Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.82

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.82.1

सर्वाणि कर्माणि समाप्य राजन् ।
गृहं परित्यज्य वनं गतोऽसि।
तत्त्वां पृच्छामि नहुषस्य पुत्र ।
केनासि तुल्यस्तपसा ययाते ॥ १.८२.१ ॥

国王啊,你完成了一切祭仪,舍弃家室而入林中。因此,那罗迦之子,我问你:耶耶提啊,你在苦行上与谁相等?

1.82.2

नाहं देवमनुष्येषु गन्धर्वेषु महर्षिषु ।
आत्मनस्तपसा तुल्यं कंचित्पश्यामि वासव ॥ १.८२.२ ॥

婆娑啊,在诸神、人类、乾达婆和大仙之中,我看不到有谁与我自己的苦行相等。

1.82.3

यदाऽवमंस्थाः सदृशः श्रेयसश्च अल्पीयसश्चाविदितप्रभावः ।
तस्माल्लोकास्त्वन्तवन्तस्तवे मे
क्षीणे पुण्ये पतिताऽस्यद्य राजन् ॥ १.८२.३ ॥

当你轻慢与你相等、以及高于和低于你的人,而不知他们的威力时,因此你的世界和我的世界都是有尽的。国王啊,功德耗尽,今日你已堕落。

1.82.4

सुरर्षिगन्धर्वनरावमाना-
त्क्षयं गता मे यदि शक्रलोकाः।
इच्छाम्यहं सुरलोकाद्विहीनः ।
सतां मध्ये पतितुं देवराज ॥ १.८२.४ ॥

天王啊,如果我因轻慢诸天、仙人、乾达婆和人类而使我的帝释世界毁灭,那么我愿意失去天界,堕落于善人之中。

1.82.5

सतां सकाशे पतिताऽसि राजं-
श्च्युतः प्रतिष्ठां यत्र लब्धासि भूयः।
एतद्विदित्वा च पुनर्ययाते ।
त्वं माऽवमंस्थाः सदृशः श्रेयसश्च ॥ १.८२.५ ॥

国王啊,你堕落于善人面前;虽然堕落,你仍将从那里重新获得稳固之位。耶耶提啊,知此之后,不要再轻慢与你相等或高于你的人。

1.82.6

ततः प्रहायामरराजजुष्टा-
न्पुण्याँल्लोकान्पतमानं ययातिम्।
संप्रेक्ष्य राजर्षिवरोऽष्टकस्त-
मुवाच सद्धर्मविधानगोप्ता ॥ १.८२.६ ॥

于是,诸王仙之首、守护正法之规的阿湿吒迦,见耶耶提从因陀罗所喜的善界坠落,便对他说道。

1.82.7

कस्त्वं युवा वासवतुल्यरूपः ।
स्वतेजसा दीप्यमानो यथाऽग्निः।
पतस्युदीर्णाम्बुधरान्धकारा-
त्खात्खेचराणां प्रवरो यथाऽर्कः ॥ १.८२.७ ॥

你是谁?年轻而容貌如因陀罗,以自身光辉如火般焕发,从升起的乌云黑暗中自天空坠落,犹如诸天行者中的首位太阳。

1.82.8

दृष्ट्वा च त्वां सूर्यपथात्पतन्तं ।
वैश्वानरार्कद्युतिमप्रमेयम्।
किं नु स्विदेतत्पततीति सर्वे ।
वितर्कयन्तः परिमोहिताः स्मः ॥ १.८२.८ ॥

见你自太阳之道坠落,光辉如火与日,不可限量,我们皆迷惑不解,自问:此物为何而坠?

1.82.9

दृष्ट्वा च त्वां धिष्ठितं देवमार्गे ।
शक्रार्कविष्णुप्रतिमप्रभावम्।
अभ्युद्गतास्त्वां वयमद्य सर्वे ।
तत्त्वं प्रपाते तव जिज्ञासमानाः ॥ १.८२.९ ॥

见你立于诸神之道,威力如因陀罗、日与毗湿奴,我们今日皆上前来,欲知你此次坠落的缘由。

1.82.10

न चापि त्वां धृष्णुमः प्रष्टुमग्रे ।
न च त्वमस्मान्पृच्छसि ये वयं स्मः।
तत्त्वां पृच्छामि स्पृहणीयरूप ।
कस्य त्वं वा किंनिमित्तं त्वमागाः ॥ १.८२.१० ॥

我们不敢先问你,你也不问我们是谁。因此,啊,形貌可爱者,我问你:你是谁的人,又因何缘故而来?

1.82.11

भयं तु ते व्येतु विषादमोहौ ।
त्यजाशु चैवेन्द्रसमप्रभाव।
त्वां वर्तमानं हि सतां सकाशे ।
नालं प्रसोढुं बलहाऽपि शक्रः ॥ १.८२.११ ॥

愿你的恐惧消散,忧愁与迷惑也一并消除。啊,威力与因陀罗相等者,请速速舍弃它们。即使杀死波罗的因陀罗,也无法承受在善人面前的你。

1.82.12

सन्तः प्रतिष्ठा हि सुखच्युतानां ।
सतां सदैवामरराजकल्प।
ते सङ्गताः स्थावरजङ्गमेशाः ।
प्रतिष्ठितस्त्वं सदृशेषु सत्सु ॥ १.८२.१२ ॥

对于失去幸福的人,善人确实是他们的依靠。啊,如同天神之王者,善人总是庇护所。动与静的主宰们已聚集于此;你安立于与你相当的善人之中。

1.82.13

प्रभुरग्निः प्रतपने भूमिरावपने प्रभुः ।
प्रभुः सूर्यः प्रकाशित्वे सतां चाभ्यागतः प्रभुः ॥ १.८२.१३ ॥

火在燃烧中为主,大地在播种中为主,太阳在照耀中为主;而来到善人之处的客人,也是主。