Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.55

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.55.1

सोमस्य यज्ञो वरुणस्य यज्ञः ।
प्रजापतेर्यज्ञ आसीत्प्रयागे।
तथा यज्ञोऽयं तव भारताग्र्य ।
पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥ १.५५.१ ॥

在普拉雅加举行过月神(Soma)的祭祀、伐楼那的祭祀和生主(Prajāpati)的祭祀。同样,你的这场祭祀,婆罗多族中最优秀的人,补哩迦湿之裔啊,愿我们和所爱之人平安吉祥。

1.55.2

शक्रस्य यज्ञः शतसङ्ख्य उक्त-
स्तथापरं तुल्यसङ्ख्यं शतं वै।
तथा यज्ञोऽयं तव भारताग्र्य ।
पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥ १.५५.२ ॥

据说因陀罗的祭祀有百次之数,另一场同样也是百次。同样,你的这场祭祀,婆罗多族中最优秀的人,补哩迦湿之裔啊,愿我们和所爱之人平安吉祥。

1.55.3

यमस्य यज्ञो हरिमेधसश्च ।
यथा यज्ञो रन्तिदेवस्य राज्ञः।
तथा यज्ञोऽयं तव भारताग्र्य ।
पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥ १.५५.३ ॥

如同阎摩的祭祀、哈利-梅达斯的祭祀,以及国王蓝提提婆的祭祀。同样,你的这场祭祀,婆罗多族中最优秀的人,补哩迦湿之裔啊,愿我们和所爱之人平安吉祥。

1.55.4

गयस्य यज्ञः शशबिन्दोश्च राज्ञो ।
यज्ञसल्तथा वैश्रवणस्य राज्ञः।
तथा यज्ञोऽयं तव भारताग्र्य ।
पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥ १.५५.४ ॥

如同伽耶的祭祀、国王沙舍宾杜的祭祀,以及国王毗沙罗婆那(俱毗罗)的祭祀。同样,你的这场祭祀,婆罗多族中最优秀的人,补哩迦湿之裔啊,愿我们和所爱之人平安吉祥。

1.55.5

नृगस्य यज्ञस्त्वजमीढस्य चासी-
द्यथा यज्ञो दाशरथेश्च राज्ञः।
तथा यज्ञोऽयं तव भारताग्र्य ।
पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥ १.५५.५ ॥

那罗伽之祭与阿闍弥荼之祭曾举行,如十车王之子王的祭祀一般;你的这场祭祀亦是如此,婆罗多族中的最优者啊。般库希特之子啊,愿我们所爱之人平安吉祥。

1.55.6

यज्ञः श्रुतो दिवि देवस्य सूनो-
र्युधिष्ठिरस्याजमीढस्य राज्ञः।
तथा यज्ञोऽयं तव भारताग्र्य ।
पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥ १.५५.६ ॥

天界曾闻天神之子坚战的祭祀,以及阿闍弥荼族之王的祭祀;你的这场祭祀亦是如此,婆罗多族中的最优者啊。般库希特之子啊,愿我们所爱之人平安吉祥。

1.55.7

कृष्णस्य यज्ञः सत्यवत्याः सुतस्य ।
स्वयं च कर्म प्रचकार यत्र।
तथा यज्ञोऽयं तव भारताग्र्य ।
पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥ १.५५.७ ॥

黑天之祭,以及萨提亚瓦蒂之子亲自主持仪式的祭祀;你的这场祭祀亦是如此,婆罗多族中的最优者啊。般库希特之子啊,愿我们所爱之人平安吉祥。

1.55.8

इमे च ते सूर्यसमानवर्चसः ।
समासते वृत्रहणः क्रतुं यथा।
नैषां ज्ञातुं विद्यते ज्ञानमद्य ।
दत्तं येभ्यो न प्रणश्येत्कदाचित् ॥ १.५५.८ ॥

这些光辉如日的人,正如在斩杀弗栗多的因陀罗之祭中那样,坐于你的祭祀之中。今日无人能尽知他们的学识;施予他们的布施,永不会失去。

1.55.9

ऋत्विक्समो नास्ति लोकेषु चैव ।
द्वैपायनेनेति विनिश्चितं मे।
एतस्य शिष्या हि क्षितिं संचरन्ति ।
सर्वर्त्विजः कर्मसु स्वेषु दक्षाः ॥ १.५५.९ ॥

三界之中,无人能与祭司相比;关于二火仙(Dvaipāyana),我确知此事。他的弟子行走于大地之上,所有祭祀司仪都精通各自的仪式。

1.55.10

विभावसुश्चित्रभानुर्महात्मा ।
हिरण्यरेता हुतभुक्कृष्णवर्त्मा।
प्रदक्षिमावर्तशिखः प्रदीप्तो ।
हव्यं तवेदं हुतभुग्वष्टि देवः ॥ १.५५.१० ॥

毗婆苏、质焰、大德者、金精者、食供者、暗径者,火焰右旋燃烧——天神渴望你的这份献祭。

1.55.11

नैह त्वदन्यो विद्यते जीवलोके ।
समो नृपः पालयिता प्रजानाम्।
धृत्या च ते प्रतीमनाः सदाहं ।
त्वं वा वरुणो धर्मराजो यमो वा ॥ १.५५.११ ॥

在这生者之世,没有其他国王能像你一样庇护臣民。我怀着坚定之心,始终对你心怀善意;你或是伐楼那,或是法王,或是阎摩。

1.55.12

शक्रः साक्षाद्वज्रपाणिर्यथेह ।
त्राता लोकेऽस्मिंस्त्वं तथेह प्रजानाम्।
मतस्त्वं नः पुरुषेन्द्रेह लोके ।
न च त्वदन्यो भूपतिरस्ति जज्ञे ॥ १.५५.१२ ॥

正如手持金刚杵的帝释天(因陀罗)亲自庇护此世,你在此也庇护着臣民。人中之主啊,在此世我们只尊你为主;除你之外,没有其他地上之主生于世间。

1.55.13

खट्वाङ्गनाभगदिलीपकल्प ।
ययातिमान्धातृसमप्रभाव।
आदित्यतेजःप्रतिमानतेजा ।
भीष्मो यथा राजसि सुव्रतस्त्वम् ॥ १.५५.१३ ॥

你如同Khaṭvāṅga、Nābhaga和Dilīpa,威力与Yayāti、Māndhātṛ相当,光辉如同太阳。正如Bhīṣma在诸王中闪耀,你也因持守誓言而光芒四射。

1.55.14

वाल्मीकिवत्ते निभृतं स्ववीर्यं ।
वसिष्ठवत्ते नियतश्च कोपः।
प्रभुत्वमिन्द्रत्वसमं मतं मे ।
द्युतिश्च नारायणवद्विभाति ॥ १.५५.१४ ॥

如同Vālmīki,你自身的勇力收敛而隐藏;如同Vasiṣṭha,你的愤怒受到节制;我认为你的权威与因陀罗的主宰相等,你的光辉如同Nārāyaṇa般闪耀。

1.55.15

यमो यथा धर्मविनिश्चयज्ञः ।
कृष्णो यथा सर्वगुणोपपन्नः।
श्रियां निवासोऽसि यथा वसूनां ।
निधानभूतोऽसि तथा क्रतूनाम् ॥ १.५५.१५ ॥

如同通晓法则决断的阎摩,如同具备一切善德的Kṛṣṇa,你是吉祥的居所;如同你是诸婆薮的宝藏,你也是祭祀的宝藏。

1.55.16

दम्भोद्भवेनासि समो बलेन ।
रामो यथा शस्त्रविदस्त्रविच्च।
और्वत्रिताभ्यामसि तुल्यतेजा ।
दुष्प्रेक्षणीयोऽसि भगीरथेन ॥ १.५५.१६ ॥

你在力量上与Dambhodbhava相当;如同精通兵器与箭术的Rāma;与Aurva、Trita等同光辉;如同Bhagīratha,令人难以正视。

1.55.17

एवं स्तुताः सर्व एव प्रसन्ना ।
राजा सदस्या ऋत्विजो हव्यवाहः।
तेषां दृष्ट्वा भावितानीङ्गितानि ।
प्रोवाच राजा जनमेजयोऽथ ॥ १.५५.१७ ॥

如此受到赞颂,众人皆欢喜——国王、与会者、祭司以及持供物之火(Havyavāhana)。看到他们的心意与举止,于是国王Janamejaya开口说道。