摩诃婆罗多 · 章 1.51
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.51.1
एवमुक्त्वा ततः श्रीमान्मन्त्रिभिश्चानुमीदितः ।
आरुरोह प्रतिज्ञां स सर्पसत्राय पार्थिवः ॥ १.५१.१ ॥
国王言罢,得到大臣们的赞同,便发愿举行蛇祭。
1.51.2
ब्रह्मन्भरतशार्दूलो राजा पारिक्षितस्तदा ।
पुरोहितमथाहूय ऋत्विजो वसुधाधिपः ॥ १.५१.२ ॥
婆罗门啊!婆罗多族中的猛虎,即帕里克希特王,于是召来了主祭司和祭司们,这位大地之主……
1.51.3
अब्रवीद्वाक्यसंपन्नः कार्यसंपत्करं वचः ।
यो मे हिंसितवांस्तातं तक्षकः स दुरात्मवान् ॥ १.५१.३ ॥
这位善于言辞、能成事的国王说道:“杀害我父亲的德叉迦,是个心地邪恶的人。”
1.51.4
प्रतिकुर्यां यथा तस्य तद्भवन्तो ब्रुवन्तु मे ।
अपि तत्कर्म विदितं भवतां येन पन्नगम् ॥ १.५१.४ ॥
请你们告诉我,我该如何报复他。你们可知道那种能让此蛇……的仪式?
1.51.5
तक्षकं संप्रदीप्तेऽग्नौ प्रक्षिपेयं सबान्धवम् ।
यथा तेन पिता मह्यं पूर्वं दग्धो विषाग्निना
तथाऽहमपि तं पापं दग्धुमिच्छामि पन्नगम् ॥ १.५१.५ ॥
我要把德叉迦连同他的亲属投入熊熊烈火之中,正如他从前用毒火焚烧我的父亲一样,我也想焚烧那个罪恶的蛇。
1.51.6
अस्ति राजन्महात्सत्रं त्वदर्थं देवनिर्मितम् ।
सर्वसत्रमिति ख्यातं पुराणे परिपठ्यते ॥ १.५१.६ ॥
国王啊,有一场由诸神为你而设的大祭祀,名为“一切祭”,在往世书中有所记载。
1.51.7
आहर्ता तस्य सत्रस्य त्वन्नान्योऽस्ति नराधिप ।
इति पौराणिकाः प्राहुरस्माकं चास्ति स क्रतुः ॥ १.५१.७ ॥
人主啊,那场祭祀的主持者除你之外再无他人,诸位往世书诵者如此说;而那场祭祀也属于我们。
1.51.8
एवमुक्तः स राजर्षिर्मेने दग्धं हि तक्षकम् ।
हुताशनमुखे दीप्ते प्रविष्टमिति सत्तम ॥ १.५१.८ ॥
被如此告知后,那位王仙相信德叉迦确已投入烈焰之口而焚毁,善士中最优者啊。
1.51.9
ततोऽब्रवीन्मन्त्रविदस्तान्राजा ब्राह्मणांस्तदा ।
आहरिष्यामि तत्सत्रं संभाराः संभ्रियन्तु मे ॥ १.५१.९ ॥
于是国王对那些精通咒语的婆罗门说:我将举行那场祭祀,请为我备齐所需之物。
1.51.10
ततस्त ऋत्विजस्तस्य शास्त्रतो द्विजसत्तम ।
तं देशं मापयामासुर्यज्ञायतनकारणात् ॥ १.५१.१० ॥
于是他的祭司们依照经典,二生者中最优者啊,丈量了那块土地,以建造祭祀之堂。
1.51.11
यथावद्वेदविद्वांसः सर्वे बुद्धेः परंगताः ।
ऋद्ध्या परमया युक्तमिष्टं द्विजगणैर्युतम् ॥ १.५१.११ ॥
所有精通吠陀、智慧圆满者,依法开始建造那心所向往、富饶至极、众多婆罗门环绕的祭祀之堂。
1.51.12
प्रभूतधनधान्याढ्यमृत्विग्भिः सुनिषेवितम् ।
निर्माय चापि विधिवद्यज्ञायतनमीप्सितम् ॥ १.५१.१२ ॥
依仪轨建成那心所向往的祭祀之堂,富有财物与谷粟,又得到祭司们的周全侍奉……
1.51.13
राजानं दीक्षयामासुः सर्पसत्राप्तये तदा ।
इदं चासीत्तत्र पूर्वं सर्पसत्रे भविष्यति ॥ १.५१.१३ ॥
于是他们为达成蛇祭而为国王行灌顶礼。而在此处,昔日的蛇祭中,此事本将发生。
1.51.14
निमित्तं महदुत्पन्नं यज्ञविघ्नकरं तदा ।
यज्ञस्यायतने तस्मिन्क्रियमाणे वचोऽब्रवीत् ॥ १.५१.१४ ॥
此时出现了一个阻碍祭祀的大凶兆。在那祭场中举行仪式时,有人说了这些话。
1.51.15
स्थपतिर्बुद्धिसंपन्नो वास्तुविद्याविशारदः ।
इत्यब्रवीत्सूत्रधारः सूतः पौराणिकस्तदा ॥ १.५१.१५ ॥
精通建筑之学、富有智慧的匠师、绘图的工匠,以及讲说往世书的苏多,当时这样说道。
1.51.16
यस्मिन्देशे च काले च मापनेयं प्रवर्तिता ।
ब्राह्मणं कारणं कृत्वा नायं संस्थास्यते क्रतुः ॥ १.५१.१६ ॥
在开始此次测量的那个地点与时间,若以婆罗门为缘由,此祭便无法完成。
1.51.17
एतच्छ्रुत्वा तु राजासौ प्राग्दीक्षाकालमब्रवीत् ।
क्षत्तारं न हि मे कश्चिदज्ञातः प्रविशेदिति ॥ १.५१.१७ ॥
国王听后,在灌顶之时前对守门人说:“不许任何我不认识的人进入。”