摩诃婆罗多 · 章 1.6
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.6.1
अग्नेरथ वचः श्रुत्वा तद्रक्षः प्रजहार ताम् ।
ब्रह्मन्वराहरूपेण मनोमारुतरंहसा ॥ १.६.१ ॥
那罗刹听了火神的话,便以野猪之形,以意念与风的速度,抓走了她。婆罗门啊。
1.6.2
ततः स गर्भो निवसन्कुक्षौ भृगुकुलोद्वह ।
रोषान्मातुश्च्युतः कुक्षेश्च्यवनस्तेन सोऽभवत् ॥ १.६.२ ॥
那胎儿住在腹中,婆利古族的承担者啊,因为愤怒从母腹中坠落;因此他名为遮耶那。
1.6.3
तं दृष्ट्वा मातुरुदराच्च्युतमादित्यवर्चसम् ।
तद्रक्षो भस्मसाद्भूतं पपात परिमुच्य ताम् ॥ १.६.३ ॥
那罗刹见他从母腹坠落,光辉如日,便化为灰烬,松开她倒地。
1.6.4
सा तमादाय सुश्रोणी ससार भृगुनन्दनम् ।
च्यवनं भार्गवं पुत्रं पुलोमा दुःखमूर्च्छिता ॥ १.६.४ ॥
那位美腰的普罗玛悲痛欲绝,抱着他,与婆利古之子、婆尔伽婆的遮耶那一同离去。
1.6.5
तां ददर्श स्वयं ब्रह्मा सर्वलोकपितामहः ।
रुदतीं बाष्पपूर्णाक्षीं भृगोर्भार्यामनिन्दिताम् ॥ १.६.५ ॥
众世界的祖父梵天亲自看见了她——哭泣着,双眼盈满泪水,婆利古那位无可指责的妻子。
1.6.6
सान्त्वयामास भगवान्वधूं ब्रह्मा पितामहः ।
अश्रुबिन्दूद्भवा तस्याः प्रावर्तत महानदी ॥ १.६.६ ॥
尊贵的祖父梵天安慰了这位儿媳,从她的泪滴中,一条大河开始流淌。
1.6.7
आवर्तन्ती सृतिं तस्या भृगोः पत्न्यास्तपस्विनः ।
तस्या मार्गं सृतवतीं दृष्ट्वा तु सरितं तदा ॥ १.६.७ ॥
见那河流随着苦行者婆里古之妻的回旋水道奔涌而去,沿着她的路径流淌,
1.6.8
नाम तस्यास्तदा नद्याश्चक्रे लोकपितामहः ।
वधूसरेति भगवांश्च्यवनस्याश्रमं प्रति ॥ १.६.८ ॥
于是世界之祖尊者为此河命名为“婆杜萨罗”,因为它流向车耶那的修道院。
1.6.9
स एवं च्यवनो जज्ञे भृगोः पुत्रः प्रतापवान् ।
तं ददर्श पिता तत्र च्यवनं तां च भामिनीम्।
स पुलोमां ततो भार्यां पप्रच्छ कुपितो भृगुः ॥ १.६.९ ॥
于是婆里古的威严之子车耶那便这样降生了。父亲婆里古在那里看见了车耶那和那位容光焕发的女子。于是愤怒的婆里古问他的妻子普罗摩。
1.6.10
केनासि रक्षसे तस्मै कथिता त्वं जिहीर्षवे ।
न हि त्वा वेद तद्रक्षो मद्भार्यां चारुहासिनीम् ॥ १.६.१० ॥
"是谁把你告诉了那个想要劫走你的罗刹?那罗刹并不知道你是我的妻子,那位笑容甜美的女子。"
1.6.11
तत्त्वमाख्याहि तं ह्यद्य शप्तुमिच्छाम्यहं रुषा ।
बिभेति को न शापान्मे कस्य चायं व्यतिक्रमः ॥ १.६.११ ॥
"那么现在就告诉我吧,因为我愤怒之下想诅咒他。谁不怕我的诅咒?而这是谁的过错?"
1.6.12
अग्निना भगवंस्तस्मै रक्षसेऽहं निवेदिता ।
ततो मामनयद्रक्षः क्रोशन्तीं कुररीमिव ॥ १.६.१२ ॥
"尊者啊,阿耆尼把我告诉了那罗刹。于是那罗刹便把我带走,我像库拉利鸟一样哭喊。"
1.6.13
साऽहं तव सुतस्यास्य तेजसा परिमोक्षिता ।
भस्मीभूतं च तद्रक्षो मामुत्सृज्य पपात वै ॥ १.६.१३ ॥
凭着你这个儿子的威力,我得以解脱;那罗刹化为灰烬,松开我,倒地而亡。
1.6.14
इति श्रुत्वा पुलोमाया भृगुः परममन्युमान् ।
शशापाग्निमतिक्रुद्धः सर्वभक्षो भविष्यसि ॥ १.६.१४ ॥
Bhṛgu 听到 Pulomā 的这番话,极为愤怒,诅咒火神:你将成为吞噬一切者。