Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.83

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.83.1

अहं ययातिर्नहुषस्य पुत्रः ।
पूरोः पिता सर्वभूतावमानात्।
प्रभ्रंशितः सुरसिद्धर्षिलोका-
त्परिच्युतः प्रपताम्यल्पपुण्यः ॥ १.८३.१ ॥

我是那呼沙之子耶耶提,补茹之父。因轻慢一切众生、福德微薄,我从诸天、成就者与仙人的世界被推落,正在坠下。

1.83.2

अहं हि पूर्वो वयसा भवद्भ्य-
स्तेनाभिवादं भवतां न प्रयुञ्जे।
यो विद्यया तपसा जन्मना वा ।
वृद्धः स पूज्यो भवति द्विजानाम् ॥ १.८३.२ ॥

我年岁比你们长,所以不向你们行礼。凭学识、苦行或出身而年长者,才是婆罗门(再生者)中值得尊敬的人。

1.83.3

अवादीस्त्वं वयसा यः प्रवृद्धः ।
स वै राजन्नाभ्यधिकः कथ्यते च।
यो विद्यया तपसा संप्रवृद्धः ।
स एव पूज्यो भवति द्विजानाम् ॥ १.८३.३ ॥

大王,你说年岁高者被称为更尊贵。但只有在学识与苦行上充分成熟者,才是婆罗门(再生者)中值得尊敬的人。

1.83.4

प्रतिकूलं कर्मणां पापमाहु-
स्तद्वर्ततेऽप्रवणे पापलोक्यम्।
सन्तोऽसतां नानुवर्तन्ति चैत-
द्यथा चैषामनुकूलास्तथाऽऽसन् ॥ १.८३.४ ॥

与行为相违的,被称为罪恶;它归于愚昧之人,引向罪恶之界。善人不追随恶人,正如这些人曾经顺从善人一样。

1.83.5

अभूद्धनं मे विपुलं गतं त-
द्विचेष्टमानो नाधिगन्ता तदस्मि।
एवं प्रधार्यात्महिते निविष्टो ।
यो वर्तते स विजानाति जीवः ॥ १.८३.५ ॥

我曾拥有巨大的财富,如今已经失去。即便我努力,也无法再把它取回。那些如此思量自身利益而生活的人,才真正懂得作为一个有情生命是怎么回事。

1.83.6

महाधनो यो यजते सुयज्ञै-
र्यः सर्वविद्यासु विनीतबुद्धिः।
वेदानधीत्य तपसा योज्य देहं ।
दिवं स यायात्पुरुषो वीतमोहः ॥ १.८३.६ ॥

那富有财富、以善祭祀献祭、在一切学问中心志谦卑、研习吠陀并以苦行约束身体的人,愿这无迷惑之人升往天界。

1.83.7

दिष्टं बलीय इति मत्वाऽऽत्मबुद्ध्या ॥ १.८३.७ ॥

以自己的智慧认为命运更强。

1.83.8

सुखं हि जन्तुर्यदि वाऽपि दुःखं ।
दैवाधीनं विन्दते नात्मशक्त्या।
तस्माद्दिष्टं बलवन्मन्यमानो ।
न संज्वरेन्नापि हृष्येत्कथंचित् ॥ १.८३.८ ॥

众生所得的快乐或痛苦,都取决于命运,而非自己的力量。因此,应认为命运强大,既不悲伤,也不欣喜。

1.83.9

दुःखैर्न तप्येन्न सुखैः प्रहृष्ये-
त्समेन वर्तेत सदैव धीरः।
दिष्टं बलीय इति मन्यमानो ।
न संज्वरेन्नापि हृष्येत्कथंचित् ॥ १.८३.९ ॥

坚定的人不应因苦难而痛苦,也不应因快乐而过度欣喜,应始终以平等之心行事。认为命运更强,便既不悲伤,也不欣喜。

1.83.10

भये न मुह्याम्यष्टकाहं कदाचि-
त्सन्तापो मे मानसो नास्ति कश्चित्।
धाता यथा मां विदधीत लोके ।
ध्रुवं तथाऽहं भवितेति मत्वा ॥ १.८३.१० ॥

阿湿吒迦啊,我从不因恐惧而迷惑,心中也没有任何痛苦。想着:『造物主在这世上如何造就我,我必定就如何。』

1.83.11

संस्वेदजा अण्डजाश्चोद्भिदश्च ।
सरीसृपाः कृमयोऽथाप्सु मत्स्याः।
तथाश्मनस्तृणकाष्ठं च सर्वे ।
दिष्टक्षये स्वां प्रकृतिं भजन्ति ॥ १.८३.११ ॥

生于湿气者、生于卵者、从地中生出者、爬行之物、虫类、水中之鱼,以及石头、草与木头,一切在其定数已尽时,都归复其本性。

1.83.12

अनित्यतां सुखदुःस्वस्य बुद्ध्वा ।
कस्मात्संतापमष्टकाहं भजेयम्।
किं कुर्यां वै किं च कृत्वा न तप्ये ।
तस्मात्सन्तापं वर्जयाम्यप्रमत्तः ॥ १.८३.१२ ॥

既已知苦乐无常,阿湿多迦啊,我何必陷入忧愁?我应当做什么,或做了什么才不致悲伤?因此我谨慎地舍弃忧愁。

1.83.13

एवं व्रुवाणं नृपतिं ययाति-
मथाष्टकः पुनरेवान्वपृच्छत्।
मातामहं सर्वगुणोपपन्नं ।
तत्रस्थितं स्वर्गलोके यथावत् ॥ १.८३.१३ ॥

如此说话的国王耶夜提,又被阿湿多迦再次询问。阿湿多迦便依礼询问那位住在天界、具备一切德行的外祖父。

1.83.14

ये ये लोकाः पार्थिवेन्द्रप्रधाना-
स्त्वया भुक्ता यं च कालं यथावत्।
तान्मे राजन्ब्रूहि सर्वान्यथाव-
त्क्षेत्रज्ञवद्भाषसे त्वं हि धर्मान् ॥ १.८३.१४ ॥

啊,国王,诸地上之主中的第一人,请将你依法享受过的各个世界,以及享受的时间,全部告诉我;因为你谈论法的样子,就像知晓田地(自性)的人一样。

1.83.15

राजाऽहमासमिह सार्वभौम-
स्ततो लोकान्महतश्चाजयं वै।
तत्रावसं वर्षसहस्रमात्रं ।
ततो लोकं परमस्म्यभ्युपेतः ॥ १.८३.१५ ॥

我曾在此作为君临天下的国王;随后我征服了广大的世界,在那里只住了一千年;随后我抵达了至高之界。

1.83.16

ततः पुरीं पुरुहूतस्य रम्यां ।
सहस्रद्वारां शतयोजनायताम्।
अध्यावसं वर्षसहस्रमात्रं ।
ततो लोकं परमस्म्यभ्युपेतः ॥ १.८३.१६ ॥

随后我住在补卢呼多(因陀罗)的美丽城中,那城有千门,延展百由旬,只住了一千年;随后我抵达了至高之界。

1.83.17

ततो दिव्यमजरं प्राप्य लोकं ।
प्रजापतेर्लोकपतेर्दुरापम्।
तत्रावसं वर्षसहस्रमात्रं ।
ततो लोकं परमस्म्यभ्युपेतः ॥ १.८३.१७ ॥

随后,我抵达了众界之主生主(Prajāpati)那神圣不朽而难以抵达的世界,在那里只住了一千年;随后我抵达了至高之界。

1.83.18

स देवदेवस्य निवेशने च ।
विहृत्य लोकानवसं यथेष्टम्।
संपूज्यमानस्त्रिदशैः समस्तै-
स्तुल्यप्रभावद्युतिरीश्वराणाम् ॥ १.८३.१८ ॥

我在神中之神的居所中,随意漫游诸界而居住,受到诸天众神的尊崇,其威力与光辉与众主相等。

1.83.19

तथाऽऽवसं नन्दने कामरूपी ।
संवत्सराणामयुतं शतानाम्।
सहाप्सरोभिर्विहरन्पुण्यगन्धा-
न्पश्यन्नगान्पुष्पितांश्चारुरूपान् ॥ १.८३.१९ ॥

同样,我能随意变化形貌,居住在难陀那园中,与天女嬉戏,观看芬芳盛开、形态优美的树木,共计一万个百年。

1.83.20

तत्र स्थितं मां देव सुखेषु सक्तं ।
कालेऽतीते महति ततोऽतिमात्रम्।
दूतो देवानामब्रवीदुग्ररूपो ।
ध्वंसेत्युच्चैस्त्रिः प्लुतेन स्वरेण ॥ १.८३.२० ॥

我留在那里沉溺于享乐,神啊,经过了很长时间之后,一位形貌可怖的使者代表诸神高声三次喊道:“堕落吧!”

1.83.21

एतावन्मे विदितं राजसिंह ।
ततो भ्रष्टोऽहं नन्दनात्क्षीणपुण्यः।
वाचोऽश्रौषं चान्तरिक्षे सुराणां ।
सानुक्रोंशाः शोचतां मां नरेन्द्र ॥ १.८३.२१ ॥

王中之狮啊,我所知道的就是这些。之后,我从难陀那园中坠落,功德已尽,我听见天空中诸神充满怜悯的声音,为我哀叹,人主啊。

1.83.22

अहो कष्टं क्षीणपुण्यो ययातिः ।
पतत्यसौ पुण्यकृत्पुण्यकीर्तिः।
तानब्रुवं पतमानस्ततोऽहं ।
सतां मध्ये निपतेयं कथं नु ॥ १.८३.२२ ॥

唉,多么悲哀!雅耶提,行功德、享功德之名者,因功德耗尽而坠落。那时,我在坠落中对他们说:“我怎能坠落于善人之中呢?”

1.83.23

तैराख्याता भवतां यज्ञभूमिः ।
समीक्ष्य चेमां त्वरितमुपागतोऽस्मि।
हविर्गन्धं देशिकं यज्ञभूमे-
र्धूमापाङ्गं प्रतिगृह्य प्रतीतः ॥ १.८३.२३ ॥

他们向我描述了你们的祭坛所在,我看见后便急忙来到这里。得到这处弥漫着祭品香气、边缘升起烟雾的祭坛方向,我心中欢喜。