Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.78

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.78.1

जरां प्राप्य ययातिस्तु स्वपुरं प्राप्य चैव हि ।
पुत्रं ज्येष्ठं वरिष्ठं च यदुमित्यब्रवीद्वचः ॥ १.७८.१ ॥

耶耶提获得衰老后,回到自己的城中,对他的长子、最优秀的儿子雅度说了这番话。

1.78.2

जरावली च मां तात पलितानि च पर्यगुः ।
काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने ॥ १.७८.२ ॥

孩子啊,衰老的皱纹和白发已经缠上了我,由于乌夏纳斯(诗人)的诅咒,我在青春中仍未满足。

1.78.3

त्वं यदो प्रतिपद्यस्व पाप्मानं जरया सह ।
यौवनेन त्वदीयेन चरेयं विषयानहम् ॥ १.७८.३ ॥

啊雅度,你承担这衰老之苦吧,凭你的青春,愿我享受诸般感官之乐。

1.78.4

पूर्णे वर्षसहस्रे तु पुनस्ते यौवनं त्वहम् ।
दत्त्वा स्वं प्रतिपत्स्यामि पाप्मानं जरया सह ॥ १.७८.४ ॥

满一千年时,我将把我的青春归还给你,并再次承担衰老之苦。

1.78.5

जरायां बहवो दोषाः पानभोजनकारिताः ।
तस्माज्जरां न ते राजन्ग्रहीष्य इति मे मतिः ॥ १.७८.५ ॥

衰老之中有许多由饮食所生的过失;所以,大王,我不会接受你的衰老——这是我的决定。

1.78.6

सितश्मश्रुर्निरानन्दो जरया शिथिलीकृतः ।
वलीसङ्गतगात्रस्तु दुर्दर्शो दुर्बलः कृशः ॥ १.७८.६ ॥

白须、无欢、被衰老削弱、肢体布满皱纹、难以直视、虚弱而消瘦。

1.78.7

अशक्तः कार्यकरणे परिभूतः स यौवतैः ।
सहोपजीविभिश्चैव तां जरां नाभिकामये ॥ १.७८.७ ॥

无力履行职责,被年轻人和与他同住的人轻慢,我不愿要那样的衰老。

1.78.8

सन्ति ते बहवः पुत्रा मत्तः प्रियतरा नृप ।
जरां ग्रहीतुं धर्मज्ञ तस्मादन्यं वृणीष्व वै ॥ १.७८.८ ॥

国王啊,你有许多比我更受你喜爱的儿子。精通法的人啊,请另选他人来承受衰老吧。

1.78.9

यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि ।
तस्मादराज्यभाक्तात प्रजा तव भविष्यति ॥ १.७८.९ ॥

你虽生于我的心,却不把你的青春给我,所以,我的儿子,你不能分享王权;你的后代也将如此。

1.78.10

प्रत्याख्यातस्तु राजा स तुर्वसुं प्रत्युवाच ह ।
तुर्वसो प्रतिपद्यस्व पाप्मानं जरया सह।
यौवनेन चरेयं वै विषयांस्तव पुत्रक ॥ १.७८.१० ॥

被如此拒绝后,国王对突婆苏说:突婆苏,请连同衰老一起承受那种苦恼;我将以青春享受你的享乐,我亲爱的儿子。

1.78.11

पूर्णे वर्षसहस्रे तु पुनर्दास्यामि यौवनम् ।
स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह ॥ १.७८.११ ॥

满一千年时,我将把你的青春归还给你,而我自己也将连同衰老一起承受那种苦恼。

1.78.12

न कामये जरां तात कामभोगप्रणाशिनीम् ।
बलरूपान्तकरणीं बुद्धिप्राणप्रणाशिनीम् ॥ १.७८.१२ ॥

父亲,我不愿要那种摧毁欲望与享受、终结力量与容貌、毁坏智慧与生命的衰老。

1.78.13

यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि ।
तस्मात्प्रजा समुच्छेदं तुर्वसो तव यास्यति ॥ १.७८.१३ ॥

你虽生于我心,却不肯把你的青春给我;因此,图尔瓦苏啊,你的后代必将灭绝。

1.78.14

संकीर्णाचारधर्मेषु प्रतिलोमचरेषु च ।
पिशिताशिषु चान्त्येषु मूढ राजा भविष्यसि ॥ १.७८.१४ ॥

愚人啊,你将成为行为与法度混杂者、逆行者、食肉者和卑贱者的国王。

1.78.15

गुरुदारप्रसक्तेषु तिर्यग्योनिगतेषु च ।
पशुधर्मेषु पापेषु म्लेच्छेषु त्वं भविष्यसि ॥ १.७८.१५ ॥

你将成为沉溺于师母的人、出生于畜生之胎的人、行为如畜生的人、罪人和蛮夷的国王。

1.78.16

एवं स तुर्वसुं शप्त्वा ययातिः सुतमात्मनः ।
शर्मिष्ठायाः सुतं द्रुह्युमिदं वचनमब्रवीत् ॥ १.७८.१६ ॥

如此,耶耶提诅咒了自己的儿子图尔瓦苏,然后对沙尔弥什塔之子德鲁希尤说了这些话。

1.78.17

द्रुह्यो त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम् ।
जरां वर्षसहस्रं मे यौवनं स्वं ददस्व च ॥ १.७८.१७ ॥

德鲁希尤啊,请你接受这毁坏容颜与美貌的衰老,并把你的青春给我一千年。

1.78.18

पूर्णे वर्षसहस्रे तु पुनर्दास्यामि यौवनम् ।
स्वं चादास्यामि भूयोऽहं पाप्मानं जरया सह ॥ १.७८.१८ ॥

待一千年满足,我将把你的青春还给你,而我自己将再次承受罪过与衰老。

1.78.19

न गजं न रथं नाश्वं जीर्णो भुङ्क्ते न च स्त्रियम् ।
वाग्भङ्गश्चास्य भवति तां जरां नाभिकामये ॥ १.७८.१९ ॥

衰老之人既不能享受象、车、马,也不能享受女子;其言语也变得含混。我不愿要这样的衰老。

1.78.20

यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि ।
तस्माद्द्रुह्यो प्रियः कामो न ते संपत्स्यते क्वचित् ॥ १.७८.२० ॥

你虽生于我心,却不将你的青春给我,因此,德鲁希优啊,你所珍爱的愿望将永远不会实现。

1.78.21

यत्राश्वरथमुख्यानामश्वानां स्याद्गतं न च ।
हस्तिनां पीठकानां च गर्दभानां तथैव च ॥ १.७८.२१ ॥

若无良马与良车、马、象、轿子和驴可以通行之处,

1.78.22

बस्तानां च गवां चैव शिबिकायास्तथैव च ।
उडुपप्लवसंतारो यत्र नित्यं भविष्यति। ॥ १.७८.२२ ॥

若无羊、牛与轿可以通行,且常须乘筏或舟渡河之处,

1.78.23

अनो त्वं प्रतिपद्यस्व पाप्मानं जरया सह ।
एकं वर्षसहस्रं तु चरेयं यौवनेन ते ॥ १.७८.२३ ॥

阿奴啊,请你接受我的衰老与其苦恼;我将以你的青春生活一千年。

1.78.24

जीर्णः शिशुवदादत्ते कालेऽन्नमशुचिर्यथा ।
न जुहोति च कालेऽग्निं तां जरां नाभिकामये ॥ १.७८.२४ ॥

衰老之人像孩童一样不分时候地进食,身不洁净,也不在适当的时候向火供奉。这样的衰老我不愿要。

1.78.25

यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि ।
जरादोषस्त्वया प्रोक्तस्तस्मात्त्वं प्रतिलप्स्यसे ॥ १.७८.२५ ॥

你生于我心,却不肯把你的青春给我;是你自己说出了衰老的过失,因此你也将承受它。

1.78.26

प्रजाश्च यौवनप्राप्ता विनशिष्यन्त्यनो तव ।
अग्निप्रस्कन्दनपरस्त्वं चाप्येवं भविष्यसि ॥ १.७८.२६ ॥

你的后代中获得青春的人将因你而灭亡;你自己也将终日忙于向火中献祭。

1.78.27

प्रत्याख्यातश्चतुर्भिश्च शप्त्वा तान्यदुपूर्वकान् ।
पूरोः सकाशमगमन्मत्त्वा पूरुमलङ्घनम् ॥ १.७८.२७ ॥

四个儿子都拒绝了他,他诅咒了以耶度为首的诸子,便前往普鲁那里,认为普鲁不会违背他的命令。

1.78.28

पूरो त्वं मे प्रियः पुत्रस्त्वं वरीयान्भविष्यसि ।
जरा वली च मांतात पलितानि च पर्यगुः ॥ १.७८.२८ ॥

普鲁啊,你是我心爱的儿子,你将成为最优秀的人。孩子,衰老、皱纹和白发已经降临在我身上。

1.78.29

काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने ।
पूरो त्वं प्रतिपद्यस्व पाप्मानं जरया सह।
कंचित्कालं चरेयं वै विषयान्वयसातव ॥ १.७८.२९ ॥

因为诗人乌尚纳斯(室建罗)的诅咒,我在青春中未曾满足。普鲁啊,请你连同衰老一起承受那份苦恼,好让我能暂时享受青春的欢乐。

1.78.30

पूर्णे वर्षसहस्रे तु पुनर्दास्यामि यौवनम् ।
स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह ॥ १.७८.३० ॥

当一千年满时,我将把你的青春归还于你,而我也将连同衰老再次承受那份苦恼。

1.78.31

एवमुक्तः प्रत्युवाच पूरुः पितरमज्जसा ।
यदात्थ मां महाराज तत्करिष्यामि ते वचः ॥ १.७८.३१ ॥

普鲁听后立即回答父亲:大王,您对我所说的话,我必定遵从。

1.78.32

गुरोर्वै वचनं पुण्यं स्वर्ग्यमायुष्करं नृणाम् ।
गुरुप्रसादात्त्रैलोक्यमन्वशासच्छतक्रतुः ॥ १.७८.३२ ॥

师长的话功德殊胜,引人升天,延长人的寿命;正因蒙受师长的恩泽,百祭之主因陀罗才统治了三界。

1.78.33

गुरोरनुमतं प्राप्य सर्वान्कामानमाप्नुयात् ।
यावदिच्छसि तावच्च धारयिष्यामि ते जराम् ॥ १.७८.३३ ॥

得到师长的允许,人便能获得一切所愿;你想要多久,我便为你承担多久的衰老。

1.78.34

प्रतिपत्स्यामि ते राजन्पाप्मानं जरया सह ।
गृहाण यौवनं मत्तश्चर कामान्यथेप्सितान् ॥ १.७८.३४ ॥

大王啊,我将连同你的衰老,一并承担你的罪过;请取走我的青春,尽情享受你所渴望的欲乐。

1.78.35

जरयाहं प्रतिच्छन्नो वयोरूपधरस्तव ।
यौवनं भवते दत्त्वा चरिष्यामि यथात्थमाम् ॥ १.७८.३५ ॥

我被衰老所掩,将担起你的年岁与容貌;把青春交给你之后,我便照你所说的那样四处游历。

1.78.36

पूरो प्रीतोऽस्मि ते वत्स प्रीतश्चेदं ददामि ते ।
सर्वकामसमृद्धा ते प्रजा राज्ये भविष्यति ॥ १.७८.३६ ॥

普鲁啊,我对你感到满意,亲爱的孩子;因此我将此赐予你:你的子孙在王国中将在一切欲望上都得到圆满。

1.78.37

एवमुक्त्वा ययातिस्तु स्मृत्वा काव्यं महातपाः ।
संक्रामयामास जरां तदा पूरौ महात्मनि ॥ १.७८.३७ ॥

如此说罢,大苦行者耶耶提想起了迦维耶(输罗),随即将自己的衰老转移到了高尚的普卢身上。