摩诃婆罗多 · 章 1.46
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.46.1
एतच्छ्रुत्वा जरत्कारुर्भृशं शोकपरायणः ।
उवाच तान्पितॄन्दुःखाद्बाष्पसंदिग्धया गिरा ॥ १.४६.१ ॥
闻此,极度悲伤的遮罗迦卢对那些祖先说话,声音因悲痛而哽咽。
1.46.2
मम पूर्वे भवन्तो वै पितरः सपितामहाः ।
तद्ब्रूत यन्मया कार्यं भवतां प्रियकाम्यया ॥ १.४६.२ ॥
我的先祖们,你们确实是我的父亲和祖父。请告诉我,为了让你们欢喜,我应当做什么。
1.46.3
अहमेव जरत्कारुः किल्बिषी भवतां सुतः ।
ते दण्डं धारयत मे दुष्कृतेरकृतात्मनः ॥ १.४६.३ ॥
我正是遮罗迦卢,你们有罪的儿子。请你们因我的恶行而惩罚我这个心未修炼的人。
1.46.4
पुत्र दिष्ट्याऽसि संप्राप्त इमं देशं यदृच्छया ।
किमर्थं च त्वया ब्रह्मन्न कृतो दारसङ्ग्रहः ॥ १.४६.४ ॥
孩子,幸运的是你偶然来到了此地。但婆罗门啊,你为何没有娶妻?
1.46.5
ममायं पितरो नित्यं हृद्यर्थः परिवर्तते ।
ऊर्ध्वरेताः शरीरं वै प्रापयेयममुत्र वै ॥ १.४६.५ ॥
诸位先祖,我心中的这一志向始终不变:以精液上行之道,我将以此身抵达彼岸之世界。
1.46.6
न दारान्वै करिष्येऽहमिति मे भावितं मनः ।
एवं दृष्ट्वा तु भवतः शकुन्तानिव लम्बतः ॥ १.४६.६ ॥
我心已决,我将不娶妻。然而见你们如鸟般倒悬——
1.46.7
मया निवर्तिता बुद्धिर्ब्रह्मचर्यात्पितामहाः ।
करिष्ये वः प्रियं कामं निवेक्ष्येऽहमसंशयम् ॥ १.४६.७ ॥
诸位祖先啊,我已将心从梵行中转开。我将满足你们所喜爱的愿望;毫无疑问,我将成婚。
1.46.8
सनाम्नीं यद्यहं कन्यामुपलप्स्ये कदाचन ।
भविष्यति च या काचिद्भैक्ष्यवत्स्वयमुद्यता ॥ १.४६.८ ॥
若我曾得到一位同名的少女,以及任何如施舍般自愿献身的女子……
1.46.9
प्रतिग्रहीता तामस्मि न भरेयं च यामहम् ।
एवंविधमहं कुर्यां निवेशं प्राप्नुयां यदि।
अन्यथा न करिष्येऽहं सत्यमेतत्पितामहाः ॥ १.४६.९ ॥
我会接纳她,但我不会供养她。若我得到这样的婚姻,我便如此行事;否则我不会这样做。诸位祖先,这是真实的。
1.46.10
तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वै ।
शाश्वताश्चाव्ययाश्चैव तिष्ठन्तु पितरो मम ॥ १.४६.१० ॥
那里,为了你们的解脱,必定会诞生一个生灵。愿我的祖先永恒不灭地长存。
1.46.11
एवमुक्त्वा तु स पितॄंश्चचार पृथिवी मुनिः ।
न च स्म लभते भार्यां वृद्धोऽयमिति शानक ॥ १.४६.११ ॥
说完这些,那位仙人便与祖先们游历大地。啊,舍那迦,他没有娶到妻子,因为人们认为:“这人年老了。”
1.46.12
यदा निर्वेदमापन्नः पितृभिश्चोदिस्तथा ।
तदाऽरण्यं स गत्वोच्चैश्चुक्रोश भृशदुःखितः ॥ १.४६.१२ ॥
当他陷入绝望,祖先们也如此督促他时,他极度悲伤地走进森林,大声哭喊。
1.46.13
सत्वरण्यगतः प्राज्ञः पितॄणा हितकाम्यया ।
उवाच कन्यां याचामि तिस्रो वाचः शनैरिमाः ॥ १.४६.१३ ॥
智者出于对祖先福祉的愿望,走入森林,轻声说出这三句话:“我请求一位少女。”
1.46.14
यानि भूतानि सन्तीह स्थावराणि चराणि च ।
अन्तर्हितानि वा यानि तानि शृण्वन्तु मे वचः ॥ १.४६.१४ ॥
此处所有生灵,无论静止的还是行动的,以及隐藏的,请听我的话。
1.46.15
उग्रे तपसि वर्तन्तं पितरश्चोदयन्ति माम् ।
निविशस्वेति दुःखार्ताः सन्तानस्य चिकीर्षया ॥ १.४६.१५ ॥
我正修严苛的苦行,祖先们因悲苦而催促我说:“安家吧”,愿望后嗣得以延续。
1.46.16
निवेशायाखिलां भूमिं कन्याभैक्ष्यं चरामि भोः ।
दरिद्रो दुःखशीलश्च पितृभिः सन्नियोजितः ॥ १.४६.१६ ॥
为了安家,我走遍大地乞求少女,诸位听者啊。我贫穷而性情忧郁,祖先们派我承担此事。
1.46.17
यस्य कन्याऽस्ति भूतस्य ये मयेह प्रकीर्तिताः ।
ते मे कन्यां प्रयच्छन्तु चरतः सर्वतोदिशम् ॥ १.४६.१७ ॥
凡有女儿者,以及我在此提到的诸位,请把少女给予我这位游走四方者。
1.46.18
मम कन्या सनाम्नी या भैक्ष्यवच्चोदिता भवेत् ।
भरेयं चैव यां नाहं तां मे कन्यां प्रयच्छत ॥ १.४६.१८ ॥
请把与我同名的女儿,作为施舍之物给我,我不必去供养的那位少女,给予我吧。
1.46.19
ततस्ते पन्नगा ये वै जरत्कारौ समाहिताः ।
तामादाय प्रवृत्तिं ते वासुकेः प्रत्यवेदयन् ॥ १.४६.१९ ॥
于是那些心系 Jaratkāru 的蛇将她带走,并把这一消息报告给了 Vāsuki。
1.46.20
तेषां श्रुत्वा स नागेन्द्रस्तां कन्यां समलङ्कृताम् ।
प्रगृह्यारण्यमगमत्समीपं तस्य पन्नगः ॥ १.४६.२० ॥
那蛇王听了他们的话,牵起那位装饰华丽的少女,前往他附近的森林。
1.46.21
तत्र तां भैक्ष्यवत्कन्यां प्रादात्तस्मै महात्मने ।
नागेन्द्रो वासुकिर्ब्रह्मन्न स तां प्रत्यगृह्णत ॥ १.४६.२१ ॥
那里,蛇王 Vāsuki 将那位少女如施舍一般交给了那位大德;然而,婆罗门啊,他并没有接受她。
1.46.22
असनामेति वै मत्वा भरणे चाविचारिते ।
मोक्षभावे स्थितश्चापि मन्दीभूतः परिग्रहे ॥ १.४६.२२ ॥
他以为:“她不是同名之人”,又未考虑供养之事,便安住于解脱之境,对于接纳她也懈怠了。
1.46.23
ततो नाम स कन्यायाः पप्रच्छ भृगुनन्दन ।
वासुकिं भरणं चास्या न कुर्यामित्युवाच ह ॥ १.४६.२३ ॥
于是他询问那位少女的名字,婆利固之子啊,并对 Vāsuki 说:“我不会供养她。”