摩诃婆罗多 · 章 1.45
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.45.1
एतस्मिन्नेव काले तु जरत्कारुर्महातपाः ।
चचार पृथिवीं कृत्स्नां यत्रसायंगृहो मुनिः ॥ १.४५.१ ॥
此时,大苦行者Jaratkāru正游历整个大地,这位圣人以日暮所至之处为家。
1.45.2
चरन्दीक्षां महातेजा दुश्चरामकृतात्मभिः ।
तीर्थेष्वाप्लवनं कुर्वन्पुण्येषु विचचार ह ॥ १.४५.२ ॥
他奉持对未克制自我者而言甚为艰难的誓戒,这位大光明者在圣渡口沐浴,四处游行。
1.45.3
वायुभक्षो निराहारः शुष्यन्नहरहर्मुनिः ।
सं ददर्श पितॄन्गर्ते लम्बमानानधोमुखान् ॥ १.४५.३ ॥
这位圣人只以空气为食,绝食不饮,日渐消瘦,他看见祖先们头朝下倒悬在一个坑中。
1.45.4
एकतन्त्ववशिष्टं वै वीरणस्तम्बमाश्रितान् ।
तं तन्तुं च शनैराखुमाददानं बिलेशयम् ॥ १.४५.४ ॥
他们紧抓着一根只剩一缕丝相连的维罗那草秆;而那缕丝正被住在洞穴里的老鼠慢慢啃咬。
1.45.5
निराहारान्कृशान्दीनान्गर्ते स्वत्राणमिच्छतः ।
उपसृत्य स तान्दीनान्दीनरूपोऽभ्यभाषत ॥ १.४५.५ ॥
他走近坑中那些憔悴、饥饿、困苦、渴望自救的先祖,也以困苦的形貌向他们说话。
1.45.6
के भवन्तोऽवलम्बन्ते वीरमस्तम्बमाश्रिताः ।
दुर्बलं खादितैर्मूलैराखुना बिलवासिना ॥ १.४५.६ ॥
你们是谁?悬挂在被住在洞穴里的老鼠咬坏了根的维罗草秆上?
1.45.7
वीरणस्तम्बके मूलं यदप्येकमिह स्थितम् ।
तद्भप्ययं शनैराखुरादत्ते दशनैः शितैः ॥ १.४५.७ ॥
即使是这里维罗那草丛中残存的那一根根须,老鼠也用它锋利的牙齿慢慢地啃噬着。
1.45.8
छेत्स्यतेऽल्पावशिष्टत्वादेतदप्यचिरादिव ।
ततस्तु पतितारोऽत्र गर्ते व्यक्तमधोमुखाः ॥ १.४५.८ ॥
因为所剩无几,这根也很快会被咬断;那时你们将在这坑中头朝下明显地跌落。
1.45.9
अत्र मे दुःखमुत्पन्नं दृष्ट्वा युष्मानधोमुखान् ।
कृच्छ्रामापदमापन्नान्प्रियं किं करवाणि वः ॥ १.४५.९ ॥
见你们在此头朝下,陷入艰难的灾难之中,我心中生出了悲痛。我该为你们做什么令你们欢喜的事呢?
1.45.10
तपसोऽस्य चतुर्थेन तृतीयेनाथ वा पुनः ।
अर्धेन वापि निस्तर्तुमापदं ब्रूत मा चिरम् ॥ १.४५.१० ॥
用我这苦行的四分之一、三分之一,甚至一半,你们能否脱离这灾难?请不要迟疑,快说吧。
1.45.11
अथवापि समग्रेण तरन्तु तपसा मम ।
भवन्तः सर्व एवेह काममेवं विधीयताम् ॥ १.४५.११ ॥
或者,以我全部的苦行,让你们所有人都从此处脱离出去。就照你们的心愿去安排吧。
1.45.12
कुतो भवान्ब्रह्मचारी यो नस्त्रातुमिहेच्छसि ।
न तु विप्राग्र्य तपसा शक्यमेतद्व्यपोहितुम् ॥ १.४५.१२ ॥
你这梵行者从何而来,想在此救我们?婆罗门中最优秀的人啊,仅凭苦行是无法消除这灾难的。
1.45.13
अस्ति नस्तात तपसः फलं प्रवदतां वर ।
संतानप्रक्षयाद्ब्रह्मन्पतामो निरयेऽशुचौ ॥ १.४५.१३ ॥
孩子啊,言者中最优秀的,我们确有苦行的果报。婆罗门啊,因后嗣完全断绝,我们正堕入不净的地狱。
1.45.14
सन्तानं हि परो धर्मं एवमाह पितामहः ।
लम्बतामिह नस्तात न ज्ञानं प्रतिभाति वै ॥ १.४५.१४ ॥
祖父曾说,子嗣是最高的法。孩子啊,我们在此倒悬;智慧不能在我们心中显现。
1.45.15
येन त्वां नाभिजानीमो लोके विख्यातपौरुषम् ।
वृद्धो भवान्महाभागोयोनः शोच्यान्सुदुःखितान ॥ १.४५.१५ ॥
因我们不知您是世上以威德著称之人,您年高而大有福分,请看我们这些值得怜悯、极度痛苦之人。
1.45.16
शोचते चैव कारुण्याच्छृणु ये वै वयं द्विज ।
यायावरा नाम वयमृषयः संशितव्रताः ॥ १.४५.१६ ॥
他因怜悯而悲伤。再生者啊,请听:我们是名为耶耶伐罗的仙人,持守严厉的誓愿。
1.45.17
लोकात्पुम्यादिह भ्रष्टाः सन्तानप्रक्षयान्मुने ।
प्रणष्टं नस्तपस्तीव्रं न हि नस्तन्तुरस्ति वै ॥ १.४५.१७ ॥
仙人啊,因后嗣完全断绝,我们已从福德之界堕落于此。我们猛烈的苦行已经失去,我们的宗嗣之线确实已不存在。
1.45.18
अस्तित्वेकोऽद्य नस्तन्तुः सोऽपि नास्ति यथा तथा ।
मन्दभाग्योऽल्पभाग्यानां तप एकं समास्थितः ॥ १.४५.१८ ॥
今日我们的宗嗣只剩一根细线,而这一线也如同不存在。对于命运不济、福分微薄的人,苦行便是他们唯一所依。
1.45.19
जरत्कारुरिति ख्यातो वेदवेदाङ्गपारगः ।
नियतात्मा महात्मा च सुव्रतः सुमहातपाः ॥ १.४५.१९ ॥
他名为阇罗特迦娄,精通吠陀及其支分,克己自持,大德,持守坚定的誓愿,修行极为深厚。
1.45.20
तेन स्म तपसो लोभात्कृच्छ्रमापादिता वयम् ।
न तस्य भार्या पुत्रो वा बान्धवो वाऽस्ति कश्चन ॥ १.४५.२० ॥
因为贪恋他的苦行,我们才落入这般困境。他既无妻子,也无儿子,亦无任何亲属。
1.45.21
तस्माल्लम्बामहे गर्ते नष्टसंज्ञा ह्यनाथवत् ।
स वक्तव्यस्त्वया दृष्टो ह्यस्माकं नाथवत्तया ॥ १.४५.२१ ॥
因此我们失去知觉,像无人庇护者一样悬挂在这坑中。若你见到他,须告诉他,要做我们的依靠。
1.45.22
पितरस्तेऽवलम्बन्ते गर्ते दीना अधोमुखाः ।
साधु दारान्कुरुष्वेति प्रजायस्वेति चाभि भोः ॥ १.४५.२२ ॥
你的祖先悲苦地倒悬在坑中。请告诉他:「好好地娶妻,生育子嗣。」善人啊。
1.45.23
कुलतन्तुर्हि नः शिष्टः स एकैकस्तपोधन ।
यं तु पश्यसि नो ब्रह्मन्वीरणस्तम्बमाश्रयम् ॥ १.४५.२३ ॥
我们家族的血脉只在他一人身上留存,苦行的宝藏啊。婆罗门啊,你所见抓着毗罗那草丛的那人,正是他。
1.45.24
एषोऽस्माकं कुलस्तम्ब आस्ते स्वकुलवर्धनः ।
यानि पश्यसि वै ब्रह्मन्मूलानीहास्य वीरुधः ॥ १.४५.२४ ॥
此人是我们家族的支柱,是增长自家门第之人。婆罗门啊,你在此看到的他的根与蔓藤——
1.45.25
एते नस्तन्तवस्तात कालेन परिभक्षिताः ।
यत्त्वेतत्पश्यसि ब्रह्मन्मूलमस्यार्धभक्षितम् ॥ १.४५.२५ ॥
亲爱的孩子,我们这些线缕已被时间完全吞噬;婆罗门啊,你所见的这根,已被吃掉一半。
1.45.26
यत्र लम्बामहे गर्ते सोऽप्येकस्तप आस्थितः ।
यमाखुं पश्यसि ब्रह्मन्काल एष महाबलः ॥ १.४५.२६ ॥
在我们悬挂的坑中,也有一人已投身苦行。婆罗门啊,你所见的阎摩之鼠,就是这“时间”,它极为强大。
1.45.27
स तं तपोरतं मन्दं शनैः क्षपयते तुदन् ।
जरत्कारुं तपोलुब्धं मन्दात्मानमचेतसम् ॥ १.४५.२७ ॥
他缓慢地侵蚀那专注苦行之人,啃噬着他:贪恋苦行、心智迟钝而昏昧的遮罗特卡茹。
1.45.28
न हि नस्तत्तपस्तस्य तारयिष्यति सत्तम ।
छिन्नमूलान्परिभ्रष्टान्कालोपहतचेतसः ॥ १.४५.२८ ॥
善人中的最上者啊,他的苦行不能救度我们——根已断绝、堕落、心被时间所伤的我们。
1.45.29
अधः प्रविष्टान्पश्यास्मान्यथा दुष्कृतिनस्तथा ।
अस्मासु पतितेष्वत्र सह सर्वैः सबान्धवैः ॥ १.४५.२९ ॥
看我们坠落在下方,如同作恶之人坠落。我们在此坠落时,与所有亲属一起,
1.45.30
छिन्नः कालेन सोऽप्यत्र गन्ता वै नरकं ततः ।
तपो वाऽप्यथ चा यज्ञो यच्चान्यत्पावनं महत् ॥ १.४५.३० ॥
被时间斩断的他,也必将从此堕入地狱。苦行、祭祀,或任何其他伟大的净化之行——
1.45.31
तत्सर्वं न समं तात संतत्येति सतां मतम् ।
स तात दृष्ट्वा ब्रूयास्तं जरत्कारुं तपोधन ॥ १.४५.३१ ॥
亲爱的孩子,那一切都不及子嗣;这是善人的看法。苦行之财啊,你看到之后,应当告诉耆羅迦鲁。
1.45.32
यथा दृष्टमिदं चात्र त्वयाऽऽख्येयमशेषतः ।
यथा दारान्प्रकुर्यात्स पुत्रानुत्पादयेद्यथा ॥ १.४५.३२ ॥
你在这里所见的,都应完整地告诉他,以及他应当如何娶妻生子。
1.45.33
वा ब्रह्मंस्त्वया वाच्यः सोऽस्माकं नाथवत्तया ।
बान्धवानां हितस्येह यथा चात्मकुलं तथा ॥ १.४५.३३ ॥
或者,婆罗门啊,你应当对他说:他对我们应如有依靠者一样;为了这里亲属的福祉,也为了他自己的家族。
1.45.34
कस्त्वं बन्धुमिवास्माकमनुशोचसि सत्तम ।
श्रोतुमिच्छाम सर्वेषां को भवानिह तिष्ठति ॥ १.४५.३४ ॥
善人中最优秀的人啊,你为我们悲伤,就像我们的亲人一样,你是谁?我们都想听听站在这里的你是谁。