摩诃婆罗多 · 章 1.7
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.7.1
शप्तस्तु भृगुणा वह्निः क्रुद्धो वाक्यमथाब्रवीत् ।
किमिदं साहसं ब्रह्मन्कृतवानसि मां प्रति ॥ १.७.१ ॥
Agni被Bhṛgu诅咒后,愤怒地说道:"婆罗门啊,你竟对我做出这样的鲁莽之事?"
1.7.2
धर्मे प्रयतमानस्य सत्यं च वदतः समम् ।
पृष्टो यदब्रवं सत्यं व्यभिचारोऽत्र को मम ॥ १.७.२ ॥
我努力行法,始终如一地说真话;被问及时说了真话,这里我有什么过失?
1.7.3
पृष्टो हिसाक्षीयः साक्ष्यं जानानोऽप्यन्यथा वदेत् ।
स पूर्वानात्मनः सप्त कुले हन्यात्तथाऽपरान् ॥ १.७.३ ॥
被问及的证人,明知真相却说假话,便会毁灭家族中之前的七代,以及之后的世代。
1.7.4
यश्च कार्यार्थतत्त्वज्ञो जानानोऽपि न भाषते ।
सोऽपि तेनैव पापेन लिप्यते नात्र संशयः ॥ १.७.४ ॥
知晓事情真相却不说的人,也同样被这罪过所沾染——对此毫无疑问。
1.7.5
शक्तोऽहमपि शप्तुं त्वां मान्यास्तु ब्राह्मणा मम ।
जानतोऽपि च ते ब्रह्मन्कथयिष्ये निबोध तत् ॥ १.७.५ ॥
我也能够诅咒你,但婆罗门为我所尊重。婆罗门啊,虽然你已知道,我仍要说出它——请听。
1.7.6
योगेन बहुधाऽऽत्मानं कृत्वा तिष्ठामि मूर्तिषु ।
अग्निहोत्रेषु सत्रेषु क्रियासु च मखेषु च ॥ १.७.६ ॥
借助瑜伽,我使自身化为多种形态,安住于火供、长期祭祀、仪式与献祭之中。
1.7.7
वेदोक्तेन विधानेन मयि यद्धूयते हविः ।
देवताः पितरश्चैव तेन तृप्ता भवन्ति वै ॥ १.७.७ ॥
依照吠陀所说的仪轨,向我供奉的祭品,确实使诸神与祖先得到满足。
1.7.8
आपो देवगणाः सर्वे आपः पितृगणास्तथा ।
दर्शश्च पौर्णमासश्च देवानां पितृभिः सह ॥ १.७.८ ॥
水即是诸神众,水也即是祖先众。新月与满月的祭祀与诸神和祖先相连。
1.7.9
देवताः पितरस्तस्मात्पितरश्चापि देवताः ।
एकीभूताश्च दृश्यन्ते पृथक्त्वेन च पर्वसु ॥ १.७.९ ॥
因此诸神即是祖先,祖先也即是诸神。他们虽合为一体,在节日里却显现为各自分别。
1.7.10
देवताः पितरश्चैव भुञ्जते मयि यद्भुतम् ।
देवतानां पितॄणां च मुखमेतदहं स्मृतम् ॥ १.७.१० ॥
诸神与祖先享用供奉于我的祭品。诸神与祖先之口,被宣称即是我。
1.7.11
अमावास्यां हि पितरः पौर्णमास्यां हि देवताः ।
मन्मुखेनैव हूयन्ते भुञ्जते च हुतं हविः ॥ १.७.११ ॥
新月之日祖先、满月之日诸神,仅经由我的口接受供奉,并享用所献的祭品。
1.7.12
सर्वभक्षः कथं त्वेषां भविष्यामि मुखं त्वहम् ।
चिन्तयित्वा ततो वह्निश्चके संहारमात्मनः ॥ १.७.१२ ॥
“我作为他们的口,又如何能成为吞食一切者呢?”如此思量之后,火神便决意毁灭自身。
1.7.13
द्विजानामग्निहोत्रेषु यज्ञसत्रक्रियासु च ।
निरोंकारवषट्काराः स्वधास्वाहाविवर्जिताः ॥ १.७.१३ ॥
在再生族的火祭和祭祀及祭会的仪式中,不再有唵(oṃ)、婆沙吒(vaṣaṭ),也没有了斯婆陀(svadhā)与斯婆诃(svāhā)。
1.7.14
विनाऽग्निना प्रजाः सर्वास्तत आसन्सुदुःखिताः ।
अथर्षयः समुद्विग्ना देवान् गत्वाब्रुवन्वचः ॥ १.७.१४ ॥
此时,失去火的一切众生都极为悲苦;惶恐不安的仙人们前去拜见诸神,说出了这些话。
1.7.15
अग्निनाशात्क्रियाभ्रांशाद्भ्रान्ता लोकास्त्रयोऽनघाः ।
विधध्वमत्र यत्कार्यं न स्यात्कालात्ययो यथा ॥ १.७.१५ ॥
无罪的诸神啊!火的消失和祭祀的败坏使三界陷入迷乱。请在此谋划应当做的事,使时光不致白白流逝。
1.7.16
अथर्षयश्च देवाश्च ब्रह्माणमुपगम्य तु ।
अग्नेरावेदयञ्शापं क्रियासंहारमेव च ॥ १.७.१६ ॥
于是仙人与诸神前往梵天处,禀告了加诸火神的诅咒以及祭祀之被毁。
1.7.17
भृगुणा वै महाभाग शप्तोऽग्निः कारणान्तरे ।
कथं देवमुखो भूत्वा यज्ञभागाग्रभुक् तथा ॥ १.७.१७ ॥
大福者啊!婆利古因另一事由诅咒了火神。那作为诸神之口、首先享用祭祀分供的,怎么竟会沦落至此?
1.7.18
हुतभुक्सर्वलोकेषु सर्वभक्षत्वमेष्यति ।
श्रुत्वा तु तद्वचस्तेषामग्निमाहूय विश्वकृत् ॥ १.७.१८ ॥
食供的火神将在一切世界中成为吞噬一切者。听闻他们的话后,宇宙的创造者召唤了火神。
1.7.19
उवाच वचनं श्लक्ष्णं भूतभावनमव्ययम् ।
लोकानामिह सर्वेषां त्वं कर्ता चान्त एव च ॥ १.७.१९ ॥
他说了温和的话:"众生的养育者,不灭者,你是这里一切世界的创造者,也是它们的终结。"
1.7.20
त्वं धारयसि लोकांस्त्रीन्क्रियाणां च प्रवर्तकः ।
स तथा कुरु लोकेश नोच्छिद्येरन्यथा क्रियाः ॥ १.७.२० ॥
你承载三界,又推动一切祭仪。因此,世界之主啊,请如此行,免得祭祀断绝。
1.7.21
कस्मादेवं विमूढस्त्वमीश्वरः सन् हुताशेन ।
त्वं पवित्रं सदा लोके सर्वभूतगतिश्च ह ॥ १.७.२१ ॥
你身为主宰,为何竟被火所迷惑?你在世间始终是清净者,也是一切众生的归宿。
1.7.22
न त्वं सर्वशरीरेण सर्वभक्षत्वमेष्यसि ।
अपाने ह्यर्चिषो यास्ते सर्वं भक्ष्यन्ति ताः शिखिन् ॥ १.७.२२ ॥
你不会以整个身体成为吞噬一切者;啊,持焰者,唯有你在下部之中的那些火焰会吞噬一切。
1.7.23
क्रव्यादा च तनुर्या ते सा सर्वं भक्षयिष्यति ।
यथा सूर्यांशुभिः स्पृष्टं सर्वं शुचि विभाव्यते ॥ १.७.२३ ॥
而你那食肉之身将吞噬一切,正如被太阳光线照到的一切都显得清净。
1.7.24
तथा त्वदर्चिर्निर्दग्धं सर्वं शुचि भविष्यति ।
त्वमग्ने परमं तेजः स्वप्रभावाद्विनिर्गतम् ॥ १.७.२४ ॥
同样,被你的火焰焚烧的一切都将变得清净。啊,阿耆尼,你是从自身威力中显现出的至高光明。
1.7.25
स्वतेजसैव तं शापं कुरु सत्यमृषेर्विभो ।
देवानां चात्मनो भागं गृहाण त्वं मुखे हुतम् ॥ १.७.२५ ॥
啊,大能者,以你自身的光辉使仙人的诅咒成真。你要接受属于诸神和你自己的份额,作为祭品献入你口中。
1.7.26
एवमस्त्विति तं वह्निः प्रत्युवाच पितामहम् ।
जगाम शासनं कर्तुं देवस्य परमेष्ठिनः ॥ १.७.२६ ॥
火神回答祖父说:“就这样吧。”于是前去执行至高主神的命令。
1.7.27
देवर्षयश्च मुदितास्ततो जग्मुर्यथागतम् ।
ऋषयश्च यथा पूर्वं क्रियाः सर्वाः प्रचक्रिरे ॥ १.७.२७ ॥
天神仙人欢喜地依来路返回;诸仙人也如先前一样,重新举行所有的祭祀仪式。
1.7.28
दिवि देवा मुमुदिरे भूतसङ्घाश्च लौकिकाः ।
अग्निश्च परमां प्रीतिमवाप हतकल्मषः ॥ १.७.२८ ॥
天上的诸神欢喜,世间的众生也欢喜;火神也脱去污染,获得了无上的喜悦。
1.7.29
एवं स भगवाञ्छापं लेभेऽग्निर्भृगुतः पुरा ।
एवमेष पुरा वृत्त हतिहासोऽग्निशापजः।
पुलोम्नश्च विनाशोऽयं च्यवनस्य च संभवः ॥ १.७.२९ ॥
于是尊贵的火神昔日从婆理古那里受到了诅咒。这个由火神的诅咒而生的传说,过去便是这样发生的——补罗摩的毁灭与遮耶瓦那的诞生。