摩诃婆罗多 · 章 1.42
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.42.1
यद्येतत्साहसं तात यदि वा दुष्कृतं कृतम् ।
प्रियं वाप्यप्रियं वा ते वागुक्ता न मृषा भवेत् ॥ १.४२.१ ॥
父亲啊,无论这是鲁莽之举还是恶行,无论于你是喜是忧,所说的话都不会落空。
1.42.2
नैवान्यथेदं भविता पितरेष ब्रवीमि ते ।
नाहं मृषा ब्रवीम्येवं स्वैरेष्वपि कुतः शपन् ॥ १.४२.२ ॥
父亲,此事不会有别的结果,这是我对你所说的。我不会如此妄言;即便是戏言,我又怎会诅咒呢?
1.42.3
जानाम्युग्रप्रभावं त्वां तात सत्यगिरं तथा ।
नानृतं चोक्तपूर्वं ते नैतन्मिथ्या भविष्यति ॥ १.४२.३ ॥
孩子,我知道你的威力猛烈,你的话语真实。你以前从未说过谎;所以这不会落空。
1.42.4
पित्रा पुत्रो वयस्थोऽपि सततं वाच्य एव तु ।
यथा स्याद्गुणसंयुक्तः प्राप्नुयाच्च महद्यशः
गच्छामित्वरितं सौम्य सद्यः कर्तुमपज्वरम् ॥ १.४२.४ ॥
父亲应当始终教导儿子,即使他已成年,使他具备德行并获得伟大的声誉。温和的孩子啊,我这就快去立刻补救此事。
1.42.5
किं पुनर्बाल एव त्वं तपसा भावितः सदा ।
वर्धते चेत्प्रभवतां कोपोऽतीव महात्मनाम् ॥ १.४२.५ ॥
你尚且是个孩子,虽然总是以苦行养育。若有力量的大德之人的愤怒极度增长,那还有什么可说的呢?
1.42.6
उत्सीदेयुरिमे लोकाः क्षणा चास्य प्रतिक्रिया ।
सोऽहं पश्यामि वक्तव्यं त्वयि धर्मभृतां वर।
पुत्रत्वं बालतां चैव तवावेक्ष्य च साहसम् ॥ १.४२.६ ॥
这些世界可能毁灭,而补救只在顷刻之间。持守正法者中最优秀的人啊,考虑到你身为人子、年少与莽撞,我看到了我该对你说的话。
1.42.7
स त्वं शमपरो भूत्वा वन्यमाहारमाचरन् ।
चर क्रोधमिमं हित्वा नैवं धर्मं प्रहास्यसि ॥ १.४२.७ ॥
你应专心于寂静,食用野生之物,舍弃此怒而生活;如此,你便不会舍弃法。
1.42.8
क्रोधो हि धर्मं हरति यतीनां दुःखसंचितम् ।
ततो धर्मविहीनानां गतिरिष्टा न विद्यते ॥ १.४२.८ ॥
愤怒确实夺走苦修者以艰辛积累的法;因此,无法者不得所求之趣。
1.42.9
शम एव यतीनां हि क्षमिणां सिद्धिकारकः ।
क्षमावतामयं लोकः परश्चैव क्षमावताम् ॥ १.४२.९ ॥
寂静本身带给苦行者与忍耐者成就;此世属于忍耐者,彼世也属于忍耐者。
1.42.10
तस्माच्चरेथाः सततं क्षमाशीलो जितेन्द्रियः ।
क्षमया प्राप्स्यसे लोकान्ब्रह्मणः समनन्तरान् ॥ १.४२.१० ॥
因此你应常怀忍耐,调伏诸根而生活;以忍耐,你将得到与梵天相近的诸世界。
1.42.11
मया तु शममास्थाय यच्छक्यं कर्तुमद्य वै ।
तत्करिष्याम्यहं तात प्रेपयिष्ये नृपाय वै ॥ १.४२.११ ॥
但我将依托寂静,做今日力所能及之事,我的孩子;我将派使者去见国王。
1.42.12
मम पुत्रेण शप्तोऽसि बालेनाकृतबुद्धिना ।
ममेमां धर्षणां त्वत्तः प्रेक्ष्य राजन्नमर्षिणा ॥ १.४२.१२ ॥
我那心智未成熟的幼子诅咒了你,国王;他见到你加于我的这种侮辱,愤怒之下才这样做。
1.42.13
एवमादिश्य शिष्यं स प्रेषयामास सुव्रतः ।
परिक्षिते नृपतये दयापन्नो महातपाः ॥ १.४२.१३ ॥
如此吩咐弟子之后,持誓的大苦行者怀着慈悲,将他派往国王珀里叉忒。
1.42.14
संदिश्य कुशलप्रश्नं कार्यवृत्तान्तमेव च ।
शिष्यं गौरमुखं नाम शीलवन्तं समाहितम् ॥ १.४२.१४ ॥
传达了问候与事情的始末之后,他派遣了名叫高罗目的有德而定心的弟子。
1.42.15
सोऽभिगम्य ततः शीघ्रं नरेन्द्रं कुरुवर्धनम् ।
विवेश भवनं राज्ञः पूर्वं द्वास्थैर्निवेदितः ॥ १.४२.१५ ॥
他迅速来到令库鲁族繁荣的君王面前,经守门人先行通报后,走进了王宫。
1.42.16
पूजितस्तु नरेन्द्रेण द्विजो गौरमुखस्तदा ।
आचख्यौ च परिश्रान्तो राज्ञः सर्वमशेषतः ॥ १.४२.१६ ॥
婆罗门高罗目受到国王礼遇,虽然疲惫,还是将一切完整地告知了国王。
1.42.17
शमीकवचनं घोरं यथोक्तं मन्त्रिसन्निधौ ।
शमीको नाम राजेन्द्र वर्तते विषये तव ॥ १.४२.१७ ॥
他按照在大臣面前所说的样子,转述了沙弥迦可怕的话语:王中之王啊,名叫沙弥迦的仙人住在你的国土之中。
1.42.18
ऋषिः परमधर्मात्मा दान्तः शान्तो महातपाः ।
तस्य त्वया नरव्याघ्र सर्पः प्राणैर्वियोजितः ॥ १.४२.१८ ॥
这位仙人心地至为正直,自制、平静,苦行极大;人中之虎啊,您使一条蛇丧命于他的身上。
1.42.19
अवसक्तो धनुष्कोट्या स्कन्धे मौनान्वितस्य च ।
क्षान्तवांस्तव तत्कर्म पुत्रस्तस्य न चक्षमे ॥ १.४२.१९ ॥
他们用弓梢将死蛇挂在正默守誓言的仙人肩上。你忍受了那件事,但他的儿子却不能容忍。
1.42.20
तेन शप्तोऽसि राजेन्द्र पितुरज्ञातमद्य वै ।
तक्षकः सप्तरात्रेण मृत्युस्तव भविष्यति ॥ १.४२.२० ॥
诸王之主啊,今日你被他诅咒,你父亲并不知情:七夜之内,德叉迦将成为你的死亡。
1.42.21
तत्र रक्षां कुरुष्वेति पुनः पुनरथाब्रवीत् ।
तदन्यथा न शक्यं च कर्तुं केनचिदप्युत ॥ १.४२.२१ ॥
“在那里设下守护”,他一再地这样说。此事不可能有别的结局,也无人能够改变。
1.42.22
न हि शक्नोति संयन्तुं पुत्रं कोपसमन्वितम् ।
ततोऽहं प्रेषितस्तेन तव राजन्हितार्थिना ॥ १.४२.२२ ॥
他无法制止满怀怒火的儿子。因此,国王啊,他出于对你的善意,派我前来。
1.42.23
इति श्रुत्वा वचो घोरं स राजा कुरुनन्दनः ।
पर्यतप्यत तत्पापं कृत्वा राजा महातपाः ॥ १.४२.२३ ॥
听到这些可怕的话语,那位库鲁族的喜悦之王,因自己所犯的罪过而深感痛苦——这位大苦行的国王。
1.42.24
तं च मौनव्रतं श्रुत्वा वने मुनिवरं तदा ।
भूय एवाभवद्राजा शोकसंतप्तमानसः ॥ १.४२.२४ ॥
他听到林中那位最杰出的仙人的沉默誓言,那位国王便再次心被悲痛煎熬。
1.42.25
अनुक्रोशात्मतां तस्य शमीकस्यावधार्य च ।
पर्यतप्यत भूयोपि कृत्वा तत्किल्बिषं मुनेः ॥ १.४२.२५ ॥
国王领悟到沙弥迦的慈悲本性后,因为对这位仙人所犯的过错,再次深感痛苦。
1.42.26
न हि मृत्युं तथा राजा श्रुत्वा वै सोऽन्वतप्यत ।
अशोचदमरप्रख्यो यथा कृत्वेह कर्म तत् ॥ १.४२.२६ ॥
国王听到死讯时并未如此悲痛;然而他如同不死之神,却为自己所做的那件事而悲叹。
1.42.27
ततस्तं प्रेषयामास राजा गौरमुखं तदा ।
भूयः प्रसादं भगवान्करोत्विह ममेति वै ॥ १.४२.२७ ॥
于是国王派遣高罗门迦说:“愿尊者再次对我施恩。”
1.42.28
श्रुत्वा तु वचनं राज्ञो मुनिर्गौरमुखस्तदा ।
समनुज्ञाप्य वेगेन प्रजगामाश्रमं गुरोः ॥ १.४२.२८ ॥
高罗门迦仙人听了国王的话,便告辞,迅速前往他老师的修行处。
1.42.29
तस्मिंश्च गतमात्रेऽथ राजा गौरमुखे तदा ।
मन्त्रिभिर्मन्त्रयामास सह संविग्नमानसः ॥ १.४२.२९ ॥
高罗门迦刚走,心神不安的国王便与大臣们商议起来。
1.42.30
संमन्त्र्य मन्त्रिभिश्चैव स तथा मन्त्रतत्त्ववित् ।
प्रासादं कारयामास एकस्तम्भं सुरक्षितम् ॥ १.४२.३० ॥
国王与大臣商议之后,这位通晓谋略精髓的国王下令建造了一座由单柱支撑、防卫森严的宫殿。
1.42.31
रक्षां च विदधे तत्र भिषजश्चौषधानि च ।
ब्राह्मणान्मन्त्रसिद्धांश्च सर्वतो वै न्ययोजयत् ॥ १.४२.३१ ॥
他在那里安排了护卫,安置了医师和药物,并在四方安排了精通咒语的婆罗门。
1.42.32
राजकार्याणि तत्रस्थः सर्वाण्येवाकरोच्च सः ।
मन्त्रिभिः सह धर्मज्ञः समन्तात्परिरक्षितः ॥ १.४२.३२ ॥
他留在那里,处理了所有王事;这位通晓法的君王与大臣们一起,四面受到守护。
1.42.33
न चैनं कश्चिदारूढं लभते राजसत्तमम् ।
वातोऽपि निश्चरंस्तत्र प्रवेशे विनिवार्यते ॥ १.४२.३३ ॥
无人能登上楼去见到那位最优秀的君王;在那里的入口处,连风也被阻挡不得进入。
1.42.34
प्राप्ते च दिवसे तस्मिन्सप्तमे द्विजसत्तमः ।
काश्यपोऽभ्यागमद्विद्वांस्तं राजानं चिकित्सितुम् ॥ १.४२.३४ ॥
到了第七天,最优秀的再生者、博学的迦叶来为那位国王治病。
1.42.35
श्रुतं हि तेन तदभूद्यथा तं राजसत्तमम् ।
तक्षकः पन्नगश्रेष्ठो नेष्यते यमसादनम् ॥ १.४२.३५ ॥
因为他听说,蛇王中的上首德叉迦将把那位最优秀的君王送往阎摩之处。
1.42.36
तं दष्टं पन्नगेन्द्रेण करिष्येऽहमपज्वरम् ।
तत्र मेऽर्थश्च धर्मश्च भवितेति विचिन्तयन् ॥ १.४२.३६ ॥
若他被蛇王咬伤,我便使他脱离毒热;这样于我既有利益也有法,他这样思量着。
1.42.37
तं ददर्श स नागेन्द्रस्तक्षकः काश्यपं पथि ।
गच्छन्तमेकमनसं द्विजो भूत्वा वयोऽतिगः ॥ १.४२.३७ ॥
蛇王德叉迦看见迦叶在路上一心前行;他已化作一位年老的婆罗门。
1.42.38
तमब्रवीत्पन्नगेन्द्रः काश्यपं मुनिपुंगवम् ।
क्व भवांस्त्वरितो याति किंच कार्यं चिकीर्षति ॥ १.४२.३८ ॥
蛇王对众仙之中最杰出的迦叶说:“您匆忙地要去哪里?又想做什么事?”
1.42.39
नृपं कुरुकुलोत्पन्नं परिक्षितमरिंदमम् ।
तक्षकः पन्नगश्रेष्ठस्तेजसाऽध्य प्रधक्ष्यति ॥ १.४२.३९ ॥
蛇中之王德叉迦今日便将以其威力焚烧出生于俱卢族、降伏敌人的国王阿毗克希特。
1.42.40
तं दष्टं पन्नगेन्द्रेण तेनाग्निसमतेजसम् ।
पाण्डवानां कुलकरं राजानममितौजसम्। ॥ १.४२.४० ॥
那位被蛇王咬伤的国王,光辉如火,是般度族世系的奠基者,力量无量。
1.42.41
विज्ञातविषविद्योऽहं ब्राह्मणो लोकपूजितः ।
अस्मद्गुरुकटाक्षेण कल्योऽहं विषनाशने ॥ १.४२.४१ ॥
我是精通毒术的婆罗门,在世间受人尊敬。凭借我师父的恩慈目光,我能够解除毒害。
1.42.42
अहं स तक्षको ब्रह्मंस्तं धक्ष्यामि महीपतिम् ।
निवर्तस्व न शक्तस्त्वं मया दष्टं चिकित्सितुम् ॥ १.४२.४२ ॥
婆罗门啊,我正是那德叉迦!我要焚烧那位国王。请回去吧,你无法医治被我咬伤的人。
1.42.43
अहं तं नृपतिं गत्वा त्वया दष्टमपज्वरम् ।
करिष्यामीति मे बुद्धिर्विद्याबलसमन्विता ॥ १.४२.४३ ॥
我将前往那位君王处,使被你咬伤者免于高热;我的心意充满了明智的力量。