摩诃婆罗多 · 章 1.53
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.53.1
सर्पसत्रे तदा राज्ञः पाण्डवेयस्य धीमतः ।
जनमेजयस्य के त्वासन्नृत्विजः परमर्षयः ॥ १.५३.१ ॥
那时,在般度后裔、智者国王阇那密阇耶的蛇祭中,担任祭司的至上仙人都有哪些?
1.53.2
के सदस्या बभूवुश्च सर्पसत्रे सुदारुणे ।
विषादजननेऽत्यर्थं पन्नगानां महाभय ॥ १.५३.२ ॥
在那场令众蛇极度悲伤、大为恐惧的可怕蛇祭中,参加会众的都是谁?
1.53.3
सर्वं विस्तरशस्तात भवाञ्छंसितुमर्हति ।
सर्पसत्रविधानज्ञविज्ञेयाः के च सूतज ॥ १.५३.३ ॥
苏多之子啊,您应当详细讲述一切。那些精通蛇祭仪轨、值得被人知晓的人是谁?
1.53.4
हन्त ते कथयिष्यामि नामानीह मनीषिणाम् ।
ये ऋत्विजः सदस्याश्च तस्यासन्नृपतेस्तदा ॥ १.५३.४ ॥
好吧,我在这里向你说出当时那位国王的祭司与会众中那些智者的名字。
1.53.5
तत्र होता बभूवाथ ब्राह्मणश्चण्डभार्गवः ।
च्यवनस्यान्वये ख्यातो जातो वेदविदां वरः ॥ १.५३.५ ॥
在那里,担任护者(荷塔)的是婆罗门旃达跋尔伽婆,他出身于遮耶那家族,名声远扬,是诸吠陀知者中的最优者。
1.53.6
उद्गाता ब्राह्मणो वृद्धो विद्वान्कौत्सौऽथ जैमिनिः ।
ब्र्हमाऽभवच्छार्ङ्गरवोऽथाध्वर्युश्चापि पिङ्गलः ॥ १.५३.६ ॥
担任乌德伽特里(歌咏者)的是年长而博学的婆罗门考德萨与贾米尼;担任布拉玛(梵)的是沙尔伽罗婆,担任阿德瓦尤(祭事者)的也是频伽罗。
1.53.7
सदस्यश्चाभवद्व्यासः पुत्रशिष्यसहायवान् ।
उद्दालकः प्रमतकः श्वेतकेतुश्च पिङ्गलः ॥ १.५३.७ ॥
毗耶娑与其子、弟子和助手同为此祭的宗员。优陀迦、普拉摩陀迦、白氏子与平伽罗也在其中。
1.53.8
असितो देवलश्चैव नारदः पर्वतस्तथा ।
आत्रेयः कुम्डजठरौ द्विजः कालघटस्तथा ॥ १.५३.८ ॥
阿悉多、提婆罗、那罗陀、补婆多,以及阿特雷耶、昆陀、遮陀罗,还有再生婆罗门迦罗揭陀也在其中。
1.53.9
वात्स्यः श्रुतश्रवा वृद्धो जपस्वाध्यायशीलवान् ।
कोहलो देवशर्मा च मौद्गल्यः समसौरभः ॥ १.५३.९ ॥
瓦特斯耶、年长的室卢多屡罗婆,精于持诵与自修;枯诃罗、提婆沙摩,以及毛德伽利耶·三娑奢罗婆也在其中。
1.53.10
एते चान्ये च बहवो ब्राह्मणा वेदपारगाः ।
सदस्याश्चाभवंस्तत्र सत्रे पारिक्षितस्य ह ॥ १.५३.१० ॥
此外,还有许多精通吠陀的婆罗门,都曾在般遮罗之子那场祭会中担任宗员。
1.53.11
जुह्वत्स्वृत्विक्ष्वथ तदा सर्पसत्रे महाक्रतौ ।
अहयः प्रापतंस्तत्र घोराः प्राणिभयावहाः ॥ १.५३.११ ॥
在那场大蛇祭中,祭司们正在献祭之时,可怖的蛇开始从天而降,使众生惊恐。
1.53.12
वसामेदोवहाः कुल्या नागानां संप्रवर्तिताः ।
ववौ गन्धश्च तुमुलो दह्यतामनिशं तदा ॥ १.५३.१२ ॥
载着众蛇脂髓的溪流奔流而下,焚烧之物的浓烈恶臭昼夜不绝地弥漫开来。
1.53.13
पततां चैव नागानां धिष्ठितानां तथाम्बरे ।
अश्रूयतानिशं शब्दः पच्यतां चाग्निना भृशम् ॥ १.५३.१३ ॥
坠落的蛇、悬于空中的蛇,以及在火中被烈烈烧煮的蛇的声音,不断地传来。
1.53.14
तक्षकस्तु स नागेन्द्रः पुरंदरनिवेशनम् ।
गतः श्रुत्वैव राजानं दीक्षितं जनमेजयम् ॥ १.५३.१४ ॥
然而,蛇王德叉迦一听说受戒的国王阁摩阇耶,便前往因陀罗的居所。
1.53.15
ततः सर्वं यथावृत्तमाख्याय भुजगोत्तमः ।
अगच्छच्छरणं भीत आगस्कृत्वा पुरंदरम् ॥ १.५३.१५ ॥
于是,他将所发生的一切如实讲述,那惊惶的蛇中之王,仿佛冒犯了因陀罗一般,前去向他求庇护。
1.53.16
तमिन्द्रः प्राह सुप्रीतो न तवास्तीह तक्षक ।
भयं नागेन्द्र तस्माद्वै सर्पसत्रात्कदाचन ॥ १.५३.१६ ॥
因陀罗十分欢喜,对他说:“德叉迦,你在此无需畏惧;蛇王啊,那场蛇祭,你永远不必惧怕。”
1.53.17
प्रसादितो मया पूर्वं तवार्थाय पितामहः ।
तस्मात्तव भयं नास्ति व्येतु तेनसो ज्वरः ॥ १.५३.१७ ॥
此前,为了你,我已使祖父(梵天)欢喜,所以你无所畏惧。愿你身上这由炽热而生的高烧退去。
1.53.18
एवमाश्वासितस्तेन ततः स भुजगोत्तमः ।
उवास भवने तस्मिञ्शक्रस्य मुदितः सुखी ॥ १.५३.१८ ॥
他这样得到安慰,蛇中之王欢喜而安乐,便住在因陀罗(帝释)的那座宫殿里。
1.53.19
अजस्रं निपतत्स्वग्नौ नागेषु भृशदुःखितः ।
अल्पशेषपरीवारो वासुकिः पर्यतप्यत ॥ १.५३.१९ ॥
众蛇不断坠入火中,深感悲痛的婆苏吉,身边只剩寥寥随从,内心备受煎熬。
1.53.20
कश्मलं चाविशद्धोरं वासुकिं पन्नगोत्तमम् ।
स घूर्णमानहृदयो भगिनीमिदमब्रवीत् ॥ १.५३.२० ॥
可怕的昏厥袭上了蛇中之王婆苏吉。他心神恍惚,对妹妹说了这番话。
1.53.21
दह्यन्तेऽङ्गानि मे भद्रे न दिशः प्रतिभान्ति माम् ।
सीदामीव च संमोहाद्धूर्णतीव च मे मनः ॥ १.५३.२१ ॥
善良的女子啊,我的肢体在燃烧,四方我都看不清。仿佛因迷惑而沉没,我的心也在旋转。
1.53.22
दृष्टिर्भ्राम्यति मेऽतीव हृदयं दीर्यतीव च ।
पतिष्याम्यवशोऽद्याहं तस्मिन्दीप्ते विभावसौ ॥ १.५३.२२ ॥
我的视线剧烈旋转,心仿佛要裂开。今天我将无助地坠入那熊熊烈火之中。
1.53.23
पारिक्षितस्य यज्ञोऽसौ वर्ततेऽस्मज्जिघांसया ।
व्यक्तं मयाऽभिगन्तव्यं प्रेतराजनिवेशनम् ॥ १.५३.२३ ॥
这场帕里克希特之子的祭祀,是怀着杀害我们的意图而举行的。显然,我必须前往阎摩王的居所。
1.53.24
अयं स कालः संप्राप्तो यदर्थमसि मे स्वसः ।
जरत्करौमयादत्तात्रायस्वास्मान्सबान्धवान् ॥ १.५३.२४ ॥
妹妹啊,我把你嫁给阇罗特迦如,正是为了此刻。请与我们的族人一起保护我们吧。
1.53.25
आस्तीकः किल यज्ञं तं वर्तन्तं भुजगोत्तमे ।
प्रतिषेत्स्यति मां पूर्वं स्वयमाह पितामहः ॥ १.५३.२५ ॥
据说,在那场蛇中至尊的祭祀进行时,阿斯提迦会首先被阻拦;祖父本人曾这样说过。
1.53.26
तद्वत्से ब्रूहि वत्सं स्वं कुमारं वृद्धसंमतम् ।
ममाद्य त्वं सभृत्यस्य मोक्षार्थं वेदवित्तमम् ॥ १.५३.२६ ॥
因此,女儿啊,去告诉你那位受长辈认可、精通吠陀的儿子,今天他应当前来,使我和我的随从获得解脱。