Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.56

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.56.1

बालोऽप्ययं स्थविर इवावभाषते ।
नायं बालः स्थविरोऽयं मतो मे।
इच्छाम्यहं वरमस्मै प्रदातुं ।
तन्मे विप्राः संविदध्वं यथावत् ॥ १.५६.१ ॥

他虽是孩童,说话却像老人;依我看,他并非孩童,而是长者。我想赐予他一个恩惠;婆罗门们啊,请为我妥善安排。

1.56.2

यथा च नस्तक्षक एति शीघ्रम् ॥ १.५६.२ ॥

并使德叉迦迅速来到我们这里。

1.56.3

व्याहर्तुकामे वरदे नृपे द्विजं ।
वरं वृणीष्वेति ततोऽब्युवाच।
होता वाक्यं नातिहृष्टान्तरात्मा ।
कर्मण्यस्मिंस्तक्षको नैति तावत् ॥ १.५६.३ ॥

施恩的国王正要开口时,对婆罗门说:“请选择一个恩惠。”这时,内心不甚欢喜的祭司“和陀”说:“在此祭祀中,德叉迦尚未到来。”

1.56.4

यथा चेदं कर्म समाप्यते मे ।
यथा च वै तक्षक एति शीघ्रम्।
तथा भवन्तः प्रयतन्तु सर्वे ।
परं शक्त्या स हि मे विद्विषाणः ॥ १.५६.४ ॥

为使我的这场祭祀完成,并使德叉迦迅速到来,愿你们所有人竭尽全力去做,因为他是我的仇敌。

1.56.5

यथा शस्त्राणि नः प्राहुर्यथा शंसति पावकः ।
इन्द्रस्य भवने राजंस्तक्षको भयपीडितः ॥ १.५६.५ ॥

如武器对我们所言,如火所宣示,大王啊,德叉迦在因陀罗的宫殿中,被恐惧所折磨。

1.56.6

यथा सूतो लोहिताक्षो महात्मा ।
पौराणिको वेदितवान्पुरस्तात्।
स राजानं प्राह पृष्टस्तदानीं ।
यथाहुर्विप्रास्तद्वदेतन्नृदेव ॥ १.५६.६ ॥

正如那位红眼的大德苏陀——精通往世书的人——先前所知,并在国王问及时所宣告的,如婆罗门所言,那样请讲吧,人主啊。

1.56.7

पुराणमागम्य ततो ब्रवीम्यहं ।
दत्तं तस्मै वरमिन्द्रेण राजन्।
वसेह त्वं मत्सकाशे सुगुप्तो ।
न पावकस्त्वां प्रदहिष्यतीति ॥ १.५६.७ ॥

依据往世书,我现在讲述。大王,因陀罗赐予他一个恩典:“你住在我身边,得到妥善保护;火不会烧你。”

1.56.9

तदा जगामाहिदत्ताभयः प्रभुः ॥ १.५६.९ ॥

那时,被赐予免于恐惧的那位强者离去了。

1.56.10

भविष्यतीत्येव विचिन्तयानः ॥ १.५६.१० ॥

他心想:“事情会这样的。”于是离去。

1.56.11

तस्योत्तरीये निहितः स नागो ।
भयोद्विग्नः शर्म नैवाभ्यगच्छत्।
ततो राजा मन्त्रविदोऽब्रवीत्पुनः ।
क्रुद्धो वाक्यं तक्षकस्यान्तमिच्छन् ॥ १.५६.११ ॥

那条隐藏在他上衣中、因恐惧而惶惶不安的蛇,找不到庇护。于是愤怒的国王想要除去德叉迦,再次对通晓咒语的人说道。

1.56.12

इन्द्रस्य भवने विप्रा यदि नागः स तक्षकः ।
तमिन्द्रेणैव सहितं पातयध्यं विभावसौ ॥ १.५६.१२ ॥

婆罗门们啊,若那条蛇德叉迦在因陀罗的宫殿中,就让他和因陀罗一同落入火中。

1.56.13

जनमेजयेन राज्ञा तु नोदितस्तक्षकं प्रति ।
होता जुहाव तत्रस्थं तक्षकं पन्नगं तथा ॥ १.५६.१३ ॥

在国王阳阇耶的催促下,祭司向德叉迦献上祭品,并同样将在场的蛇德叉迦投入火中献祭。

1.56.14

हूयमाने तथा चैव तक्षकः सपुरन्दरः ।
आकाशे ददृशे तत्र क्षणेन व्यथितस्तदा ॥ १.५६.१४ ॥

祭祀正在进行时,蛇王德叉迦与因陀罗(补兰达罗)一同出现在天空中,顷刻之间他便惶恐不安。

1.56.15

पुरन्दरस्तु तं यज्ञं दृष्ट्वोरुभयमाविशत् ।
हित्वा तु तक्षकं त्रस्तः स्वमेव भवनं ययौ ॥ १.५६.१५ ॥

然而因陀罗看到那场祭祀,便被巨大的恐惧所笼罩;他惊恐地抛下德叉迦,回到了自己的宫殿。

1.56.16

इन्द्रे गते तु राजेन्द्र तक्षको भयमोहितः ।
मन्त्रशक्त्या पावकार्चिस्समीपमवशो गतः।
तं दृष्ट्वा ऋत्विजस्तत्र वचनं चेदमब्रुवन् ॥ १.५६.१६ ॥

王中之王啊,因陀罗离去后,德叉迦因恐惧而迷乱,被咒语之力所迫,靠近了火焰。祭司们看见他,便说了这些话。

1.56.17

अयमायाति तूर्णं स तक्षकस्ते वशं नृप ।
श्रूयतेऽस्य महान्नादो नदतो भैरवं रवम् ॥ १.५६.१७ ॥

看哪,那德叉迦正疾速而来;国王啊,他现在已在你的掌控之中。可以听见他可怕吼叫的巨大声响。

1.56.18

नूनं मुक्तो वज्रभृता स नागो ।
भ्रष्टो नाकान्मन्त्रवित्रस्तकायः।
घूर्णन्नाकाशे नष्टसंज्ञोऽभ्युपैति ।
तीव्रान्निश्वासान्निश्वसन्पन्नगेन्द्रः ॥ १.५६.१८ ॥

必定是持雷霆者放开了那条蛇。身体因咒语而颤抖,从天界坠落,在空中盘旋,失去了知觉,那蛇王正在靠近,喷出炽烈的气息。

1.56.19

वर्तते तव राजेन्द्र कर्मैतद्विधिवत्प्रभो ।
अस्मै तु द्विजमुख्याय वरं त्वं दातुमर्हसि ॥ १.५६.१९ ॥

王中之王啊,主上,您的这场仪式正依法进行。因此您应当赐予这位再生者之首一项恩惠。

1.56.20

बालाभिरूपस्य तवाप्रमेय ।
वरं प्रयच्छामि यथानुरूपम्।
वृणीष्व यत्तेऽभिमतं हृदि स्थितं ।
तत्ते प्रदास्याम्यपि चेददेयम् ॥ १.५६.२० ॥

无量者啊,我依你的年少身形赐你一个恩惠。你心中所想要的,尽管选择;即使那是不当给予的,我也会给你。

1.56.21

पतिष्यमाणे नागेन्द्रे तक्षके जातवेदसि ।
इदमन्तरमित्येवं तदास्तीकोऽभ्यचोदयत् ॥ १.५६.२१ ॥

当蛇王德叉迦即将坠入祭火之中时,阿斯提迦心想:“这正是时机”,于是催促他。

1.56.22

वरं ददासि चेन्मह्यं वृणोमि जनमेजय ।
सत्रं ते विरमत्वेतन्न पतेयुरिहोरगाः ॥ १.५६.२२ ॥

嗟乎,遮那弥阇耶,若你赐我恩惠,我所求的是:愿你这祭祀停止,愿蛇不要在此坠落。

1.56.23

एवमुक्तस्तदा तेन ब्रह्मन्पारिक्षितस्तु सः ।
नातिहृष्टमनाश्चेदमास्तीकं वाक्यमब्रवीत् ॥ १.५६.२३ ॥

婆罗门啊,他如此说后,心中不太欢喜的般利刹多之子遮那弥阇耶,对阿斯提迦说了这些话。

1.56.24

सुवर्णं रजतं गाश्च यच्चान्यन्मन्यसे विभो ।
तत्ते दद्यां वरं विप्र न निवर्तेत्क्रतुर्मम ॥ १.५६.२४ ॥

威力者啊,金、银、牛,以及你心中所想的任何其他之物,我都会作为恩惠赐给你,婆罗门啊;只愿我的祭祀不要被废止。

1.56.25

सुवर्णं रजतं गाश्च न त्वां राजन्वृणोम्यहम् ।
सत्रं ते विरमत्वेतत्स्वस्ति मातृकुलस्य नः ॥ १.५६.२५ ॥

国王啊,我不向你求取金、银或牛。愿你这祭祀停止;愿我母族平安吉祥。

1.56.26

आस्तीकेनैवमुक्तस्तु राजा पारिक्षितस्तदा ।
पुनःपुनरुवाचेदमास्तीकं वदतां वरः ॥ १.५६.२६ ॥

阿斯提卡如此说完,帕里克希特之子国王便对言辞最善的阿斯提卡一再地说道:

1.56.27

अन्यं वरय भद्रं ते वरं द्विज्वरोत्तम ।
अयाचत न चाप्यन्यं वरं स भृगुनन्दन ॥ १.५६.२७ ॥

请另选一个恩惠吧,愿你吉祥,再生者中最优秀的人。然而这位婆里古的后裔,并未再求别的恩惠。

1.56.28

ततो वेदविदस्तात सदस्याः सर्व एव तम् ।
राजानमूचुः सहिता लभतां ब्राह्मणो वरम् ॥ १.५६.२८ ॥

于是,亲爱的,所有熟知吠陀的会众一同对国王说道:“愿婆罗门得到他的恩惠。”