयुर्भुजगाः शक्र मम भक्ष्या महाबलाः ॥ १.३४.१३ ॥

闻言,他想起迦德卢的诸子,回答道:帝释啊,愿那些大力的蛇成为我的食物。

1.34.14

ईशोऽहमपि सर्वस्य करिष्यामि तु तेऽर्थिताम् ।
भवेयुर्भुजगाः शक्र मम भक्ष्या महाबलाः ॥ १.३४.१४ ॥

我亦是万物之主,必将满足你的请求。帝释啊,愿那些大力的蛇成为我的食物。

1.34.15

तथेत्युक्त्वाऽन्वगच्छत्तं ततो दानवसूदनः ।
देवदेवं महात्मानं योगिनामीश्वरं हरिम् ॥ १.३४.१५ ॥

他说:"就这样吧。"于是,灭除达那伐的那位便跟随神中之神、大德的哈利——瑜伽士之主。

1.34.16

स चान्वमोदत्तं चार्थं यथोक्तं गरुडेन वै ।
इदं भूयो वचः प्राह भगवांस्त्रिदशेश्वरः ॥ १.३४.१६ ॥

他完全按照迦卢达所说批准了那一请求,随后三十神之主世尊又说了这番话。

1.34.17

हरिष्यामि विनिक्षिप्तं सोममित्यनुभाष्य तम् ।
आजगाम ततस्तूर्णं सुपर्णी मातुरन्तिकम् ॥ १.३४.१७ ॥

他对他说:"我将取回那被藏起的苏摩。"说完,那善翼者便迅速来到母亲身边。

1.34.18

विनयावनतो भूत्वा वचनं चेदमब्रवीत् ।
इदमानीतममृतं देवानां भवनान्मया ॥ १.३४.१८ ॥

他谦卑地俯身说道:"这不死甘露是我从诸神的居所取来的。"

1.34.19

प्रशाधि किमितो मातः करिष्यामि शुभव्रते ।
परितुष्टाऽहमेतेन कर्मणा तव पुत्रक ॥ १.३४.१९ ॥

吉祥誓愿的母亲啊,请吩咐:从此我该做什么?孩子啊,我因你这一行为而完全满意。

1.34.20

अजरश्चाभरश्चैव देवानां सुप्रियो भव ।
अथ सर्पानुवाचेदं सर्वान्परमहृष्टवत्।
इदमानीतममृतं निक्षेप्स्यामि कुशेषु वः ॥ १.३४.२० ॥

愿你无衰老、无负担,并为诸神所珍爱。随后,她十分欢喜地对众蛇说:我带来的这甘露,我将为你们放在吉祥草上。

1.34.21

स्नाता मङ्गलसंयुक्तास्ततः प्राश्नीत पन्नगाः ।
भवद्भिरिदमासीनैर्यदुक्तं तद्वचस्तदा ॥ १.३४.२१ ॥

沐浴并带着吉祥之后,诸蛇啊,你们应当饮用此物;愿你们在此就座时所说的那番话,此时得以实现。

1.34.22

अदासी चैव मातेयमद्यप्रभृति चास्तु मे ।
यथोक्तं भवतामेतद्वचो मे प्रतिपादितम् ॥ १.३४.२२ ॥

从今日起,愿我的这位母亲不再为奴。正如你们所说,你们的那番话已为我而实现。

1.34.23

ततः स्नातुं गताः सर्पाः प्रत्युक्त्वा तं तथेत्युत ।
शक्रोऽप्यमृतमाक्षिप्य जगाम त्रिदिवं पुनः ॥ १.३४.२३ ॥

于是诸蛇回答他说“就这样吧”,便去沐浴了。而释迦(因陀罗)也夺取了甘露,再次回到了天界。

1.34.24

अथागतास्तमुद्देशं सर्पाः सोमार्थिनस्तदा ।
स्नाताश्च कुतजप्याश्च प्रहृष्टाः कृतमङ्गलाः ॥ १.३४.२४ ॥

于是渴望苏摩(甘露)的诸蛇来到了那个地方,它们沐浴、持诵、欢喜,并举行了吉祥的仪式。

1.34.25

परस्परकृतद्वेषाः सोमप्राशनकर्मणि ।
अहं पूर्वमहं पूर्वमित्युक्त्वा ते समाद्रवन् ॥ १.३४.२५ ॥

彼此怀有敌意,在饮用苏摩的时候,互相喊着“我先,我先”,他们奔涌而上。

1.34.26

यत्रैतदमृतं चापि स्थापितं कुशसंस्तरे ।
तद्विज्ञाय हृतं सर्पाः प्रतिमायाकृतं च तत् ॥ १.३४.२६ ॥

蛇得知这甘露被放置在吉祥草的床上,便将其夺走;而那甘露本身也是为欺骗而制作的。

1.34.27

सोमस्थानमिदं चेति दर्भांस्ते लिलिहुस्तदा ।
ततो द्विधा कृता जिह्वाः सर्पाणां तेन कर्मणा ॥ १.३४.२७ ॥

他们以为“这里是苏摩之处”,便舔舐了吉祥草;由于这一行为,蛇的舌头便被分成了两叉。

1.34.28

अभवंश्चामृतस्पर्शाद्दर्भास्तेऽथ पवित्रिणः ।
नागाश्च वञ्चिता भूत्वा विसृज्य विनतां ततः।
विषादमगमंस्तीव्रं गरुडस्य बलात्प्रभो ॥ १.३४.२८ ॥

因接触甘露,那些吉祥草变得神圣;而众蛇受骗,释放了毗娜达,啊主人,因迦楼罗的力量而陷入深深的悲伤。

1.34.29

एवं तदमृतं तेन हृतमाहृतमेव च ।
द्विजिह्वाश्च कृताः सर्पा गरुडेन महात्मना ॥ १.३४.२९ ॥

于是他既夺取了那甘露,又将它带回;而大德的迦楼罗使众蛇成为双舌。

1.34.30

ततः सुपर्णः परमप्रहर्षवा-
न्विहृत्य मात्रा सह तत्र कानने।
भुजंगभक्षः परमार्चितः खगै-
रहीनकीर्तिर्विनतामनन्दयत् ॥ १.३४.३० ॥

于是大喜的金翅鸟与母亲在那片森林中游玩;这位以蛇为食、受众鸟极度尊崇、名声不减的金翅鸟,使毗娜达欢喜。

1.34.31

इमां कथां यः शृणुयान्नरः सदा ।
पठेत वा द्विजगणमुख्यसंसदि।
असंशयं त्रिदिवमियात्स पुण्यभा-
ङ्महात्मनः पतगपतेः प्रकीर्तनात् ॥ १.३४.३१ ॥

凡人若常听此故事,或在诸再生者之首的集会中诵读,必定升天;并因称颂伟大的鸟王(迦鲁达)而分享功德。