摩诃婆罗多 · 章 1.9
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.9.1
तेषु तत्रोपविष्टेषु ब्राह्मणेषु महात्मसु ।
रुरुश्चुक्रोश गहनं वनं गत्वाऽतिदुःखितः ॥ १.९.१ ॥
在那里端坐的诸位大德婆罗门之中,极度悲痛的鲁卢走入幽深的森林,放声哀号。
1.9.2
शोकेनाभिहतः सोऽथ विलपन्करुणं बहु ।
अब्रवीद्वचनं शोचन्प्रियां स्मृत्वा प्रमद्वराम् ॥ १.९.२ ॥
悲痛所击的他,极其哀怨地哭诉,想起心爱的优秀女子普拉玛德瓦拉,悲伤地说出了这些话。
1.9.3
शेते सा भुवि तन्वङ्गी मम शोकविवर्धिनी ।
प्राणानपहरन्तीव पूर्णचन्द्रनिभानना ॥ १.९.३ ॥
她躺在地上,身形纤细,增添我的悲痛,面容如满月,仿佛正在夺走我的生命之气。
1.9.4
यदि पीनायतश्रोणी पद्मपत्रनिभेक्षणा ।
मुमूर्षुरपि मे प्राणानादायाशु गमिष्यति ॥ १.९.४ ॥
如果她丰满宽阔的臀部,莲瓣般的眼睛,即便将死,也会很快带走我的生命之气而离去。
1.9.5
पितृमातृसखीनां च लुप्तपिण्डस्य तस्य मे ।
बान्धवानां च सर्वेषां किं नु दुःखमतःपरम् ॥ १.९.५ ॥
对于父母、朋友,对于我这个祭品已断绝的人,以及一切亲族,还有什么比这更大的痛苦呢?
1.9.6
यदि दत्तं तपस्तप्तं गुरवो वा मया यदि ।
सम्यगाराधितास्तेन संजीवतु मम प्रिया ॥ १.९.६ ॥
如果我曾布施、修行苦行,或曾恰当地侍奉尊长,愿以此功德,让我心爱的人重获生命。
1.9.7
यथा च जन्मप्रभृति यतात्माऽहं धृतव्रतः ।
प्रमद्वरा तथाद्यैषा समुत्तिष्ठतु भामिनी ॥ १.९.७ ॥
正如我自出生起便克制自我、坚守誓戒,愿今日这位光彩的女子普拉玛德瓦拉起身。
1.9.8
एवं लालप्यतस्तस्य भार्यार्थे दुःखितस्य च ।
देवदूतस्तदाऽभ्येत्य वाक्यमाह रुरुं वने ॥ १.९.८ ॥
他在森林中为妻子如此悲叹时,一位天神使者走近悲伤的鲁鲁,说出了这些话。
1.9.9
कृष्णे विष्णौ हृषीकेशे लोकेशेऽसुरविद्विषि ।
यदि मे निश्चला भक्तिर्मम जीवतु सा प्रिया ॥ १.९.९ ॥
若我对克里希那、毗湿奴、感官之主、世界之主、阿修罗之敌的虔诚坚定不移,愿我所爱之人重生。
1.9.10
विलप्यमाने तु रुरौ सर्वे देवाः कृपान्विताः ।
दूतं प्रस्थापयामासुः संदिश्यास्य हितं वचः ॥ १.९.१० ॥
当鲁鲁悲叹之时,满怀慈悲的诸神派出一位使者,嘱咐他带去有益于鲁鲁的话。
1.9.11
स दूतस्त्वरितोऽभ्येत्य देवानां प्रियकृच्छुचिः ।
उवाच देववचनं रुरुमाभाष्य दुःखितम् ॥ १.९.११ ॥
那位为诸神所喜、清净的使者快速走来,对悲伤的鲁鲁说话,宣告了诸神的言语。
1.9.12
देवैः सर्वैरहं ब्रह्मन्प्रेषितोऽस्मि तवान्तिकम् ।
त्वद्धितं त्वद्धितैरुक्तं शृणु वाक्यं द्विजोत्तम ॥ १.९.१२ ॥
婆罗门啊,诸神都派我来到你这里。请听那些愿你好的人为你说的有益之言,二生者中的最优者啊。
1.9.13
अभिधत्से ह यद्वाचा रुरो दुःखान्न तन्मृषा ।
न तु मर्त्यस्य धर्मात्मन्नायुरस्ति गतायुषः ॥ १.९.१३ ॥
茹如啊,你因悲痛所说的并非虚妄;但正直者啊,寿命已尽的凡人不再有寿命。
1.9.14
गतायुरेषा कृपणा गन्धर्वाप्सरसोः सुता ।
तस्माच्छोके मनस्तात मा कृथास्त्वं कथंचन ॥ १.९.१४ ॥
这位乾闼婆与天女所生的可怜女儿,寿命已尽。因此,亲爱的,你绝不可让心沉溺于悲伤。
1.9.15
उपायश्चात्र विहितः पूर्वं देवैर्महात्मभिः ।
तं यदीच्छसि कर्तुं त्वं प्राप्स्यसीह प्रमद्वराम् ॥ १.९.१५ ॥
早先,诸神与大德已为此规定了一个办法;你若愿意实行,便能在此得到普拉玛德瓦拉。
1.9.16
क उपायः कृतो देवैर्बूहि तत्त्वेन खेचर ।
करिष्येऽहं तथा श्रुत्वा त्रातुमर्हति मां भवान् ॥ १.९.१६ ॥
诸神采用了什么办法?空行者啊,请如实告诉我。听后我便照办。您是值得救我的。
1.9.17
आयुषोऽर्धं प्रयच्छ त्वं कन्यायै भृगुनन्दन ।
एवमुत्थास्यति रुरो तव भार्या प्रयद्वरा ॥ १.९.१७ ॥
婆利古之子啊,请把你一半的寿命给这位少女;这样,茹如啊,你所爱的妻子就会站起来。
1.9.18
आयुषोऽर्धं प्रयच्छामि कन्यायै खेचरोत्तम ।
शृङ्गाररूपाभरणा समुत्तिष्ठतु मे प्रिया ॥ १.९.१८ ॥
空行者中最殊胜者啊,我将自己一半的寿命给予这位少女;愿我所爱、盛装饰以首饰的妻子站起来。
1.9.19
ततो गन्धर्वराजश्च देवदूतश्च सत्तमौ ।
धर्मराजमुपेत्येदं वचनं प्रत्यभाषताम् ॥ १.९.१९ ॥
于是,乾闼婆王与天神使者,二位最尊贵者,走近法王,说了这番话。
1.9.20
धर्मराजायुषोऽर्धेन रुरोर्भार्या प्रमद्वरा ।
समुत्तिष्ठतु कल्याणी मृतैवं यदि मन्यसे ॥ १.९.२० ॥
法王啊,若你如此认为,愿吉祥的普拉玛德瓦拉,鲁如的妻子,虽已死去,也以你寿命的一半站起来。
1.9.21
प्रमद्वरा रुरोर्भार्या देवदूत यदीच्छसि ।
उत्तिष्ठत्वायुषोऽर्धेन रुरोरेव समन्विता ॥ १.९.२१ ॥
天神使者啊,若你愿意,愿鲁如的妻子普拉玛德瓦拉,与鲁如自身寿命的一半相连而站起来。
1.9.22
एवमुक्ते ततः कन्या सोदतिष्ठत्प्रमद्वरा ।
रुरोस्तस्यायुषोऽर्धेन सुप्तेव वरवर्णिनी ॥ १.९.२२ ॥
言毕,少女普拉玛德瓦拉站了起来,容颜美丽,以鲁如寿命的一半,仿佛从睡梦中醒来。
1.9.23
एतद्दृष्टं भविष्ये हि रुरोरुत्तमतेजसः ।
आयुषोऽतिप्रवृद्धस्य भार्यार्थेऽर्धमलुप्यत ॥ १.९.२३ ॥
这在未来已被预见:至高光辉的鲁如,其大为延长的寿命之半,为了妻子而被让出。
1.9.24
तत इष्टेऽहनि तयोः पितरौ चक्रतुर्मुदा ।
विवाहं तौ च रेमाते परस्परहितैषिणौ ॥ १.९.२४ ॥
于是在吉日,他们的父母欢喜地为二人举行了婚礼;二人彼此怀着对方的福祉,欢乐相处。
1.9.25
स लब्ध्वा दुर्लभां भार्यां पद्मकिञ्जल्कसुप्रभाम् ।
व्रतं चक्रे विनाशाय जिह्मगानां धृतव्रतः ॥ १.९.२५ ॥
他得到了这位珍贵的妻子,她如莲花蕊般光彩照人,于是立誓要消灭那些蜿蜒爬行的蛇;这位坚守誓愿的仙人。
1.9.26
स दृष्ट्वा जिह्मगान्सर्वांस्तीव्रकोपसमन्वितः ।
अभिहन्ति यथासत्त्वं गृह्य प्रहरणं सदा ॥ १.९.२६ ॥
他看见所有蜿蜒爬行的蛇,满怀猛烈的愤怒,便拿起武器,总是依其本性击打它们。
1.9.27
स कदाचिद्वनं विप्रो रुरुरभ्यागमन्महत् ।
शयानं तत्र चापश्यड्डुण्डुभं वयसान्वितम् ॥ १.९.२७ ॥
有一次,婆罗门如茹来到那座大森林,在那里他看见一条年老的遝咚咚蛇躺在那里。
1.9.28
तत उद्यम्य दम्डं स कालदण्डोपमं तदा ।
जिघांसुः कुपितो विप्रस्तमुवाचाथ डुण्डुभः ॥ १.९.२८ ॥
于是那婆罗门愤怒地举起如死亡之杖般的棍棒,想要打死它;这时遝咚咚蛇对他说道。
1.9.29
नापराध्यामि ते किंचिदहमद्य तपोधन ।
संरम्भाच्च किमर्थं मामभिहंसि रुषान्वितः ॥ १.९.२९ ॥
苦行之宝啊,今天我没有冒犯你,你为何满怀愤怒,要因怒气打我呢?