摩诃婆罗多 · 章 1.90
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.90.1
संभवं भरतस्याहं चरितं च महामतेः ।
शकुन्तलायाश्चोत्पत्तिं श्रोतुमिच्छामि तत्त्वतः ॥ १.९०.१ ॥
我想如实听闻婆罗多的出生、那位大智者的事迹,以及沙恭达罗的来历。
1.90.2
दुष्यन्तेन च वीरेण यथा प्राप्ता शकुन्तला ।
तं वै पुरुषसिंहस्य भगवन्विस्तरं त्वहम् ॥ १.९०.२ ॥
尊者啊,我想详细听闻英雄豆扇多如何得到沙恭达罗,那位人中狮子的事迹。
1.90.3
श्रोतुमिच्छामि तत्त्वज्ञ सर्वं मतिमतां वर ।
स कदाचिन्महाबाहुः प्रभूतबलवाहनः ॥ १.९०.३ ॥
通晓真理的人啊,智者中最优秀的,我想听闻一切。那位大臂者曾经拥有众多的军队与车骑。
1.90.4
वनं जगाम गहनं हयनागशतैर्वृतः ।
बलेन चतुरङ्गेण वृतः परमवल्गुना ॥ १.९०.४ ॥
他被数百匹马和象所环绕,又有极为壮丽的四军相随,进入了茂密的森林。
1.90.5
खड्गशक्तिधरैर्वीरैर्गदामुसलपाणिभिः ।
प्रासतोमरहस्तैश्च ययौ योधशतैर्वृतः ॥ १.९०.५ ॥
被数百名持剑与枪的英勇战士环绕,手中执有铁锤与木棒,举着投枪与长矛,他出行了。
1.90.6
सिंहनादैश्च योधानां शङ्खदुनदुभिनिःस्वनैः ।
रथनेमिस्वनैश्चैव सनागवरबृंहितैः ॥ १.९०.६ ॥
战士们的狮吼、海螺与战鼓之声、战车轮的轰鸣,以及优良象的吼叫,充满了整个森林。
1.90.7
नानायुधधरैश्चापि नानावेषधरैस्तथा ।
ह्रेषितस्वनमिश्रैश्च क्ष्वेडितास्फोटितस्वनैः ॥ १.९०.७ ॥
众多战士手持各式武器、身着各色服饰,与马嘶声交织,伴着吼声与拍臂之声。
1.90.8
आसीत्किलकिलाशब्दस्तस्मिन्गच्छति पार्थिवे ।
प्रासादवरशृङ्गस्थाः परया नृपशोभया ॥ १.९०.८ ॥
那位君王前行之时,立于殿宇高顶的人们以无上的王者威仪发出欢呼的喧声。
1.90.9
ददृशुस्तं स्त्रियस्तत्र शूरमात्मयशस्करम् ।
शक्रोपमममित्रघ्नं परवारणवारणम् ॥ १.९०.९ ॥
那里的女子们看见了那位英雄:他为自己增添荣耀,如因陀罗一般,是敌人的毁灭者,是阻挡他象的象。
1.90.10
पश्यन्तः स्त्रीगणास्तत्र वज्रपाणिं स्म मेनिरे ।
अयं स पुरुषव्याघ्रो रणे वसुपराक्रमः ॥ १.९०.१० ॥
在那里观望的女子们以为这就是手持金刚杵的因陀罗:此乃人中之虎,其在战场上的威力能赐予财富。
1.90.11
यस्य बाहुबलं प्राप्य न भवन्त्यसुहृद्गणाः ।
इति वाचो ब्रुवन्त्यस्ताः स्त्रियः प्रेम्णा नराधिपं ॥ १.९०.११ ॥
“得其臂力者,敌军便不复存在。”那些女子怀着爱意,如此谈论那位人主。
1.90.12
तुष्टुवुः पुष्पवृष्टीश्च ससृजुस्तस्य मूर्धनि ।
तत्रतत्र च विप्रेन्द्रैः स्तूयमानः समन्ततः ॥ १.९०.१२ ॥
众人赞颂他,向他头上撒下花雨;他前行之时,四面八方处处都有最杰出的婆罗门称颂他。
1.90.13
निर्ययौ परमप्रीत्या वनं मृगजिघांसया ।
तं देवराजप्रतिमं मत्तवारणधूर्गतम् ॥ १.९०.१३ ॥
他满心欢喜,想要猎杀鹿群,朝森林出发了。那位如同天神之王的国王,坐在发情大象的轭上。
1.90.14
द्विजक्षत्रियविट्शूद्रा निर्यान्तमनुजग्मिरे ।
ददृशुर्वर्धमानास्ते आशीर्भिश्च जयेन च ॥ १.९०.१४ ॥
婆罗门、刹帝利、吠舍和首陀罗在他出发时跟随他;他们怀着祝福与胜利的愿望,目送着他。
1.90.15
सुदूरमनुजग्मुस्तं पौरजानपदास्तथा ।
न्यवर्तन्त ततः पश्चादनुज्ञाता नृपेण ह ॥ १.९०.१५ ॥
城市与乡村的百姓也陪他走了很远;随后,在国王允许下,他们才返回。
1.90.16
सुपर्णप्रतिमेनाथ रथेन वसुधाधिपः ।
महीमापूरयामास घोषेण त्रिदिवं तथा ॥ १.९०.१६ ॥
随后,这位大地之主乘着如同迦楼罗的战车,以他的轰鸣充满了大地,也同样充满了天空。
1.90.17
स गच्छन्ददृशे धीमान्नन्दनप्रतिमं वनम् ।
बिल्वार्कखदिराकीर्णं कपित्थधवसंकुलम् ॥ १.९०.१७ ॥
这位智者一路前行,看见一片如同难近园的森林,遍布木苹果树、阿迦树和卡迪罗树,又密集地生长着柯比特哈树和达瓦树。
1.90.18
विषमं पर्वतस्रस्तै रश्मभिश्च समावृतम् ।
निर्जलं निर्मनुष्यं च बहुयोजनमायतम् ॥ १.९०.१८ ॥
那片森林崎岖不平,被从山上滚落的岩石所环绕,既无水源,也无人烟,绵延许多由旬。
1.90.19
मृगसिंहैर्वृतं घोरैरन्यैश्चापि वनेचरैः ।
तद्वनं मनुजव्याघ्रः सभृत्यबलवाहनः ॥ १.९०.१९ ॥
那片充满鹿、狮子及其他凶猛林中生物的森林,人中之虎带着随从、军队和车驾进入了。
1.90.20
लोडयामास दुष्यन्तः सूदयन्विविधान्मृगान् ।
बाणगोचरसंप्राप्तांस्तत्र व्याघ्रगणान्बहून् ॥ १.९०.२० ॥
杜湿衍多在那里驱赶并杀死了各种鹿,也杀死了许多进入他箭程之内的虎群。
1.90.21
पातयामास दुष्यन्तो निर्बिभेद च सायकैः ।
दूरस्थान्सायकैः कांश्चिदभिनत्स नराधिपः ॥ १.९०.२१ ॥
杜湿衍多将它们射倒并以箭射穿;那位人主也用箭射穿了远处的一些。
1.90.22
अभ्याशमागतांश्चान्यान्खड्गेन निरकृन्तत ।
कांश्चिदेणान्समाजघ्ने शक्त्या शक्तिमतां वरः ॥ १.९०.२२ ॥
走近的其他动物,他以剑斩杀;最强者中的最优者又以矛刺杀了一些羚鹿。
1.90.23
गदामण्डलतत्त्वज्ञश्चचारामितविक्रमः ।
तोमरैरसिभिश्चापि गदामुसलकम्पनैः ॥ १.९०.२३ ॥
精通铁锤旋转之术、勇武无比的他,携带投矛、刀剑,以及震动作响的铁锤和木棒,四处驰骋。
1.90.24
चचार स विनिघ्नन्वै वन्यांस्तत्र मृगद्विजान् ।
राज्ञा चाद्भुतवीर्येण योधैश्च समरप्रियैः ॥ १.९०.२४ ॥
他在那里一边杀戮林中的鹿与鸟,一边巡行,同行的有威武非凡的国王和好战的武士们。
1.90.25
लोड्यमानं महारण्यं तत्यजुः स्म मृगाधिपाः ।
तत्र विद्रुतयूथानि हतयूथपतीनि च ॥ १.९०.२५ ॥
百兽之王离开了那片正被蹂躏的大森林;那里的兽群四散奔逃,它们的首领被杀。
1.90.26
मृगयूथान्यथौत्सुक्याच्छब्दं चक्रुस्ततस्ततः ।
शुष्काश्चापि नदीर्गत्वा जलनैराश्यकर्शिताः ॥ १.९०.२६ ॥
于是兽群因焦躁而四处发出叫声。到了河边,却发现河水已干涸;因为绝望于找不到水,它们变得虚弱。
1.90.27
व्यायामक्लान्तहृदयाः पतन्ति स्म विचेतसः ।
क्षुत्पिपासापरीताश्च श्रान्ताश्च पतिता भुवि ॥ १.९०.२७ ॥
心因奔波而疲惫,它们失去知觉倒下;饥渴交迫,精疲力竭,纷纷倒在地上。
1.90.28
केचित्तत्र नरव्याघ्रैरभक्ष्यन्त बुभुक्षितैः ।
केचिदग्निमथोत्पाद्य संसाध्य च वनेचराः ॥ १.९०.२८ ॥
那里有些被饥饿的人中猛虎吞食,另有些被林中居民生火烹煮,
1.90.29
भक्षयन्ति स्म मांसानि प्रकुट्य विधिवत्तदा ।
तत्र केचिद्गजा मत्ता बलिनः शस्त्रविक्षताः ॥ १.९०.२९ ॥
那时他们依礼将肉切开并吃掉。那里有些发狂而强壮的象被兵器所伤,
1.90.30
संकोच्याग्रकरान्भीताः प्राद्रवन्ति स्म वेगिताः ।
शकृन्मूत्रं सृजन्तश्च क्षरन्तः शोणितं बहु ॥ १.९०.३० ॥
它们惊恐地卷起象鼻,匆忙奔逃,一边排泄粪便和小便,一边大量流血。
1.90.31
वन्या गजवरास्तत्र ममृदुर्मनुजान्बहून् ।
तद्वनं बलमेघेन शरधारेण संवृतम्।
व्यरोचत मृगाकीर्णं राज्ञा हतमृगाधिपम् ॥ १.९०.३१ ॥
那里,林中的良象踩踏了许多人。那片树林被箭雨与军队如云般的聚集所笼罩,因国王杀死了百兽之王(狮子),布满鹿群而光彩照人。