Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 1.88

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

1.88.1

पुत्रं ययातेः प्रबूहि पूरुं धर्मभृतां वरम् ।
आनुपूर्व्येण ये चान्ये पूरोर्वंशविवर्धनाः ॥ १.८८.१ ॥

ジャナメージャヤは言った。ヤヤーティの子、法を守る者の中で最も優れたプルについて語り、プルの系譜を増やした他の者たちも順に語ってください。

1.88.2

विस्तरेण पुनर्ब्रूहि दौष्यन्तेर्जनमेजयात् ।
संबभूव यथा राजा भरतो द्विजसत्तम ॥ १.८८.२ ॥

もう一度詳しく語ってください。ドゥシュヤンタの系譜で、ジャナメージャヤから王バラタがどのように生まれたのかを、最高のバラモンよ。

1.88.3

पूरुर्नृपतिशार्दूलो यथैवास्य पिता नृप ।
धर्मनित्यः स्थितो राज्ये शक्रतुल्यपराक्रमः ॥ १.८८.३ ॥

王の中の虎プルは、父と同じく、王よ、常に法に堅く立ち、王国に君臨した。その勇武はインドラに等しかった。

1.88.4

प्रवीरेश्वररौद्राश्वास्त्रयः पुत्रा महारथाः ।
पूरोः पौष्ट्यामजायन्त प्रवीरो वंशकृत्ततः ॥ १.८८.४ ॥

プルはパウシュティーとの間に三人の息子をもうけた。プラヴィーラ、イーシュヴァラ、ラウドラーシュヴァで、いずれも大戦車の勇士であった。そのうちプラヴィーラが家系を継いだ。

1.88.5

मनस्युरभवत्तस्माच्छूरसेनीसुतः प्रभुः ।
पृथिव्याश्चतुरन्ताया गोप्ता राजीवलोचनः ॥ १.८८.५ ॥

彼からマナスユが生まれた。シューラセーニーの息子で、主君、四つの海に囲まれた大地の守護者、蓮華眼の王であった。

1.88.6

शक्तः संहननो वाग्मी सौवीरीतनयास्त्रयः ।
मनस्योरभवन्पुत्राः शूराः सर्वे महारथाः ॥ १.८८.६ ॥

ソーヴィリーの三人の息子、シャクタ、サンハナ、ヴァーグミーがマナスユの息子として生まれた。彼らはみな勇士であり、大戦車の勇士であった。

1.88.7

अन्वग्भानुप्रभृतयो मिश्रकेश्यां मनस्विनः ।
रौद्राश्वस्य महेष्वासा दशाप्सरसि सूनवः ॥ १.८८.७ ॥

天女ミシュラケーシーによりラウドラーシュヴァには、アヌグバーヌを筆頭とする、意志の高い偉大な弓の名手である十人の息子が生まれた。

1.88.8

यज्वानो जज्ञिरे शूराः प्रजावन्तो बहुश्रुताः ।
सर्वे सर्वास्त्रविद्वासः सर्वे धर्मपरायणाः ॥ १.८८.८ ॥

彼らは皆、供犠を行う者、勇士、子を持つ者、博学な者、あらゆる武器に通じた者、そしてダルマに専心する者として生まれた。

1.88.9

ऋचेयुरथ कक्षेयुः कृकणेयुश्च वीर्यवान् ।
स्थण्डिलेयुर्वनेयुश्च जलेयुश्च महायशाः ॥ १.८८.९ ॥

リチェーユ、続いてカクシェーユ、勇猛なクルカネーユ、スタンディレーユ、ヴァネーユ、そして大いに名高いジャレーユ。

1.88.10

तेजेयुर्बलावान्धीमान्सत्येयुश्चन्द्रविक्रमः ।
धर्मेयुः सन्नतेयुश्च दशमो देवविक्रमः ॥ १.८८.१० ॥

テジェーユ、力強く賢いサティエーユは月のような武勇を持ち、ダルメーユ、サンナテーユ、そして第十の子、神のような武勇の持ち主デーヴァヴィクラマ。

1.88.11

अनाधृष्टिरभूत्तेषां विद्वान्भुवि तथैकराट् ।
ऋचेयुरथ विक्रान्तो देवानामिव वासवः ॥ १.८८.११ ॥

彼らのうちアナーダルシュティは学識ある者となり、大地の唯一の王となった。リチェーユは神々の中のヴァーサヴァ(インドラ)のように勇武であった。

1.88.12

अनाधृष्टिसुतस्त्वासीद्राजसूयाश्वमेधकृत् ।
मतिनार इति ख्यातो राजा परमधार्मिकः ॥ १.८८.१२ ॥

アナーダルシュティの息子は、マティナーラという名で知られた王であり、ラージャスーヤとアシュヴァメーダの供犠を行った、極めて正しい人であった。

1.88.13

मतिनारसुता राजंश्चत्वारोऽमितविक्रमाः ।
तंसुर्महानतिरथो द्रुह्युश्चाप्रतिमद्युतिः ॥ १.८८.१३ ॥

王よ、マティナラには無量の勇力を持つ四人の息子がいた。偉大な大戦車兵タンスと、比類なき輝きを持つドルフユである。

1.88.14

तेषां तंसुर्महावीर्यः पौरवं वंशमुद्वहन् ।
आजहार यशो दीप्तं जिगाय च वसुंधराम् ॥ १.८८.१४ ॥

彼らの中で大勇のタンスはパウラヴァの系譜を担い、輝かしい名声を得て大地を征服した。

1.88.15

ईलिनं तु सुतं तंसुर्जनयामास वीर्यवान् ।
सोऽपि कृत्स्नामिमां भूमिं विजिग्ये जयतां वरः ॥ १.८८.१५ ॥

勇者タンスはイリナという息子を儲けた。彼もまた勝者の中の最良者として、この全大地を征服した。

1.88.16

रथन्तर्यां सुतान्पञ्च पञ्चभूतोपमांस्ततः ।
ईलिनो जनयामास दुष्यन्तप्रभृतीन्नृपान् ॥ १.८८.१६ ॥

次にイリナはラタンタリーとの間に、五大元素のような五人の息子をもうけた。その中にドゥシュヤンタなどの王がいた。

1.88.17

दुष्यन्तं शूरभीमौ च प्रवसुं वसुमेव च ।
तेषां श्रेष्ठोऽभवद्राजा दुष्यन्तो दुर्जयो युधि ॥ १.८८.१७ ॥

ドゥシュヤンタ、シューラ、ビーマ、プラヴァス、ヴァス。その中で最も優れていたのは王ドゥシュヤンタで、戦場で無敵であった。

1.88.18

दुष्यन्ताल्लक्षणायां तु जज्ञे वै जनमेजयः ।
शकुन्तलायां भरतो दौष्यन्तिरभवत्सुतः ॥ १.८८.१८ ॥

ドゥシュヤンタからラクシャナーに生まれたのがジャナメージャヤであり、シャクンタラーに生まれたのがドゥシュヤンタの子バラタである。

1.88.19

तस्माद्भरतवंशस्य विप्रतस्थे महद्यशः ॥ १.८८.१९ ॥

そのバラタの系統から、大いなる名声を持つ者が現れた。