摩诃婆罗多 · 章 1.66
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.66.2
अथ नारायणेनेन्द्रश्चकार सह संविदम् ।
अवतर्तुं महीं स्वर्गादंशतः महितः सुरैः
आदिश्य च स्वयं शक्रः सर्वानेव दिवौकसः ।
निर्जगाम पुनस्तस्मात्क्षयान्नारायणस्य ह ॥ १.६६.२ ॥
于是因陀罗与那罗延达成协议,诸天神将分身从天界降临大地。因陀罗亲自向所有天界居民发出命令,随后从那罗延的居所返回。
1.66.3
तेऽमरारिविनाशाय सर्वलोकहिताय च ।
अवतेरुः क्रमेणैव महीं स्वर्गाद्दिवौकसः ॥ १.६६.३ ॥
为了消灭不死者的敌人,也为了一切世界的福祉,他们依次从天界降临大地。
1.66.4
ततो ब्रह्मर्षिवंशेषु पार्थिवर्षिकुलेषु च ।
जज्ञिरे राजशार्दूल यथाकामं दिवौकसः ॥ १.६६.४ ॥
然后,王中之虎啊,天界居民按照自己的意愿,降生于婆罗门仙人的家族和王仙的家族之中。
1.66.5
दानवान्राक्षसांश्चैव गन्धर्वान्पन्नगांस्तथा ।
पुरुषादानि चान्यानि जघ्नुः सत्वान्यनेकशः ॥ १.६६.५ ॥
他们以多种方式击杀了檀那婆、罗刹、乾达婆、蛇类以及其他食人的生灵。
1.66.6
दानवा राक्षसाश्चैव गन्धर्वाः पन्नगास्तथा ।
न तान्बलस्थान्बाल्येऽपि जघ्नुर्भरतसत्तम ॥ १.६६.६ ॥
檀那婆、罗刹、乾达婆与蛇类——婆罗多中最杰出者啊——即使他们强壮,他们在幼年时也未曾杀害。
1.66.7
देवदानवसङ्घानां गन्धर्वाप्सरसां तथा ।
मानवानां च सर्वेषां तथा वै यक्षरक्षसाम् ॥ १.६६.७ ॥
请讲述诸天神与檀那婆众、乾达婆与阿普萨拉斯、人类,以及夜叉与罗刹的(历史)——关于他们所有人。
1.66.8
श्रोतुमिच्छामि तत्त्वेन संभवं कृत्स्नमादितः ।
प्राणिनां चैव सर्वेषां संभवं वक्तुमर्हसि ॥ १.६६.८ ॥
我希望从头到尾如实地听闻一切众生的起源;您理应为我宣说。
1.66.9
हन्त ते कथयिष्यामि नमस्कृत्य स्वयंभुवे ।
सुरादीनामहं सम्यग्लोकानां प्रभवाप्ययम् ॥ १.६६.९ ॥
好吧,我向自生者致敬之后,将为你正确地讲述诸天等及诸世界的生起与消逝。
1.66.10
ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः ।
मरीचिरत्र्यह्गिरसौ पुलस्त्यः पुलहः क्रतुः ॥ १.६६.१० ॥
梵天的意生诸子,即著名的六大仙人:摩哩质、阿特黎、盎基罗、补罗斯底、补罗诃与迦图。
1.66.11
मरीचेः कश्यपः पुत्रः कश्यपात्तु इमाः प्रजाः ।
प्रजज्ञिरे महाभागा दक्षकन्यास्त्रयोदश ॥ १.६६.११ ॥
摩哩质之子是迦叶;从迦叶生出这些众生。达刹的十三位大福德的女儿也生了出来。
1.66.12
अदितिर्दितिर्दनुः काला दनायुः सिंहिका तथा ।
क्रोधा प्राधा च विश्वा च विनता कपिला मुनिः ॥ १.६६.१२ ॥
阿底提、底提、达努、迦罗、达那优、师子颊,以及忿怒、宫、一切、毗那多、褐色、牟尼。
1.66.13
कद्रूश्च मनुजव्याघ्र दक्षकन्यैव भारत ।
एतासां वीर्यसंपन्नं पुत्रपौत्रमनन्तकम् ॥ १.६६.१३ ॥
迦都卢也是达刹之女,人中虎啊,婆罗多后裔。从她们生出具足威力的子孙,数不胜数。
1.66.14
अदित्यां द्वादशादित्याः संभूता भुवनेश्वराः ।
ये राजन्नामतस्तांस्ते कीर्तयिष्यामि भारत ॥ १.६६.१४ ॥
阿底提生下十二位阿底提耶,乃诸世界之主。国王啊,婆罗多,我将向你叙述他们的名字。
1.66.15
धाता मित्रोऽर्यमा शक्रो वरुणस्त्वंश एव च ।
भगो विवस्वान्पूषा च सविता दशमस्तथा ॥ १.६६.१५ ॥
提陀、弥多罗、阿瑜曼、帝释、伐楼那、分配者、薄伽、毗婆薮、补湿、第十位萨维特里,同样如此。
1.66.16
एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते ।
जघन्यजस्तु सर्वेषामादित्यानां गुणाधिकः ॥ १.६६.१६ ॥
第十一位是特瓦湿陀,第十二位称为毗湿奴。诸阿底提耶中最年幼者,德行最为殊胜。
1.66.17
एक एव दितेः पुत्रो हिरण्यकशिपुः स्मृतः ।
नाम्ना ख्यातास्तु तस्येमे पञ्च पुत्रा महात्मनः ॥ १.६६.१७ ॥
提提唯一的儿子被称为希兰耶迦西普。那位大德之人的这五个儿子以名字而闻名。
1.66.18
प्रह्लादः पूर्वजस्तेषां संह्लादस्तदनन्तरम् ।
अनुह्लादस्तृतीयोऽभूत्तस्माच्च शिबिबाष्कलौ ॥ १.६६.१८ ॥
他们中最年长的是钵罗诃罗陀;其次是僧诃罗陀,第三是阿努诃罗陀,由他生出尸毗与婆湿迦罗。
1.66.19
प्रह्लादस्य त्रयः पुत्राः ख्याताः सर्वत्र भारत ।
विरोचनश्च कुम्भश्च निकुम्भश्चेति भारत ॥ १.६६.१९ ॥
钵罗诃罗陀的三个儿子处处闻名,婆罗多啊:毗卢遮那、昆跋与尼昆跋。
1.66.20
विरोचनस्य पुत्रोऽभूद्बलिरेकः प्रतापवान् ।
बलेश्च प्रथितः पुत्रो बाणो नाम महासुरः ॥ १.६६.२० ॥
毗卢遮那之子钵利出生,他独一无二,威力非凡。钵利的著名之子是名为婆那的大阿修罗。
1.66.21
रुद्रस्यानुचरः श्रीमान्महाकालेति यं विदुः ।
चत्वारिंशद्दनोः पुत्राः ख्याताः सर्वत्र भारत ॥ १.६६.२१ ॥
楼陀罗的光荣侍从,被称为摩诃迦罗;婆罗多啊,檀努的四十个儿子处处闻名。
1.66.22
तेषां प्रथमजो राजा विप्रचित्तिर्महायशाः ।
शम्बरो नमुचिश्चैव पुलोमा चेति विश्रुतः ॥ १.६६.२२ ॥
他们之中长子是国王毗普罗奇提,声名显赫;商巴罗、那穆奇,以及普罗玛也都闻名。
1.66.23
असिलोमा च केशी च दुर्जयश्चैव दानवः ।
अयःशिरा अश्वशिरा अश्वशह्कुश्च वीर्यवान् ॥ १.६६.२३ ॥
阿悉罗摩、羯西,以及檀那婆杜尔贾耶;还有铁头、马头,以及勇猛的马鞭。
1.66.24
तथा गगनमूर्धा च वेगवान्केतुमांश्च सः ।
स्वर्भानुरश्वोऽश्वपतिर्वृषपर्वाऽजकस्तथा ॥ १.६६.२४ ॥
同样还有天首,迅捷的罗睺,即斯伐跋努、阿濕婆、阿濕婆波提、伐利沙波婆和阿遮迦。
1.66.25
अश्वग्रीवश्च सूक्ष्मश्च तुहुण्डश्च महाबलः ।
इषुपादेकचक्रश्च विरूपाक्षहराहरौ ॥ १.६६.२५ ॥
马颈、细微,以及大力的图顿达;箭足、独轮、毗卢巴克沙,还有哈罗与阿哈罗。
1.66.26
निचन्द्रश्च निकुम्भश्च कुपटः कपटस्तथा ।
शरभः शलभश्चैव सूर्याचन्द्रमसौ तथा।
एते ख्याता दनोर्वंशे दानवाः परिकीर्तिताः ॥ १.६६.२६ ॥
尼占德罗、尼昆婆、库帕吒、卡帕吒、舍罗婆与舍罗婆,以及名为太阳与月亮的二者——这些檀那婆在檀奴的家族中被称为著名者。
1.66.27
अन्यौ तु खलु देवानां सूर्याचन्द्रमसौ स्मृतौ ।
अन्यौ दानवमुख्यानां सूर्याचन्द्रमसौ तथा ॥ १.६६.२७ ॥
然而,诸天神的日与月被认为是另一对;诸大檀那婆的日与月也是另一对。
1.66.28
इमे च वंशाः प्रथिताः सत्ववन्तो महाबलाः ।
दनुपुत्रा महाराज दश दानववंशजाः ॥ १.६६.२८ ॥
这些家族闻名遐迩,具有德性与强大力量。大王啊,檀奴的十个儿子生于檀那婆的家族之中。
1.66.29
एकाक्षो मृतपो वीरः प्रलम्बनरकावपि ।
वातापिः शत्रुतपनः शठश्चैव महासुरः ॥ १.६६.२९ ॥
独目、英雄死祭、以及毗罗婆与那罗迦,婆陀毗,令敌人受苦者,沙陀,以及大阿修罗。
1.66.30
गविष्ठश्च वनायुश्च दीर्घजिह्वश्च दानवः ।
असङ्ख्येयाः स्मृतास्तेषां पुत्राः पौत्राश्च भारत ॥ १.६६.३० ॥
高利什陀、婆那由,以及檀那婆长舌。婆罗多啊,他们的子孙与曾孙被记为不可胜数。
1.66.31
सिंहिका सुषुवे पुत्रं राहुं चन्द्रार्कमर्दनम् ।
सुचन्द्रं चन्द्रहर्तारं तथा चन्द्रप्रमर्दनम् ॥ १.६६.३१ ॥
辛诃迦生了一子名罗睺,乃摧残月与日者;又生苏旃陀罗,乃夺月者,亦为扰月者。
1.66.32
क्रूरस्वभावं क्रूरायाः पुत्रपौत्रमनन्तकम् ।
गणः क्रोधवशो नाम क्रूरकर्माऽरिमर्दनः ॥ १.६६.३२ ॥
克鲁拉的子孙后代本性残酷,不计其数。有一群名为克罗达婆舍(Krodhavaśa)的神众,行事残忍,能摧毁敌人。
1.66.33
दनायुषः पुनः पुत्राश्चत्वारोऽसुरपुंगवाः ।
विक्षरो बलवीरौ च वृत्रश्चैव महासुरः ॥ १.६६.३३ ॥
达那于又有四子,皆为阿修罗中的翘楚:毗克沙罗、钵罗、毗罗,以及大阿修罗弗栗多。
1.66.34
कालायाः प्रथिताः पुत्राः कालकल्पाः प्रहारिणः ।
प्रविख्याता महावीर्या दानवेषु परन्तपाः ॥ १.६६.३४ ॥
迦罗的著名诸子,出击如同死神,声名远播,威力巨大,在檀那婆中是令敌人灼热的英雄。
1.66.35
विनाशनश्च क्रोधश्च क्रोधहन्ता तथैव च ।
क्रोधशत्रुस्तथैवान्ये कालकेया इति श्रुताः ॥ १.६६.३५ ॥
毗那舍那、憤怒、憤怒殺者,以及憤怒之敵,還有其他人,這些人被稱為迦羅可耶。
1.66.36
असुराणामुपाध्यायः शक्रस्त्वषिसुतोऽभवत् ।
ख्याताश्चोशनसः पुत्राश्चत्वारोऽसुरयाजकाः ॥ १.६६.३६ ॥
湿婆多的儿子室建陀,乃是阿修罗的导师;乌尚那斯的四子则是著名的阿修罗祭司。
1.66.37
त्वष्टा धरस्तथात्रिश्च द्वावन्यौ रौद्रकर्मिणौ ।
तेजसा सूर्यसंकाशा ब्रह्मलोकपरायणाः ॥ १.६६.३७ ॥
特瓦什特里、达罗、阿特里,以及另外两位行事残忍者;他们光辉如太阳,专心于梵天界。
1.66.38
इत्येष वंशप्रभवः कथितस्ते तरस्विनाम् ।
असुराणां सुराणां च पुराणे संश्रुतो मया ॥ १.६६.३८ ॥
如此,关于这些英勇者的血统已向你讲述,这是我在往世书中听闻的关于阿修罗与天神的记述。
1.66.39
एतेषां यदपत्यं तु न शक्यं तदशेषतः ।
प्रसंख्यातुं महीपाल गुणभूतमनन्तकम् ॥ १.६६.३९ ॥
啊,大地的守护者,他们的子孙无法全部列举;他们具备德性,且无穷无尽。
1.66.40
तार्क्ष्यश्चारिष्टनेमिश्च तथैव गरुडारुणौ ।
आरुणिर्वारुणिश्चैव वैनतेयाः प्रकीर्तिताः ॥ १.६६.४० ॥
塔尔克希耶、阿利什塔奈弥,以及迦楼罗与阿如那、阿如尼与婆如尼——这些被称为毗娜塔之子。
1.66.41
शेषोऽनन्तो वासुकिश्च तक्षकश्च भुजङ्गमः ।
कूर्मश्च कुलिकश्चैव काद्रवेयाः प्रकीर्तिताः ॥ १.६६.४१ ॥
舍沙、阿难多、婆苏吉、德叉迦、蛇、龟与俱利迦——这些被称为迦度之子。
1.66.42
भीमसेनोग्रसेनौ च सुपर्णो वरुणस्तथा ।
गोपतिर्धृतराष्ट्रश्च सूर्यवर्चाश्च सप्तमः ॥ १.६६.४२ ॥
薄娑那与乌格罗娑那、苏波那与伐楼那,以及戈帕提与持国,第七位是日光。
1.66.43
सत्यवागर्कपर्णश्च प्रयुतश्चापि विश्रुतः ।
भीमश्चित्ररथश्चैव विख्यातः सर्वविद्वशी ॥ १.६६.४३ ॥
真语者、阿迦波尔那与普由多亦负盛名;薄摩与旗车亦以精通一切学问而闻名。
1.66.44
तथा शालिशिरा राजन्पर्जन्यश्च चतुर्दशः ।
कलिः पञ्चदशस्तेषां नारदश्चैव षोडशः
इत्येते देवगन्धर्वा मौनेयाः परिकीर्तिताः ॥ १.६६.४४ ॥
同样,大王啊,沙利希罗、第十四的帕尔贾尼亚、第十五的迦利,以及第十六的那罗陀。这些天神乾闼婆被称为牟尼之子。
1.66.45
अथ प्रभूतान्यन्यानि कीर्तयिष्यामि भारत ।
अनवद्यां मनुं वंशामसुरां मार्गणप्रियाम् ॥ १.६६.४५ ॥
现在,婆罗多啊,我将讲述许多其他的世系:无瑕的摩奴之系、阿修罗之系,以及喜爱箭矢者之系。
1.66.46
अरूपां सुभगां भासीमिति प्राधा व्यजायत ।
सिद्धः पूर्णश्च बर्हिश्च पूर्णायुश्च महायशाः ॥ १.६६.४६ ॥
普罗陀生下了阿努帕、苏跋伽和跋西。还有悉达、布尔那、巴尔希,以及大名的布尔那优。
1.66.47
ब्रह्मचारी रतिगुणः सुपर्णश्चैव सप्तमः ।
विश्वावसुश्च भानुश्च सुचन्द्रो दशमस्तथा ॥ १.६६.४७ ॥
梵行者、罗提求那,以及第七位苏跋尔那;毗首跋苏、婆努,以及第十位苏旃陀罗。
1.66.48
इत्येते देवगन्धर्वाः प्राधेयाः परिकीर्तिताः ।
इमं त्वप्सरसां वंशं विदितं पुण्यलक्षणम् ॥ १.६६.४८ ॥
这些天神乾闼婆被称为普罗陀的后裔。现在听这一支阿普萨拉斯的世系,它声名远播,带有吉祥的标记。
1.66.49
अरिष्टाऽसूत सुभगा देवी देवर्षितः पुरा ।
अलम्बुषा मिश्रकेशी विद्युत्पर्णा तिलोत्तमा ॥ १.६६.४९ ॥
往昔,吉祥女神阿利什塔从天仙那里生下了阿兰布莎、米什拉开西、毗俱特帕尔那和蒂洛塔玛。
1.66.50
अरुणा रक्षिता चैव रम्भा तद्वन्मनोरमा ।
केशिनी च सुबाहुश्च सुरता सुरजा तथा ॥ १.६६.५० ॥
阿茹那、罗克希塔、兰跋,同样还有摩诺罗摩、柯西尼、苏跋护、苏罗多和苏罗遮。
1.66.51
सुप्रिया चातिबाहुश्च विख्यातौ च हाहा हूहूः ।
तुम्बुरुश्चेति चत्वारः स्मृता गन्धर्वसत्तमाः ॥ १.६६.५१ ॥
苏普利雅、阿提跋护、著名的哈哈与呼呼,以及屠半卢——这四位被称为最优秀的健达缚。
1.66.52
अमृतं ब्राह्मणा गावो गन्धर्वाप्सरसस्तथा ।
अपत्यं कपिलायास्तु पुराणे परिकीर्तितम् ॥ १.६६.५२ ॥
甘露、婆罗门、牛、健达缚与阿普萨拉斯,同样——迦毗罗的后代在往世书中被如此宣说。
1.66.53
इति ते सर्वभूतानां संभवः कथितो मया ।
यथावत्संपरिख्यातो गन्धर्वाप्सरसां तथा ॥ १.६६.५३ ॥
如此,我已为你讲述了一切众生的起源,健达缚与阿普萨拉斯的起源也已如实陈述。
1.66.54
भुजंगानां सुपर्णानां रुद्राणां मरुतां तथा ।
गवां च ब्राह्मणानां च श्रीमतां पुण्यकर्मणाम् ॥ १.६६.५४ ॥
蛇、金翅鸟(迦楼罗)、楼陀罗、摩噜多,以及牛、婆罗门、有福者与行善积德者的起源。
1.66.55
आयुष्यश्चैव पुण्यश्च धन्यः श्रुतिसुखावहः ।
श्रोतव्यश्चैव सततं श्राव्यश्चैवानसूयता ॥ १.६६.५५ ॥
此篇延年益寿,带来功德,吉祥可喜,悦耳动听;应当常常聆听,并应由不怀嫉妒之人诵读。
1.66.56
इमं तु वंशं नियमेन यः पठे-
न्महात्मनां ब्राह्मणदेवसन्निधौ।
अपत्यलाभं लभते स पुष्कलं ।
श्रियं यशः प्रेत्य च शोभनां गतिम् ॥ १.६६.५६ ॥
若有人在婆罗门与诸神面前依规读诵这位伟大灵魂的世系,便能得到众多子嗣、昌盛与名声,死后也得到美好的归宿。