Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.44

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.44.1

तं तथा मन्त्रिणो दृष्ट्वा भोगेन परिवेष्टितम् ।
विषण्णवदनाः सर्वे रुरुदुर्भृशदुःखिताः ॥ १.४४.१ ॥

众大臣见他被蛇的缠绕所困,个个面容悲戚,极度哀伤地痛哭起来。

1.44.2

तं तु नागं ततो दृष्ट्वा मन्त्रिणस्ते प्रदुद्रुवुः ।
अपश्यन्त तथा यान्तमाकाशे नागमद्भुतम् ॥ १.४४.२ ॥

众大臣见到那条蛇便纷纷逃散,并看见那条奇异的蛇就这样在天空中飞去。

1.44.3

सीमन्तमिव कुर्वाणं नभसः पद्मवर्चसम् ।
तक्षकं पन्नगश्रेष्ठं भृशं शोकपरायणाः ॥ १.४४.३ ॥

如在天空上画出发缝的,莲花色的蛇中之王德叉迦;他们完全沉浸于悲痛之中。

1.44.4

ततस्तु ते तद्गृहमग्निना वृतं ।
प्रदीप्यमानं विषजेन भोगिनः।
भयात्परित्यज्य दिशः प्रपेदिरे ।
पपात तच्चाशनिताडितं यथा ॥ १.४४.४ ॥

那些蛇因恐惧而离开了那座被火包围、被毒焰燃烧的房子,四散奔逃;房子便像被雷击一样倒塌了。

1.44.5

ततो नृपे तक्षकतेजसाहते ।
प्रयुज्य सर्वाः परलोकसत्क्रियाः।
शुचिर्दिजो राजपुरोहितस्तदा ।
तथैव ते तस्य नृपस्य मन्त्रिणः ॥ १.४४.५ ॥

于是,国王被德叉迦的威力击倒后,那位清净的婆罗门、王家祭司为他举行了前往彼岸世界的一切应有仪式;那位国王的大臣们也同样如此。

1.44.6

नृपं शिशुं तस्य सुतं प्रचक्रिरे ।
समेत्य सर्वे पुरवासिनो जनाः।
नृपं यमाहुस्तममित्रघातिनं ।
कुरुप्रवीरं जनमेजयं जनाः ॥ १.४४.६ ॥

全城百姓聚集一起,立那位国王年幼的儿子为王;人们称他为遮娑耶阇耶,即灭敌者、俱卢族的英雄。

1.44.7

स बाल एवार्यमतिर्नृपोत्तमः ।
सहैव तैर्मन्त्रिपुरोहितैस्तदा।
शशास राज्यं कुरुपुंगवाग्रजो ।
यथाऽस्य वीरः प्रपितामहस्तथा ॥ १.४४.७ ॥

他虽仍是孩童,却是благородный разумом的最上等君王,与大臣和祭司一同治理王国,作为俱卢族雄牛中的长子,正如他英勇的曾祖父所做的那样。

1.44.8

ततस्तु राजानममित्रतापनं ।
समीक्ष्य ते तस्य नृपस्य मन्त्रिणः।
सुवर्णवर्माणमुपेत्य काशिप ।
वपुष्टमार्थं वरयांप्रचक्रमुः ॥ १.४४.८ ॥

于是,大臣们看到那位使敌人痛苦的国王,便走到身披金甲的国王面前,哦,迦尸之主,开始为瓦普什塔玛求婚。

1.44.9

ततः स राजा प्रददौ वपुष्टमां ।
कुरुप्रवीराय परीक्ष्य धर्मतः।
स चापि तां प्राप्य मुदा युतोऽभव-
न्न चान्यनारीषु मनो दधे क्वचित् ॥ १.४४.९ ॥

于是那位国王依法考察之后,将瓦普什塔玛许配给俱卢族中的第一勇士。他得到她后也十分欢喜,从此不曾把心思放在其他女子身上。

1.44.10

सरःसु फुल्लेषु वनेषु चैव ।
प्रसन्नचेता विजहार वीर्यवान्।
तथा स राजन्यवरो विजह्रिवान् ।
यथोर्वशीं प्राप्य पुरा पुरूरवाः ॥ १.४४.१० ॥

这位勇猛之人在盛开的湖泊和森林中心情愉悦地游乐。那位最优秀的君王也如此游乐,正如往昔补卢罗婆得到乌尔瓦希之后那样。

1.44.11

वपुष्टमा चापि वरं पतिव्रता ।
प्रतीतरूपा समवाप्य भूपतिम्।
भावेन रामा रमयांबभूव तं ।
विहारकालेष्ववरोधसुन्दरी ॥ १.४४.११ ॥

瓦普什塔玛也作为忠于优秀丈夫的贤妻,以其著名的美貌,得到那位地上之主后,以深情使他欢愉;在游乐的时候,她是后宫中的美人。