摩诃婆罗多 · 章 1.43
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.43.1
यदि दष्टं मयेह त्वं शक्तः किंचिच्चिकित्सितुम् ।
ततो वृक्षं मया दष्टमिमं जीवय काश्यप ॥ १.४३.१ ॥
若你能治愈我在此所咬之物,那么请使我所咬的这棵树复活,婆罗门迦叶波啊。
1.43.2
परं मन्त्रबलं यत्ते तद्दर्शय यतस्व च ।
न्यग्रोधमेनं धक्ष्यामि पश्यतस्ते द्विजोत्तम ॥ १.४३.२ ॥
展示你至高的咒力并尽力而为。婆罗门中最优秀者啊,就在你注视之下,我将焚烧这棵榕树。
1.43.3
दश नागेन्द्र वृक्षं त्वं यद्येतदभिमन्यसे ।
अहमेनं त्वया दष्टं जीवयिष्ये भुजंगम।
पश्य मन्त्रबलं मेऽद्य न्यग्रोधं दश पन्नग ॥ १.४३.३ ॥
蛇王啊,若你如此认为,就咬这棵树吧。蛇啊,我将使你所咬之物复活。今日请看我的咒力,蛇啊,去咬这棵榕树吧。
1.43.4
एवमुक्तः स नागेन्द्रः काश्यपेन महात्मना ।
अदशद्वृक्षमभ्येत्य न्यग्रोधं पन्नगोत्तमः ॥ १.४३.४ ॥
伟大的迦叶波如此说后,那蛇王,蛇中最优者,走近那棵榕树并咬了它。
1.43.5
स वृक्षस्तेन दष्टस्तु पन्नगेन महात्मना ।
आशीविषविषोपेतः प्रजज्वाल समन्ततः ॥ १.४३.५ ॥
那棵树被这位伟大的蛇咬中,充满了毒蛇之毒,四面八方都燃烧起来。
1.43.6
तं दग्ध्वा स नगं नागः काश्यपं पुनरब्रवीत् ।
कुरु यत्नं द्विजश्रेष्ठ जीवयैव वनस्पतिम् ॥ १.४३.६ ॥
烧毁那棵树后,那蛇又对迦叶波说:'婆罗门中最优秀者啊,请尽力,使这棵树复活吧。'
1.43.7
भस्मीभूतं ततो वृक्षं पन्नगेन्द्रस्य तेजसा ।
भस्म सर्वं समाहृत्य काश्यपो वाक्यमब्रवीत् ॥ १.४३.७ ॥
于是,蛇王的火焰将那棵树烧成了灰烬。迦叶收集了所有灰烬,说了这些话。
1.43.8
विद्याबलं पन्नगेन्द्र पश्य मेऽद्य वनस्पतौ ।
अहं संजीवयाम्येनं पश्यतस्ते भुजंगम ॥ १.४३.८ ॥
蛇王啊,今日请看我这学问之力施于此树。蛇啊,在你注视之下,我要使它复活。
1.43.9
ततः स भगवान्विद्वान्काश्यपो द्विजसत्तमः ।
भस्मराशीकृतं वृक्षं विद्यया समजीवयत् ॥ १.४३.९ ॥
于是,那位尊贵而博学的迦叶,诸再生者中最优秀的,以学问使那已成灰堆的树重新获得生命。
1.43.10
अङ्कुरं कृतवांस्तत्र ततः पर्णद्वयान्वितम् ।
पलाशिनं शाखिनं च तथा विटपिनं पुनः ॥ १.४३.१० ॥
他在那里使一根带有两片叶子的嫩芽生出;随后,树上满是波罗奢花,并有枝条和细枝。
1.43.11
तं दृष्ट्वा जीवितं वृक्षं काश्यपेन महात्मना ।
उवाच तक्षको ब्रह्मन्नैतदत्यद्भुतं त्वयि ॥ १.४३.११ ॥
见那棵树被大德迦叶重新救活,德叉迦说道:“婆罗门啊,这对你来说并不算十分奇异。”
1.43.12
द्विजेन्द्र यद्विषं हन्या मम वा मद्विधस्य वा ।
कं त्वमर्थमभिप्रेप्सुर्यासि तत्र तपोधन ॥ १.४३.१२ ॥
双生者之主啊,若我的毒液或像我这样的毒液伤害你,苦行的财富啊,你为了何种目的前往那里?
1.43.13
यत्तेऽभिलषितं प्राप्तं फलं तस्मान्नृपोत्तमात् ।
अहमेव प्रदास्यामि तत्ते यद्यपि दुर्लभम् ॥ १.४३.१३ ॥
你从那位最优秀的国王处所求的果报,虽然难以获得,我自己会赐予你。
1.43.14
विप्रशापाभिभूते च क्षीणायुषि नराधिपे ।
घटमानस्य ते विप्र सिद्धिः संशयिता भवेत् ॥ १.४३.१४ ॥
婆罗门啊,只要那位被婆罗门诅咒所困、寿命将尽的人主尚在,你的努力能否成功就变得难以确定。
1.43.15
ततो यशः प्रदीप्तं ते त्रिषु लोकेषु विश्रुतम् ।
निरंशुरिव घर्मांशुरन्तर्धानमितो व्रजेत् ॥ १.४३.१५ ॥
那时,你闻名三界的光耀名声,将如失去光芒的太阳一般从此消失。
1.43.16
धनार्थी याम्यहं तत्र तन्मे देहि भुजंगम ।
ततोऽहं विनिवर्तिष्ये स्वापतेयं प्रगृह्य वै ॥ १.४३.१६ ॥
我为求财而前往那里;蛇啊,请把那给我。然后我将取回我的财物返回。
1.43.17
यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम् ।
अहमेव प्रदास्यामि निवर्तस्व द्विजोत्तम ॥ १.४३.१७ ॥
你向国王所求的财富,我自己会给你,甚至更多;婆罗门中最优秀者啊,请返回吧。
1.43.18
तक्षकस्य वचः श्रुत्वा काश्यपो द्विजसत्तमः ।
प्रदध्यौ सुमहातेजाराजानं प्रति बुद्धिमान् ॥ १.४३.१८ ॥
迦叶婆罗门,极具威光而有智慧,听了德叉迦的话之后,便思量起国王来。
1.43.19
दिव्यज्ञानः स तेजस्वी ज्ञात्वा तं नृपतिं तदा ।
क्षीणायुषं पाण्डवेयमपावर्तत काश्यपः ॥ १.४३.१९ ॥
具神圣智慧的光辉的迦叶,那时得知国王寿命将尽,便从般度之子那里转身返回。
1.43.20
लब्ध्वा वित्तं मुनिवरस्तक्षकाद्यावदीप्सितम् ।
निवृत्ते काश्यपे तस्मिन्समयेन महात्मनि ॥ १.४३.२० ॥
最优秀的仙人从德叉迦那里获得了他所希望的全部财富;当那位伟大的迦叶依约返回之后……
1.43.21
जगाम तक्षकस्तूर्णं नगरं नागसाह्वयम् ।
अथ शुश्राव गच्छन्स तक्षको जगतीपतिम् ॥ १.४३.२१ ॥
德叉迦迅速前往名为那伽萨呼耶的城市。在途中,他听说了那位大地之主……
1.43.22
मन्त्रैर्विषहरैर्दिव्यै रक्ष्यमाणं प्रयत्नतः ।
स चिन्तयामास तदा मायायोगेन पार्थिवः ॥ १.४३.२२ ॥
国王受到驱除毒物的神圣咒语的悉心守护。德叉迦于是思量道:凭借幻术的力量……
1.43.23
मया वञ्चयितव्योऽसौ क उपायो भवेदिति ।
ततस्तापसरूपेण प्राहिणोत्स भुजंगमान् ॥ १.४३.२३ ॥
“我该如何欺骗他?可有什么计策?”如此思量之后,他化作苦行者的模样,派遣了诸蛇前往。
1.43.24
फलपत्रोदकं गृह्य राज्ञे नागोऽथ तक्षकः ।
गच्छध्वं यूयमव्यग्रा राजानं कार्यवत्तया ॥ १.४३.२४ ॥
“拿着果实、树叶和水,你们都要心平气和、带着一个目的去见国王。”那龙王德叉迦于是对它们说……
1.43.25
फलपत्रोदकं नागाः प्रतिग्राहयितुं नृपम् ।
ते तक्षकसमादिष्टास्तथा चक्रुर्भुजङ्गमाः ॥ १.४३.२५ ॥
在特叉迦的命令下,那些蛇照做了,向国王奉上果实、树叶和清水。
1.43.26
उपनिन्युस्तथा राज्ञे दर्भानम्भः फलानि च ।
तच्च सर्वं स राजेन्द्रः प्रतिजग्राह वीर्यवान् ॥ १.४३.२६ ॥
他们向国王献上吉祥草、清水和果实,那位威武的王中之王全都接受了。
1.43.27
कृत्वा तेषां च कार्याणि गम्यतामित्युवाच तान् ।
गतेषु तेषु नागेषु तापसच्छद्मरूपिषु ॥ १.४३.२७ ॥
他处理完他们的事务,对他们说:“你们可以走了。”那些化作苦行者模样的蛇离去之后,
1.43.28
अमात्यान्सुहृदश्चैव प्रोवाच स नराधिपः ।
भक्षयन्तु भवन्तो वै स्वादूनीमानि सर्वशः ॥ १.४३.२८ ॥
那位人主对他的大臣和朋友说:“请你们都吃这些甘甜的果实吧。”
1.43.29
तापसैरुपनीतानि फलानि सहिता मया ।
ततो राजा ससचिवः फलान्यादातुमैच्छत ॥ १.४३.२९ ॥
“这些由苦行者送来的果实,与我一同享用。”于是国王与大臣们便想取食那些果实。
1.43.30
विधिना संप्रयुक्तो वै ऋषिवाक्येन तेन तु ।
यस्मिन्नेव फले नागस्तमेवाभक्षयत्स्वयम् ॥ १.४३.३० ॥
受命运与那位仙人之言的驱使,国王亲自吃下了那个藏着蛇的果实。
1.43.31
ततो भक्षयतस्तस्य फलात्कृमिरभूदणुः ।
ह्रस्वकः कृष्णनयनस्ताम्रवर्णोऽथ शौनक ॥ १.४३.३१ ॥
他吃着果实时,果中生出一条小虫,身材矮小,眼睛黑色,呈铜色,啊,首诺迦。
1.43.32
स तं गृह्य नृपश्रेष्ठः सचिवानिदमब्रवीत् ।
अस्तमभ्येति सविता विषादद्य न मे भयम् ॥ १.४३.३२ ॥
这位最优秀的国王拿起它,对大臣们说:“太阳将落;今天我不怕这毒。”
1.43.33
सत्यवागस्तु स मुनिः कृमिर्मां दशतामयम् ।
तक्षको नाम भूत्वा वै तथा परिहृतं भवेत् ॥ १.४३.३३ ॥
愿那位仙人所言属实;愿这条虫以德叉迦之名咬我,如此他的话便得以应验。
1.43.34
ते चैनमन्ववर्तन्त मन्त्रिणः कालचोदिताः ।
एवमुक्त्वा स राजेन्द्रो ग्रीवायां सन्निवेश्यह ॥ १.४३.३४ ॥
受时间驱使的大臣们也跟随他。国王之主说完这些话,便把它放在脖子上。
1.43.35
कृमिकं प्राहसत्तूर्णं मुमूर्षुर्नष्टचेतनः ।
प्रहसन्नेव भोगेन तक्षकेणाभिवेष्टितः ॥ १.४३.३५ ॥
他临近死亡,神志昏迷,立刻对那条虫笑了起来;在他笑的时候,便被德叉迦的盘绕缠住了。
1.43.36
तस्मात्फलाद्विनिष्क्रम्य यत्तद्राज्ञे निवेदितम् ।
वेष्टयित्वा च भोगेन विनद्य च महास्वनम्।
अदशत्पृथिवीपालं तक्षकः पन्नगेश्वरः ॥ १.४३.३६ ॥
他从那果实中出来,正如先前告知国王的那样,缠绕住他,发出巨大的吼声,蛇王德叉迦咬了这位大地的守护者。