Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.47

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.47.1

वासुकिस्त्वब्रवीद्वाक्यं जरत्कारुमृषिं तदा ।
सनाम्नी तव कन्येयं स्वसा मे तपसान्विता ॥ १.४७.१ ॥

那时,婆苏吉对仙人遮罗特卡鲁说道:“这位与你同名的少女是我的妹妹,她具足苦行。”

1.47.2

भरिष्यामि च ते भार्यां प्रतीच्छेमां द्विजोत्तम ।
रक्षणं च करिष्येऽस्याः सर्वशक्त्या तपोधन।
त्वदर्थं रक्ष्यते चैषा मया मुनिवरोत्तम ॥ १.४७.२ ॥

“二生者中最殊胜的人啊,我将供养你的妻子;请接受她。苦行为财富的你啊,我将以全部力量保护她。诸大仙中最殊胜的人啊,我为你而保护她。”

1.47.3

न भरिष्येऽहमेतां वै एष मे समयः कृतः ।
अप्रियं च न कर्तव्यं कृते चैनां त्यजाम्यहम् ॥ १.४७.३ ॥

“我不会供养她;这是我定下的条件。不可做任何令人不快的事;若做了,我便会抛弃她。”

1.47.4

प्रतिश्रुते तु नागेन भरिष्ये भगिनीमिति ।
जरत्कारुस्तदा वेश्म भुजगस्य जगाम ह ॥ १.४७.४ ॥

那龙王许诺说:“我将供养妹妹。”于是遮罗特卡鲁便前往那蛇的居所。

1.47.5

तत्र मन्त्रविदां श्रेष्ठस्तपोवृद्धो महाव्रतः ।
जग्राह पाणिं धर्मात्मा विधिमन्त्रपुरस्कृतम् ॥ १.४७.५ ॥

在那里,诵咒者中最殊胜的、苦行年高的、持大誓的、心怀正法的他,依照仪轨并以咒语,握住了她的手。

1.47.6

ततो वासगृहं रम्यं पन्नगेन्द्रस्य संमतम् ।
जगाम भार्याम दाय स्तूयमानो महर्षिभिः ॥ १.४७.६ ॥

随后,他带着妻子走向蛇王所许可的那座可爱的洞房,受到诸大仙的赞颂。

1.47.7

शयनं तत्र संक्लृप्तं स्पर्ध्यास्तरणसंवृतम् ।
तत्र भार्यासहायो वै जरत्कारुरुवास ह ॥ १.४७.७ ॥

那里准备好了一张铺着华美褥子的床,耆罗特卡卢与妻子一同住在那里。

1.47.8

स तत्र समयं चक्रे भार्यया सह सत्तमः ।
विप्रियं मे न कर्तव्यं न च वाच्यं कदाचन ॥ १.४७.८ ॥

那位最优秀的贤者在那里与妻子约定:"你不可做令我不悦之事,也永远不可说出此事。"

1.47.9

त्यजेयं विप्रिये च त्वां कृते वासं च ते गृहे ।
एतद्गृहाण वचनं मया यत्समुदीरितम् ॥ १.४७.९ ॥

你若做令我不悦之事,我便弃你,你在我家的居所也将终止。请接受我所说的这句话。

1.47.10

ततः परमसंविग्ना स्वसा नागपतेस्तदा ।
अतिदुःखान्विता वाक्यं तमुवाचैवमस्त्विति ॥ १.४७.१० ॥

那时,蛇王的妹妹极为忧惧,满怀深深的悲伤,对他这样说道:"就这样吧。"

1.47.11

तथैव सा च भर्तारं दुःखशीलमुपचारत् ।
उपायैः श्वेतकाकीयैः प्रियकामा यशस्विनी ॥ १.४७.११ ॥

这位名声显赫的妇人同样侍奉那性情忧郁的丈夫,她想要令他欢喜,便以温和的方式使他安心。

1.47.12

ऋतुकाले ततः स्नाता कदाचिद्वासुकेः स्वसा ।
भर्तारं वै यथान्यायमुपतस्थे महामुनिम् ॥ १.४७.१२ ॥

后来有一次,在她的月经之后沐浴完毕,婆苏吉的妹妹依礼走近她那位大仙丈夫,侍奉于他。

1.47.13

तत्र तस्याः समभवद्गर्भो ज्वलनसन्निभः ।
अतीव तेजसा युक्तो वैश्वानरसमद्युतिः ॥ १.४७.१३ ॥

在那里,她孕育了一个如同烈火的胎儿,充满极大的光辉,光彩与火神毗首那相等。

1.47.14

शुक्लपक्षे यथा सोमो व्यवर्धत तथैव सः ।
ततः कतिपयाहस्तु जरत्कारुर्महायशाः ॥ १.४७.१४ ॥

如同月亮在白半月中渐长,他也这样成长。过了几天,声名远扬的遮罗特迦如...

1.47.15

उत्सङ्गेऽस्याः शिरः कृत्वा सुष्वाप परिखिन्नवत् ।
तस्मिंश्च सुप्ते विप्रेन्द्रे सवितास्तमियाद्गिरिम् ॥ १.४७.१५ ॥

他把头枕在她的膝上,像疲惫了一般睡去。那位最杰出的婆罗门正在沉睡之时,太阳即将落在山后。

1.47.16

अह्नः परिक्षये ब्रह्मंस्ततः साऽचिन्तयत्तदा ।
वासुकेर्भगिनी भीता धर्मलोपान्मनस्विनी ॥ १.४७.१६ ॥

婆罗门啊,在日暮之时,瓦苏吉的妹妹因害怕违背法度而惊惧,这位有智慧的女子开始沉思。

1.47.17

किं नु मे सुकृतं भूयाद्भर्तुरुत्थापनं न वा ।
दुःखशीलो हि धर्मात्मा कथं नास्यापराध्नुयाम् ॥ १.४७.१७ ॥

唤醒丈夫对我而言是善行还是不是?他心地正直,却性情严厉;我怎能不冒犯他呢?

1.47.18

कोपो वा धर्मशीलस्य धर्मलोपोऽथवा पुनः ।
धर्मलोपो गरीयान्वै स्यादित्यत्राकरोन्मतिम् ॥ १.४७.१८ ॥

是праведник的愤怒,还是再次违背法度?违背法度无疑更为严重,于是她拿定了主意。

1.47.19

उत्थापयिष्ये यद्येनं ध्रुवं कोपं करिष्यति ।
धर्मलोपो भवेदस्य सन्ध्यातिक्रमणे ध्रुवम् ॥ १.४७.१९ ॥

若我唤醒他,他必定震怒;若违犯晨昏之祭(sandhyā),他的法(dharma)必定受损。

1.47.20

इति निश्चित्य मनसा जरत्कारुर्भुजंगमा ।
तमृषिं दीप्ततपसं शयानमनलोपमम् ॥ १.४७.२० ॥

如此在心中决定之后,耆罗迦卢(Jaratkāru)看见那位以苦行而光辉的仙人,正如火焰般地睡卧着。

1.47.21

उवाचेदं वचः श्लक्ष्णं ततो मधुरभाषिणी ।
उत्तिष्ठ त्वं महाभाग सूर्योऽस्तमुपगच्छति ॥ १.४७.२१ ॥

于是这位言语甜美的女子温和地说道:“起来吧,大福之人;太阳正要落山了。”

1.47.22

सन्ध्यामुपास्स्व भगवन्नपः स्पृष्ट्वा यतव्रतः ।
प्रादुष्कृताग्निहोत्रोऽयं मुहूर्तो रम्यदारुणः ॥ १.४७.२२ ॥

尊者啊,请触水,持守誓愿,修行晨昏之祭(sandhyā)。此刻正是点燃阿耆尼火祭(agnihotra)之时,既美好又可怖。

1.47.23

सन्ध्या प्रवर्तते चेयं पश्चिमायां दिशि प्रभो ।
एवमुक्तः स भगवाञ्जरत्कारुर्महातपाः ॥ १.४७.२३ ॥

“主啊,晨昏之时正从西方降临。”如此被告知后,那位大苦行者、尊贵的耆罗迦卢,

1.47.24

भार्यां प्रस्फुरमाणौष्ठ इदं वचनमब्रवीत् ।
अवमानः प्रयुक्तोऽयं त्वया मम भुजंगमे ॥ १.४७.२४ ॥

他嘴唇颤抖,对妻子说道:“蛇女啊,你对我犯下了这样的冒犯。”

1.47.25

समीपे ते न वत्स्यामि गमिष्यामि यथागतम् ।
शक्तिरस्ति न वामोरु मयि सुप्ते विभावसोः ॥ १.४७.२५ ॥

美股之女啊,我不会住在你身边,我将如来时一般离去。火神毗婆娑睡着时,我身中并无此力。

1.47.26

अस्तं गन्तुं यथाकालमिति मे हृदि वर्तते ।
न चाप्यवमतस्येह वासो रोचेत कस्यचित् ॥ १.४७.२६ ॥

我心中所想,是应在适当时候离去。被轻慢之人住在此处,也无人会乐意。

1.47.27

किं पुनर्धर्मशीलस्य मम वा मद्विधस्य वा ।
एवमुक्ता जरत्कारुर्भर्त्रा हृदयकम्पनम् ॥ १.४७.२७ ॥

何况如我这般守法之人,或与我相似之人!丈夫如此说,使她心为之颤抖,遂令jaratkāru(战栗)。

1.47.28

अब्रवीद्भगिनी तत्र वासुकेः सन्निवेशने ।
नावमानात्कृतवती तवाहं विप्रे बोधनम् ॥ १.४७.२८ ॥

在婆苏吉的居所中,他的姐姐说道:「婆罗门啊,我这样做并非出于轻慢,而是为了提醒你。」

1.47.29

धर्मलोपो न ते विप्र स्यादित्येतन्मया कृतम् ।
उवाच भार्यामित्युक्तो जरत्कारुर्महातपाः ॥ १.४७.२९ ॥

「婆罗门啊,为使你的法不致有所亏损,我才这样做。」如此被告知后,大苦行者jaratkāru对妻子说道。

1.47.30

ऋषिः कोपसमाविष्टस्त्यक्तुकामो भुजंगमाम् ।
न मे वागनृतं प्राह गमिष्येऽहं भुजंगमे ॥ १.४७.३० ॥

这位被愤怒所占据、想要抛弃蛇女的仙人说道:「我的言语从未说过虚妄之语。蛇女啊,我将离去。」

1.47.31

समयो ह्येष मे पूर्वं त्वया सह मिथः कृतः ।
सुखमस्म्युषितो भद्रे ब्रूयास्त्वं भ्रातरं शुभे ॥ १.४७.३१ ॥

这是我们先前彼此约定的条件。吉祥的女子啊,我过得很快乐。美丽的女子啊,你应当把这话告诉你的兄长。

1.47.32

इतो मयि गते भीरु गतः स भगवानिति ।
त्वं चापि मयि निष्क्रान्ते न शोकं कर्तुमर्हसि ॥ १.४७.३२ ॥

胆怯的女子啊,我离开此地之后,你就说:‘那位尊者已经离去了。’我离开之后,你也不应当悲伤。

1.47.33

इत्युक्ता साऽनवद्याङ्गी प्रत्युवाच मुनिं तदा ।
जरत्कारुं जरत्कारुश्चिन्ताशोकपरायणा ॥ १.४७.३३ ॥

那位肢体无瑕的女子听到这话后,便对仙人作答——她就是陷入忧虑与悲伤之中的遮罗特卡鲁。

1.47.34

बाष्पगद्गदया वाचा मुखेन परिशुष्यता ।
कृताञ्जलिर्वरारोहा पर्यश्रुनयना ततः ॥ १.४७.३४ ॥

她的声音因泪水哽咽,面容憔悴,合掌恭敬,这位细腰美妇眼中含满泪水而说道。

1.47.35

धैर्यमालम्ब्य वामोरूर्हृदयेन प्रवेपता ।
न मामर्हसि धर्मज्ञ परित्यक्तुमनागसम् ॥ १.४७.३५ ॥

她强忍勇气,心中颤抖地说道:精通法度的尊者啊,抛弃我这无辜之人,于你不合适。

1.47.36

धर्मे स्थितां स्थितो धर्मे सदा प्रियहिते रताम् ।
प्रदाने कारणं यच्च मम तुभ्यं द्विजोत्तम ॥ १.४७.३६ ॥

你安住于法,我也始终安住于法,致力于亲人的福祉;至于我之所以被交付给你的缘由,哦,婆罗门中最优秀者。

1.47.37

तदलब्धवतीं मन्दां किं मां वक्ष्यति वासुकिः ।
मातृशापाभिभूतानां ज्ञातीनां मम सत्तम ॥ १.४७.३७ ॥

那么,对于这位未能得到(所愿)的不幸女子,婆苏吉会对我说什么呢?还有我那些被母亲诅咒所压制的亲族,哦,善人中最优秀者。

1.47.38

अपत्यमीप्सितं त्वत्तस्तच्च तावन्न दृश्यते ।
त्वत्तो ह्यपत्यलाभेन ज्ञातीनां मे शिवं भवेत् ॥ १.४७.३८ ॥

你所期望的子嗣至今尚未出现。唯有从你那里得到子嗣,我的亲族才会得到福祉。

1.47.39

संप्रयोगो भवेन्नायां मम मोघस्त्वया द्विज ।
ज्ञातीनां हितमिच्छन्ती भगवंस्त्वां प्रसादये ॥ १.४७.३९ ॥

婆罗门啊,在此情形下愿我们的结合不会徒劳。我渴望亲族的福祉,哦,尊者,我恳求你。

1.47.40

इममव्यक्तरूपं मे गर्भमाधाय सत्तम ।
कथं त्यक्त्वा महात्मा सन्गन्तुमिच्छस्यनागसम् ॥ १.४७.४० ॥

哦,善人中最优秀者,你在我腹中种下这尚无形态的胎儿,身为大德之人,怎能抛弃我这无辜之人而离去呢?

1.47.41

एवमुक्तस्तु स मुनिर्भार्यां वचनमब्रवीत् ।
यद्युक्तमनुरूपं च जरत्कारुं तपोधनः ॥ १.४७.४१ ॥

被这样说之后,以苦行为财富的仙人遮罗迦卢对他的妻子说了这些话,如果它们是恰当而适宜的。

1.47.42

अस्त्ययं सुभगे गर्भस्तव वैश्वानरोपमः ।
ऋषिः परमधर्मात्मा वेदवेदाङ्गपारगः ॥ १.४७.४२ ॥

哦,有福之人,你腹中有一位如火一般的仙人,精神至高正法,精通吠陀及其支分。

1.47.43

एवमुक्त्वा स धर्मात्मा जरत्कारुर्महानृषिः ।
उग्राय तपसे भूयो जगाम कृतनिश्चयः ॥ १.४७.४३ ॥

说完这话,正法心的大仙人遮罗特卡茹决心已定,再次前往严酷的苦行。