摩诃婆罗多 · 章 1.58
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.58.1
इदमत्यद्भुतं चान्यदास्तीकस्यानुशुश्रुम ।
तथा वरैश्छन्द्यमाने राज्ञा पारिक्षितेन हि ॥ १.५८.१ ॥
我们还听过关于阿斯蒂卡的另一段极其奇妙的故事,那时帕里克希特之子国王满足了他所求的恩赐。
1.58.2
इन्द्रहस्ताच्च्युतो नागः ख एव यदतिष्ठत ।
ततश्चिन्तापरो राजा बभूव जनमेजयः ॥ १.५८.२ ॥
从因陀罗手中坠落的那条蛇悬停在空中;于是国王遮那阳阇陷入了忧虑。
1.58.3
हूयमाने भृशं दीप्ते विधिवद्वसुरेतसि ।
न स्म स प्रापतद्वह्नौ तक्षको भयपीडितः ॥ १.५८.३ ॥
尽管依照仪轨向熊熊燃烧的火中献上供品,被恐惧折磨的德叉迦却没有坠入火中。
1.58.4
किं सूत तेषां विप्राणां मन्त्रग्रामो मनीषिणाम् ।
न प्रत्यभात्तदाऽग्नौ यत्स पपात न तक्षकः ॥ १.५८.४ ॥
哦,苏陀!那些智慧婆罗门的咒语集合怎么了?当德叉迦没有坠入火中时,它们似乎没有生效。
1.58.5
तमिन्द्रहस्ताद्वित्रस्तं विसंज्ञं पन्नगोत्तमम् ।
आस्तीकस्तिष्ठ तिष्ठेति वाचस्तिस्रोऽभ्युदैरयत् ॥ १.५८.५ ॥
对于从因陀罗手中坠落、惊恐失神的那位蛇中之王,阿斯蒂卡连说三遍:“停住,停住!”
1.58.6
वितस्थे सोऽन्तरिक्षे च हृदयेन विदूयता ।
यथा तिष्ठति वै कश्चित्खं च गां चान्तरा नरः ॥ १.५८.६ ॥
他停在空中,好像一个人心中痛苦地站在大地与天空之间。
1.58.7
ततो राजाब्रवीद्वाक्यं सदस्यैश्चोदितो भृशम् ।
काममेतद्भवत्वेवं यथास्तीकस्य भाषितम् ॥ १.५८.७ ॥
于是国王在众位与会者的强烈催促下说道:"就照阿斯提迦所说的去做,这是我的心愿。"
1.58.8
समाप्यतामिदं कर्म पन्नगाः सन्त्वनामयाः ।
प्रीयतामयमास्तीकः सत्यं सूतवचोऽस्तु तत् ॥ १.५८.८ ॥
愿此祭仪圆满完成,愿诸蛇平安无恙,愿阿斯提迦欢喜;愿苏多之言成为真实。
1.58.9
ततो हलहलाशब्दः प्रीतिजः समजायत ।
आस्तीकस्य वरे दत्ते तथैवोपरराम च ॥ १.५८.९ ॥
当赐予阿斯提迦恩惠时,喜悦之中升起一片欢呼之声;随后便平息了。
1.58.10
स यज्ञः पाण्डवेयस्य राज्ञः पारिक्षितस्य ह ।
प्रीतिमांश्चाभवद्राजा भारतो जनमेजयः ॥ १.५८.१० ॥
这场祭祀属于般度后裔、般利刹的儿子国王;婆罗多王遮阇耶欢喜不已。
1.58.11
ऋत्विग्भ्यः ससदस्येभ्यो ये तत्रासन्समागताः ।
तेभ्यश्च प्रददौ वित्तं शतशोऽथ सहस्रशः ॥ १.५८.११ ॥
对于聚集在那里的祭司和与会者,他赠予了成百上千的财物。
1.58.12
लोहिताक्षाय सूताय तथा स्थपतये विभुः ।
येनोक्तं तस्य तत्राग्रे सर्पसत्रनिवर्तने ॥ १.५८.१२ ॥
那位威严的国王赠予了御者洛希塔克夏,同样也赠予了那位工匠,因为正是他首先在那里提议停止蛇祭。
1.58.13
निमित्तं ब्राह्मण इति तस्मै वित्तं ददौ बहु ।
दत्त्वा द्रव्यं यथान्यायं भोजनाच्छादनान्वितम् ॥ १.५८.१३ ॥
以婆罗门为缘由,他赐予他大量财富;依照正法,又施予财物、饮食与衣服。
1.58.14
प्रीतस्तस्मै नरपतिरप्रमेयपराक्रमः ।
ततश्चकारावभृथं विधिदृष्टेन कर्मणा ॥ १.५८.१४ ॥
无量威勇的国王对他感到欢喜,随后依照规定的仪轨完成了阿婆鞞陀(沐浴)之礼。
1.58.15
आस्तीकं प्रेषयामास गृहानेव सुसंस्कृतम् ।
राजा प्रीतमनाः प्रीतं कृतकृत्यं मनीषिणम् ॥ १.५८.१५ ॥
国王心怀欢喜,把已心满意足、功成圆满的贤者阿斯提迦妥善礼送,直接送回他的家中。
1.58.16
पुनरागमनं कार्यमिति चैनं वचोऽब्रवीत् ।
भविष्यसि सदस्यो मे वाजिमेधे महाक्रतौ ॥ १.५८.१६ ॥
他说:"请再来一趟。"并对他说:"在我的大祭——马祭中,你将成为我的会众之一。"
1.58.17
तथेत्युक्त्वा प्रदुद्राव तदास्तीको मुदा युतः ।
कृत्वा स्वकार्यमतुलं तोषयित्वा च पार्थिवम् ॥ १.५८.१७ ॥
阿斯提迦说:"好。"便欢喜地立即出发,完成了他无与伦比的使命,也使国王欢喜。
1.58.18
स गत्वा परमप्रीतो मातुलं मातरं च ताम् ।
अभिगम्योपसंगृह्य तथा वृत्तं न्यवेदयत् ॥ १.५८.१८ ॥
他极其欢喜地前往,走近舅舅与母亲,拥抱了他们,并如实禀报了所发生的事。
1.58.19
एतच्छ्रुत्वा प्रीयमाणाः समेता ।
ये तत्रासन्पन्नगा वीतमोहाः।
आस्तीके वै प्रीतिमन्तो बभूवु-
रूचुश्चैनं वरमिष्टं वृमीष्व ॥ १.५८.१९ ॥
诸蛇闻之,皆已离迷,心中欢喜,聚集在那里。他们对阿斯提迦生出爱意,对他说:“请选择你想要的恩赐。”
1.58.20
भूयोभूयः सर्वशस्तेऽब्रुवंस्तं ।
किं ते प्रियं करवामाद्य विद्वन्।
प्रीता वयं मोक्षिताश्चैव सर्वे ।
कामं किं ते करवामाद्य वत्स ॥ १.५८.२० ॥
他们一再地对他说:“智者啊,今天我们可以为你做什么你喜爱的事?我们都已欢喜,也都得到了解脱。孩子,今天按你的心愿,我们该为你做什么?”
1.58.21
सायं प्रातर्ये प्रसन्नात्मरूपा ।
लोके विप्रा मानवा ये परेऽपि।
धर्माख्यानं ये पठेयुर्ममेदं ।
तेषां युष्मन्नैव किंचिद्भयं स्यात् ॥ १.५८.२१ ॥
凡在世间,无论婆罗门、人或其他众生,若于早晚以欢喜的心与容颜诵读我这篇法之说,他们从你们那里不会有任何恐惧。
1.58.22
तैश्चाप्युक्तो भागिनेयः प्रसन्नै-
रेतत्सत्यं काममेवं वरं ते।
प्रीत्या युक्ताः कामितं सर्वशस्ते ।
कर्तारः स्म प्रवणा भागिनेय ॥ १.५८.२२ ॥
那些欢喜的蛇也对外甥说:“这是真的;愿你所求的恩赐就这样赐给你。我们怀着慈爱,随时准备,外甥啊,满足你的一切心愿。”
1.58.23
असितं चार्तिमन्तं च सुनीथं चापि यः स्मरेत् ।
दिवा वा यदि वा रात्रौ नास्य सर्पभयं भवेत् ॥ १.५८.२३ ॥
无论白天或夜晚,若有人忆念阿私多、阿提曼与苏尼陀,他便不会有蛇的恐惧。
1.58.24
यो जरत्कारुणा जातो जरत्कारौ महावशाः ।
आस्तीकः सर्पसत्रे वः पन्नगान्योऽभ्यरक्षत।
तं स्मरन्तं महाभागा न मां हिंसितुमर्हथ ॥ १.५८.२४ ॥
那位大力的阿斯提卡,是由遮罗特迦如之子遮罗特迦如所生,他在蛇祭中庇护了你们诸蛇。你们这些大福之人,不应伤害记念他的我。
1.58.25
सर्पापसर्प भद्रं ते गच्छ सर्प महाविष ।
जनेमेजयस्य यज्ञान्ते आस्तीकवचनं स्मर ॥ १.५८.२५ ॥
蛇啊,退去吧,愿你安好;大毒之蛇,走吧。在遮那目阳耶祭祀结束之时,记住阿斯提卡的话。
1.58.26
आस्तीकस्य वचः श्रुत्वा यः सर्पो न निवर्तते ।
शतधा भिद्यते मूर्धा शिंशवृक्षफलं यथा ॥ १.५८.२६ ॥
蛇听了阿斯提卡的话仍不退去,它的头便会如舍姆沙波树的果实一样碎裂成百块。
1.58.27
स एवमुक्तस्तु तदा द्विजेन्द्रः ।
समागतैस्तैर्भुजगेन्द्रमुख्यैः।
संप्राप्य प्रीतिं विपुलां महात्मा ।
ततो मनो गमनायाथ दध्रे ॥ १.५८.२७ ॥
如此被告知之后,那位婆罗门中最优秀的大德,从聚集的诸蛇王首领那里得到极大的喜悦,便决意起身离去。
1.58.28
इत्येवं नागराजोऽथ नागानां मध्यगस्तदा ।
उक्त्वा सहैव तैः सर्पैः स्वमेव भवनं ययौ ॥ १.५८.२८ ॥
如此,处于诸那伽中间的那位那伽王,与那些蛇一同说完话后,便回到了自己的宫殿。
1.58.29
मोक्षयित्वा तु भुजगान्सर्पसत्राद्द्विजोत्तमः ।
जगाम काले धर्मात्मा दिष्टान्तं पुत्रपौत्रवान् ॥ १.५८.२९ ॥
那位婆罗门中最优秀的人,从蛇祭中解救了诸蛇之后,具正法,有子有孙,在时候到来时走向了他命定的终点。
1.58.30
इत्याख्यानं मयास्तीकं यथावत्तव कीर्तितम् ।
यत्कीर्तयित्वा सर्पेभ्यो न भयं विद्यते क्वचित् ॥ १.५८.३० ॥
如此,我已将阿斯提迦的故事如实讲述于你。诵念者不会在任何地方惧怕蛇。
1.58.31
यथा कथितवान्ब्रह्मन्प्रमतिः पूर्वजस्तव ।
पुत्राय रुरवे प्रीतः पृच्छते भार्गवोत्तम ॥ १.५८.३१ ॥
正如你的先祖普拉玛提欣然将此讲给其子鲁鲁听,我也如此讲述给你听,婆利古族最优秀的婆罗门,你曾经发问。
1.58.32
यद्वाक्यं श्रुतवांश्चाहं तथा च कथितं मया ।
आस्तीकस्य कवेर्विप्र श्रीमच्चरितमादितः ॥ १.५८.३२ ॥
婆罗门啊,我所听闻的言语与我所讲述的,从头到尾正是圣哲阿斯提迦的光辉事迹。
1.58.33
यन्मां त्वं पृष्टवान्ब्रह्मञ्श्रुत्वा डुण्डुभभाषितम् ।
व्येतु ते सुमहद्ब्रह्मन्कौतूहलमरिन्दम ॥ १.५८.३३ ॥
婆罗门啊,你听了杜恩杜跋的话后向我所问的那大大的疑惑,愿它消散吧,降敌者啊。
1.58.34
श्रुत्वा धर्मिष्ठमाख्यानमास्तीकं पुण्यवर्धनम् ।
सर्वपापविनिर्मुक्तो दीर्घमायुरवाप्नुयात् ॥ १.५८.३४ ॥
凡听闻这部最合正法、增长功德的阿斯提迦故事者,免除一切罪过,当获长寿。