Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 1.65

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

1.65.1

य एते कीर्तिता ब्रह्मन्ये चान्ये नानुकीर्तिताः ।
सम्यक्ताञ्श्रोतुमिच्छामिराज्ञश्चान्यान्सहस्रशः ॥ १.६५.१ ॥

ブラーフマナよ、ここで語られた者たちと、語られなかった者たち、そして幾千もの他の王たちについて、私は余すことなく聞きたいのです。

1.65.2

यदर्थमिह संभूता देवकल्पा महारथाः ।
भुवि तन्मे महाभाग सम्यगाख्यातुमर्हसि ॥ १.६५.२ ॥

大いなる幸運の方よ、神々に等しいこれらの大戦車勇士たちは、何のためにこの地上に生まれたのか。それを私に詳しく語っていただきたい。

1.65.3

रहस्यं खल्विदं राजन्देवानामिति नः श्रुतम् ।
तत्तु ते कथयिष्यामि नमस्कृत्वा स्वयंभुवे ॥ १.६५.३ ॥

王よ、これは神々の秘密であると私たちは聞いています。自存者に礼拝してから、あなたにそれを語りましょう。

1.65.4

त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षित्रयां पुरा ।
जामदग्न्यस्तपस्तेपे महेन्द्रे पर्वतोत्तमे ॥ १.६५.४ ॥

昔、ジャーマダグニヤ(パラシュラーマ)は二十一度にわたり大地をクシャトリヤなきものとした後、山々の中で最も優れたマヘーンドラ山で苦行を行った。

1.65.5

तदा निःक्षत्रिये लोके भार्गवेण कृते सति ।
ब्राह्मणान्क्षत्रिया राजन्सुतार्थिन्योऽभिचक्रमुः ॥ १.६५.५ ॥

王よ、バールガヴァによって世界からクシャトリヤが失われたとき、息子を望むクシャトリヤの女性たちはバラモンのもとへ向かった。

1.65.6

ताभिः सह समापेतुर्ब्राह्मणाः संशितव्रताः ।
ऋतावृतौ नरव्याघ्र न कामान्नानृतौ तथा ॥ १.६५.६ ॥

人中の虎よ、厳しい誓いを守るバラモンたちは彼女らと交わった。それは定められた時期に、欲望からではなく、また時ならずにでもなかった。

1.65.7

तेभ्यश्च तेभिरे गर्भं क्षत्रियास्ताः सहस्रशः ।
ततः सुषुविरे राजन्क्षत्रियान्वीर्यवत्तरान् ॥ १.६५.७ ॥

彼らからそして彼らによって、そのクシャトリヤの女性たちは幾千もの子を身ごもった。王よ、そして彼女たちは非常に勇猛なクシャトリヤの息子たちを産んだ。

1.65.8

कुमारांश्च कुमारीश्च पुनः क्षत्राभिवृद्धये ।
एवं तद्ब्राह्मणैः क्षत्रं क्षत्रियासु तपस्विभिः ॥ १.६५.८ ॥

またクシャトラの繁栄のために、彼らは息子と娘を再び産んだ。こうして苦行者であるバラモンたちは、クシャトリヤの女性たちにおいてクシャトラを増やしたのである。

1.65.9

जातं वृद्धं च धर्मेण सुदीर्गेणायुषान्वितम् ।
चत्वारोऽपि ततो वर्णा बभूवुर्ब्राह्मणोत्तराः ॥ १.६५.९ ॥

ダルマによって生まれ、成長し、非常に長い寿命を備えた。その後、バラモンを首位とする四つのヴァルナが成立した。

1.65.10

अभ्यगच्छन्नृतौ नारीं न कामान्नानृतौ तथा ।
तथैवान्यानि भूतानि तिर्यग्योनिगतान्यपि ॥ १.६५.१० ॥

彼らは月経の時期にのみ女性に近づき、欲望からでも、時ならぬ時でもなかった。同様に、畜生の胎から生まれた他の生き物もそうしていた。

1.65.11

ऋतौ दारांश्च गच्छन्ति तत्तथा भरतर्षभ ।
ततोऽवर्धन्त धर्मेण सहस्रशतजीविनः ॥ १.६५.११ ॥

バラタの雄牛よ、彼らは月経の時期にのみ妻のもとへ行った。こうしてダルマによって彼らは栄え、数十万年を生きた。

1.65.12

ताः प्रजाः पृथिवीपाल धर्मव्रतपरायणाः ।
आधिभिर्व्याधिभिश्चैव विमुक्ताः सर्वशो नराः ॥ १.६५.१२ ॥

大地の守護者よ、それらの民はダルマと誓戒に専念していた。人々は心と身体のあらゆる苦悩から完全に解放されていた。

1.65.13

अथेमां सागरोपान्तां गां गजेन्द्रगताखिलाम् ।
अध्यतिष्ठत्पुनः क्षत्रं सशैलवनपत्तनाम् ॥ १.६५.१३ ॥

そして海に囲まれたこの大地を、名高い象たちもろとも、山々・森・都市とともに、クシャトリヤが再び治めた。

1.65.14

प्रशासति पुनः क्षत्रे धर्मेणेमां वसुन्धराम् ।
ब्राह्मणाद्यास्ततो वर्णा लेभिरे मुदमुत्तमाम् ॥ १.६५.१४ ॥

クシャトリヤが再びダルマに則ってこの大地を治めると、ブラーフマナをはじめとする諸ヴァルナは最高の喜びを得た。

1.65.15

कामक्रोधोद्भवान्दोषान्निरस्य च नराधिपाः ।
धर्मेण दण्डं दण्डेषु प्रणयन्तोऽन्वपालयन् ॥ १.६५.१५ ॥

欲望と怒りから生じる過ちを除き去り、王たちはダルマに従って罰すべき者に罰を与え、臣民を守った。

1.65.16

तथा धर्मपरे क्षत्रे सहस्राक्षः शतक्रतुः ।
स्वादु देशे च काले च ववर्षाप्याययन्प्रजाः ॥ १.६५.१६ ॥

このように克舎利がダルマに専心すると、千眼にして百祭のインドラも、場所と時節にかなって甘い雨を降らせ、民を養った。

1.65.17

न बाल एव म्रियते तदा कश्चिज्जनाधिप ।
न च स्त्रियं प्रजानाति कश्चिदप्राप्तयौवनाम् ॥ १.६५.१७ ॥

人の王よ、その時には幼子が死ぬことはなく、若さに達していない女が死んだと知る者もいなかった。

1.65.18

एवमायुष्मतीभिस्तु प्रजाभिर्भरतर्षभ ।
इयं सागरपर्यन्ता ससापूर्यत मेदिनी ॥ १.६५.१८ ॥

バラタの牡牛よ、こうして海に囲まれたこの大地は、長寿の民で満ちあふれた。

1.65.19

ईजिरे च महायज्ञैः क्षत्रिया बहुदक्षिणैः ।
साङ्गोपनिषदान्वेदान्विप्राश्चाधीयते तदा ॥ १.६५.१९ ॥

当時、クシャトリヤたちは多くの布施を伴う大祭を行い、バラモンたちは支分とウパニシャッドとともにヴェーダを学んだ。

1.65.20

न च विक्रीणते ब्र्हम ब्राह्मणाश्च तदा नृप ।
न च शूद्रसमभ्याशे वेदानुच्चारयन्त्युत ॥ १.६५.२० ॥

当時バラモンはヴェーダを売らず、またシュードラの近くでヴェーダを唱えることもなかった。

1.65.21

कारयन्तः कृषिं गोभिस्तथा वैश्याः क्षिताविह ।
युञ्जते धुरि नो गाश्च कृशाङ्गांश्चाप्यजीवयन् ॥ १.६५.२१ ॥

ここ大地では、ヴァイシャたちは牛に耕作をさせ、我らの牛を軛につなぎ、痩せた牛さえも生かしていた。

1.65.22

फेनपांश्च तथा वत्सान्न दुहन्ति स्म मानवाः ।
न कूटमानैर्वणिजः पण्यं विक्रीणते तदा ॥ १.६५.२२ ॥

当時、人々は子牛に乳の泡を飲ませ、乳を搾らなかった。商人は偽りの升で品物を売ることもなかった。

1.65.23

कर्माणि च नरव्याघ्र धर्मोपेतानि मानवाः ।
धर्ममेवानुपश्यन्तश्चक्रुर्धर्मपरायणाः ॥ १.६५.२३ ॥

人中の虎よ、人々はダルマに適った行いをし、ただダルマだけを見て、ダルマに専念していた。

1.65.24

स्वकर्मनिरताश्चासन्सर्वे वर्णा नराधिप ।
एवं तदा नरव्याघ्र धर्मो न ह्रसते क्वचित् ॥ १.६५.२४ ॥

人主よ、その時すべての階層は各自の本分に専念していた。人中の虎よ、このようにダルマは決して衰えなかった。

1.65.25

काले गावः प्रसूयन्ते नार्यश्च भरतर्षभ ।
भवन्त्यृतुषु वृक्षाणां पुष्पाणि च फलानि च ॥ १.६५.२५ ॥

バラタの雄牛よ、雌牛は時を得て子を産み、女性もまた同様であった。木々は季節ごとに花を咲かせ、実をつけた。

1.65.26

एवं कृतयुगे सम्यग्वर्तमाने तदा नृप ।
आपूर्यत मही कृत्स्ना प्राणिभिर्बहुभिर्भृशम् ॥ १.६५.२६ ॥

王よ、クリタ時代がこのように正しく進んでいたとき、大地全体は多くの生き物で満ちあふれた。

1.65.27

एवं समुदिते लोके मानुषे भरतर्षभ ।
असुरा जज्ञिरे क्षेत्रे राज्ञां तु मनुजेश्वर ॥ १.६५.२७ ॥

バラタの雄牛よ、人間の世界がこのように栄えたとき、人の主よ、王たちの胎の中に阿修羅が生まれた。

1.65.28

आदित्यैर्हि तदा दैत्या बहुशो निर्जिता युधि ।
ऐश्वर्याद्धंशिताः स्वर्गात्संबभूवुः क्षिताविह ॥ १.६५.२८ ॥

アーディティヤたちは戦いでダイティヤを幾度も打ち破った。その権勢から突き落とされた彼らは、天から落ちて、ここ大地に生まれた。

1.65.29

इह देवत्वमिच्छन्तो मानुषेषु तपस्विनः ।
जज्ञिरे भुवि भूतेषु तेषु तेष्वसुरा विभो ॥ १.६५.२९ ॥

ここで神性を望んだ苦行者の阿修羅たちは、人間の中に、また大地の様々な生き物の中に、それぞれの姿で生まれた。ああ、偉大なお方よ。

1.65.30

गोष्वश्वेषु च राजेन्द्र खरोष्ट्रमहिषेषु च ।
क्रव्यात्सु चैव भूतेषु गजेषु च मृगेषु च ॥ १.६५.३० ॥

王の中の王よ、牛や馬の中に、ロバ、ラクダ、水牛の中に、肉食の生き物の中に、象の中に、そして鹿の中にも(阿修羅は生まれた)。

1.65.31

जातैरिह महीपाल जायमानैश्च तैर्मही ।
न शशाकात्मनात्मानमियं धारयितुं धरा ॥ १.६५.३१ ॥

大地の守護者よ、ここに生まれた者たちと生まれつつある者たちによって、この大地は自らを支えきれなかった。

1.65.32

अथ जाता महीपालाः केचिद्बहुमदान्विताः ।
दितेः पुत्रा दनोश्चैव तदा लोकादिह च्युताः ॥ १.६५.३२ ॥

その時、ディティとダヌーの息子たちの中には、驕慢に満ちた者がおり、この世から堕ちて王として生まれた。

1.65.33

वीर्यवन्तोऽवलिप्तास्ते नानारूपधरा महीम् ।
इमां सागरपर्यन्तां परीयुररिमर्दनाः ॥ १.६५.३३ ॥

力強く傲慢で、様々な姿をとった敵を砕く者たちは、海に囲まれたこの大地を巡り歩いた。

1.65.34

ब्राह्मणान्क्षत्रियान्वैश्याञ्शूद्रांश्चैवाप्यपीडयन् ।
अन्यानि चैव सत्वानि पीडयामासुरोजसा ॥ १.६५.३४ ॥

彼らはバラモン、クシャトリヤ、ヴァイシャ、シュードラをも苦しめ、他の生き物をも力で虐げた。

1.65.35

त्रासयन्तोऽभिनिघ्नन्तः सर्वभूतगणांश्च ते ।
विचेरुः सर्वशो राजन्महीं शतसहस्रशः ॥ १.६५.३५ ॥

王よ、一切の生き物の群れを脅かし打ちのめしながら、彼らは数十万の大群となって至る所で大地を歩き回った。

1.65.36

आश्रमस्थान्महर्षींश्च धर्षयन्तस्ततस्ततः ।
अब्रह्मण्या वीर्यमदा मत्ता मदबलेन च ॥ १.६५.३६ ॥

あちこちで苦行林に住む大聖仙たちを襲い、バラモンに敵対し、力の驕りに狂い、驕りの力に酔いしれた者たちは……

1.65.37

एवं वीर्यबलोत्सिक्तैर्भूरियं तैर्महासुरैः ।
पीड्यमाना मही राजन्ब्रह्माणमुपचक्रमे ॥ १.६५.३७ ॥

このように、王よ、力と勢いの驕りに膨れ上がったあの偉大なアスラたちに苦しめられた大地は、ブラフマーのもとへ向かった。

1.65.38

न ह्यमी भूतसत्वौघाः पन्नगाः सनगां महीम् ।
तदा धारयितुं शेकुराक्रान्तां दानवैर्बलात् ॥ १.६५.३८ ॥

その時、これらの生類の群れと蛇族は、ダーナヴァによって力ずくで押さえつけられた山々を伴う大地を支えることができなかった。

1.65.39

ततो मही महीपाल भारार्ता भयपीडिता ।
जगाम शरणं देवं सर्वभूतपितामहम् ॥ १.६५.३९ ॥

そのとき、大地の守護者よ、重荷に苦しみ恐怖に責められた大地は、一切衆生の祖父である神のもとへ庇護を求めて赴いた。

1.65.40

सा संवृतं महाभागैर्देवद्विजमहर्षिभिः ।
ददर्श देवं ब्रह्माणं लोककर्तारमव्ययम् ॥ १.६५.४० ॥

彼女は、偉大な福徳を持つ神々、再生族、大仙たちに囲まれた、世界の創造主で不変なる神ブラフマーを見た。

1.65.41

गन्धर्वैरप्सरोभिश्च बन्दिकर्मसु निष्ठितैः ।
वन्द्यमानं मुदोपतैर्ववन्दे चैनमेत्य सा ॥ १.६५.४१ ॥

ガンダルヴァとアプサラスたちが吟唱者の務めとして喜びのうちに来て讃えている中、彼女は近づいて彼に礼拝した。

1.65.42

अथ विज्ञापयामास भूमिस्तं शरणार्थिनी ।
सन्निधौ लोकपालानां सर्वेषामेव भारत ॥ १.६५.४२ ॥

そこで庇護を求める大地は、すべての世界守護神の面前で彼に懇願を申し出た、バラタよ。

1.65.43

तत्प्रधानात्मनस्तस्य भूमेः कृत्यं स्वयंभुवः ।
पूर्वमेवाभवद्राजन्विदितं परमेष्ठिनः ॥ १.६५.४३ ॥

王よ、大地のその務めは、主なる自己を持つ自生の最高者に、以前からすでに知られていた。

1.65.44

स्रष्टा हि जगतः कस्मान्न संबुध्येत भारत ।
ससुरासुरलोकानामशेषेण मनोगतम् ॥ १.६५.४४ ॥

バラタよ、世界の創造者がどうして知らないことがあろうか。神々と阿修羅の世界の心の中の思いを、彼は余すところなく知っている。

1.65.45

तामुवाच महाराज भूमिं भूमिपतिः प्रभुः ।
प्रभवः सर्वभूतानामीशः शंभुः प्रजापतिः ॥ १.६५.४५ ॥

大王よ、大地の主であり、全ての存在の源であり、主であるシャンブ、生類の主なる強大な主が、その大地に語りかけた。

1.65.46

यदर्थमभिसंप्राप्ता मत्सकाशं वसुन्धरे ।
तदर्थं सन्नियोक्ष्यामि सर्वानेव दिवौकसः ॥ १.६५.४६ ॥

ヴァスンダラーよ、お前が私のもとに来た目的のために、天界に住むすべての者たちを派遣しよう。

1.65.47

उत्तिष्ठ गच्छ वसुधे स्वस्थानमिति साऽगमत् ।
इत्युक्त्वा स महीं देवो ब्रह्मा राजन्विसृज्य च।
आदिदेश तदा सर्वान्विबुधान्भूतकृत्स्वयम् ॥ १.६५.४७ ॥

「立ちなさい、行きなさい、ヴァスダーよ、自分の場所へ」と言うと、彼女は去っていった。王よ、神ブラフマーは大地を送り出すと、そして自ら万物の創造者として、すべての神々に命じた。

1.65.48

अस्या भूमेर्निरसितुं भारं भागैः पृथक्पृथक् ।
अस्यामेव प्रसूयध्वं तिरोधायेति चाब्रवीत् ॥ १.६५.४८ ॥

「この大地の重荷を取り除くため、お前たちはそれぞれ別々の分身となって、この大地の中に生まれよ」と彼は言った。

1.65.49

तथैव च समानीय गन्धर्वाप्सरसां गणान् ।
उवाच भगवान्सर्वानिदं वचनमर्थवत् ॥ १.६५.४९ ॥

同様に尊い御方はガンダルヴァとアプサラスの群れを集め、皆にこの意味深い言葉を告げられた。

1.65.50

स्वैः स्वैरंशैः प्रसूयध्वं यथेष्टं मानेषेषु च ।
अथ शक्रादयः सर्वे श्रुत्वा सुरगुरोर्वचः।
तथ्यमर्थ्यं च पथ्यं च तस्य ते जगृहुस्तदा ॥ १.६५.५० ॥

それぞれ自らの分身によって、人間の間に望むままに生まれよ。そこでインドラをはじめとする諸神は神々の師の言葉を聞き、それを真実で益があり善いものと受け入れた。

1.65.51

अथ ते सर्वशोंशैः स्वैर्गन्तुं भूमिं कृतक्षणाः ।
नारायणममित्रघ्नं वैकुण्ठमुपचक्रमुः ॥ १.६५.५१ ॥

そこで彼らは皆、自らの分身をもって大地へ赴くことを決め、ヴァイクンタにおいて敵を討つナーラーヤナに近づいた。

1.65.52

यः स चक्रगदापाणिः पीतवासाः शितिप्रभः ।
पद्मनाभः सुरारिघ्नः पृथुचार्वञ्चितेक्षणः ॥ १.६५.५२ ॥

円盤と棍棒を手にし、黄衣をまとい、暗青色の輝きを放ち、臍から蓮が生じ、神々の敵を討ち、広く美しく長く弧を描く目をもつ御方。

1.65.53

प्रजापतिपतिर्देवः सुरनाथो महाबलः ।
श्रीवत्साङ्को हृषीकेशः सर्वदैवतपूजितः ॥ १.६५.५३ ॥

生類の主の主である神、神々の主、大力者、シュリーヴァトサの印をもつ、感官の主フリシーケーシャ、一切の神々に供養される御方。

1.65.54

तं भुवः शोधनायेन्द्र उवाच पुरुषोत्तमम् ।
अंशेनावतरेत्येवं तथेत्याह च तं हरिः ॥ १.६५.५४ ॥

大地を浄めるため、インドラはその最上の人に言った。「分身をもって降り給え。」するとハリは彼に言った。「そのようにしよう。」