Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.91

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.91.1

ततो मृगसहस्राणि हत्वा सबलवाहनः ।
तत्र मेघघनप्रख्यं सिद्धचारणसेवितम् ॥ १.९१.१ ॥

随后,他射杀了数千只鹿,与军队和车骑一同,看见那里有一片如浓云般的森林,为悉陀和遮罗那所游历。

1.91.2

वनमालोकयामास नगराद्योजनद्वये ।
मृगाननुचरन्वन्याञ्श्रमेण परिपीडितः ॥ १.९१.२ ॥

在离城两由旬处,他望见那片森林,因追逐野鹿而极度疲惫。

1.91.3

मृगाननुचरन्राजा वेगेनाश्वानचोदयत् ।
राजा मृगप्रसङ्गेन वनमन्यद्विवेश ह ॥ १.९१.३ ॥

国王追逐鹿群,策马疾驰;沉迷于逐鹿的国王,进入了另一片森林。

1.91.4

एक एवोत्तमबलः क्षुत्पिपासाश्रमान्वितः ।
स वनस्यान्तमासाद्य महच्छून्यं समासदत् ॥ १.९१.४ ॥

他独自一人,力量极强,却为饥渴和疲惫所困,到达林边,遇见一片广阔空旷之地。

1.91.5

तच्चाप्यतीत्य नृपतिरुत्तमाश्रमसंयुतम् ।
मनःप्रह्लादजननं दृष्टिकान्तमतीव च ॥ १.९१.५ ॥

国王越过那片空旷之地,来到另一片林中,那里有一处殊胜的修行道场,令人心意欢喜,目光所见极为悦人。

1.91.6

सीतमारुतसंयुक्तं जगामान्यन्महद्वनम् ।
पुष्पितैः पादपैः कीर्णमतीव सुखशाद्वलम् ॥ १.९१.६ ॥

国王沐浴着凉风,又进入另一片大森林,那里林木盛开,草地极为宜人。

1.91.7

विपुलं मधुरारावैर्नादितं विहगैस्तथा ।
पुंस्कोकिलनिनादैश्च झिल्लीकगणनादितम् ॥ १.९१.७ ॥

那片广阔的森林里回荡着甜美鸣声的鸟儿、雄杜鹃的啼叫以及蟋蟀群的鸣响。

1.91.8

प्रवृद्धविटपैर्वृक्षैः सुखच्छायैः समावृतम् ।
षट्पदाघूर्णिततलं लक्ष्म्या परमया युतम् ॥ १.९१.८ ॥

那片森林被枝叶繁茂、树荫宜人的树木所覆盖,地面因蜜蜂而涌动,并且充满至高的光彩。

1.91.9

नापुष्पः पादपः कश्चिन्नाफलो नापि कण्टकी ।
षट्पदैर्नाप्यपाकीर्णस्तस्मिन्वै काननेऽभवत् ॥ १.९१.९ ॥

那片森林里没有一棵树是无花的、无果的、带刺的,也没有一棵是没有蜜蜂的。

1.91.10

विगहैर्नादितं पुष्पैरलङ्कृतमतीव च ।
सर्वर्तुकुसुमैर्वृक्षैः सुखच्छायैः समावृतम् ॥ १.९१.१० ॥

那片森林里飞鸟与蜜蜂往来飞舞,回声不绝,其间满饰繁花,树木上开着四季之花,树荫宜人。

1.91.11

मनोरमं सहेष्वासो विवेश वनमुत्तमम् ।
मारुता कलितास्तत्र द्रुमाः कुसुमशाखिनः ॥ १.९१.११ ॥

他与持弓者一同进入了那片令人愉悦、殊胜的森林,那里风声轻拂,花枝繁茂的树木随风摇曳。

1.91.12

पुष्पवृष्टिं विचित्रां तु व्यसजंस्ते पुनः पुनः ।
दिवस्पृशोऽथ संघुष्टाः पक्षिभिर्मधुरस्वनैः ॥ १.९१.१२ ॥

它们一次又一次地降下奇妙的花雨;高耸入天,回响着鸟儿甜美的鸣声。

1.91.13

विरेजुः पादपास्तत्र विचित्रकुसुमाम्बराः ।
तेषां तत्र प्रवालेषु पुष्पभारावनामिषु ॥ १.९१.१३ ॥

那里的树木身披五彩花衣,熠熠生辉;嫩枝之上,花朵的重量使枝条低垂。

1.91.14

रुवन्ति रावान्मधुरान्षट्पदा मधुलिप्सवः ।
तत्र प्रदेशांश्च बहून्कुसुमोत्करमण्डितान् ॥ १.९१.१४ ॥

渴望采蜜的蜜蜂发出甜美的嗡鸣;那里许多地方都以成堆的花朵装点。

1.91.15

लतागृहपरिक्षिप्तान्मनसः प्रीतिवर्धनान् ।
संपश्यन्सुमहातेजा बभूव मुदितस्तदा ॥ १.९१.१५ ॥

他望见那些被藤萝亭台环绕、增益心中喜悦的地方,这位大光辉者便欢喜起来。

1.91.16

परस्पराश्लिष्टशाखैः पादपैः कुसुमान्वितैः ।
अशोभत वनं तत्तु महेन्द्रध्वजसन्निभैः ॥ १.९१.१६ ॥

那片森林因树木枝干交错、花朵繁盛而生辉,那些树犹如因陀罗的旗幡。

1.91.17

सिद्धचारणसङ्घैश्च गन्धर्वाप्सरसां गणैः ।
सेवितं वनमत्यर्थं मत्तवानरकिन्नरैः ॥ १.९१.१७ ॥

那片森林经常有成群的悉陀、遮罗那、乾达婆和阿普萨拉斯,以及醉酒的猴子和紧那罗往来。

1.91.18

सुखः शीतः सुगन्धी च पुष्परेणुवहोऽनिलः ।
परिक्रामन्वने वृक्षानुपैतीव रिरंसया ॥ १.९१.१८ ॥

一阵令人愉悦、清凉、芬芳的风,携带着花粉,在林中回旋,仿佛怀着欢愉之心来到树木之间。

1.91.19

एवंगुणसमायुक्तं ददर्श स वनं नृपः ।
नदीकच्छोद्भं कान्तमुच्छ्रितध्वजसन्निभम् ॥ १.९१.१९ ॥

国王看见了这片具有如此品质的森林,美丽,生长在河岸,宛如高举的旗帜。

1.91.20

प्रेक्षमाणो वनं तत्तु सुप्रहृष्टविहङ्गमम् ।
आश्रमप्रवरं रम्यं ददर्श च मनोरमम् ॥ १.९१.२० ॥

他望着那片群鸟欢欣的森林,看见了一处殊胜、宜人而迷人的修行林舍。

1.91.21

नानावृक्षसमाकीर्णं संप्रज्वलितपावकम् ।
तं तदाऽप्रतिमं श्रीमानाश्रमं प्रत्यपूजयत् ॥ १.९१.२१ ॥

这座遍布各种树木、火焰熊熊燃烧的无与伦比的修行林舍,那位光荣的国王以敬意回应。

1.91.22

यतिभिर्वालखिल्यैश्च वृतं मुनिगणान्वितम् ।
अग्न्यगारैश्च बहुभिः पुष्पसंस्तरसंस्तृतम् ॥ १.९१.२२ ॥

被苦行者与婆罗基利亚环绕,伴随众多仙人,有许多火屋,并铺满花床。

1.91.23

महाकच्छैर्बृहद्भिश्च विभ्राजितमतीव च ।
मालिनीमभितो राजन्नदीं पुण्यां सुखोदकाम् ॥ १.९१.२३ ॥

以其宽阔的河岸而极为光彩,国王啊,四周环绕着神圣的摩利尼河,水流清甜。

1.91.24

नैकपक्षिगणाकीर्णां तपोवनमनोरमाम् ।
तत्रव्यालमृगान्सैम्यान्पश्यन्प्रीतिमवाप सः ॥ १.९१.२४ ॥

在那片群鸟成群、宛如苦行林的迷人之地,他看见野兽与温顺的鹿,心中生出喜悦。

1.91.25

तं चाप्रतिरथः श्रीमानाश्रमं प्रत्यपद्यत ।
देवलोकप्रतीकाशं सर्वतः सुमनोहरम् ॥ १.९१.२५ ॥

那位无与伦比、光辉的车战者来到了那座如同天界、四周极其美妙的净修林。

1.91.26

नदीं चाश्रमसंश्लिष्टां पुण्यतोयां ददर्श सः ।
सर्वप्राणभृतां तत्र जननीमिव धिष्ठिताम् ॥ १.९१.२६ ॥

他看见与净修林相连的那条河,河水圣洁,在那里如同一切有情众生的母亲。

1.91.27

सचक्रवाकपुलिनां पुष्पफेनप्रवाहिनीम् ।
सकिन्नरगणावासां वारनर्क्षनिषेविताम् ॥ १.९१.२७ ॥

那条河,两岸有赤鸭栖息,水流携带花与泡沫,是众多紧那罗的居所,常有象与熊出没。

1.91.28

पुण्यस्वाध्यायसंघुष्टा पुलिनैरुपशोभिताम् ।
मत्तवारणशार्दूलभुजगेन्द्रनिषेविताम् ॥ १.९१.२८ ॥

那条河回荡着神圣的诵读之声,两岸装饰得美丽,常有狂象、虎和大蛇出没。

1.91.29

तस्यास्तीरे भगवतः काश्यपस्य महात्मनः ।
आश्रमप्रवरं रम्यं महर्षिगणसेवितम् ॥ १.९१.२९ ॥

河岸上有圣洁伟大的迦叶的殊胜、可爱的净修林,众多大仙常来此处。

1.91.30

नदीमाश्रमसंबद्धां दृष्ट्वाश्रमपदं तथा ।
चकाराभिप्रवेशाय मतिं स नृपतिस्तदा ॥ १.९१.३० ॥

国王看见与净修林相连的河流和净修林之地,便决定进入其中。

1.91.31

अलङ्कृतं द्वीपवत्या मालिन्या रम्यतीरया ।
नरनारायणस्थानं गङ्गयेवोपशोभितम् ॥ १.९१.३१ ॥

以多岛的摩利尼河及其美丽的河岸装饰的那里,即那罗与那罗衍那的住所,仿佛被恒河所照耀。

1.91.32

मत्तबर्हिणसंघुष्टं प्रविवेश महद्वनम् ।
तत्स चैत्ररथप्रख्यं समुपेत्य नरर्षभः ॥ १.९१.३२ ॥

那位人中之牛靠近并进入那片大森林,那里回荡着醉舞孔雀的鸣叫,宛如乔特拉罗陀园林。

1.91.33

अतीव गुणसंपन्नमनिर्देश्यं च वर्चसा ।
महर्षिं काश्यपं द्रष्टुमथ कण्वं तपोधनम् ॥ १.९१.३३ ॥

为了拜见大仙迦叶波——德行极其圆满、光辉无可言喻——以及苦行富足的迦纳瓦。

1.91.34

ध्वजिनीमश्वसंबाधां पदातिगजसङ्कुलाम् ।
अवस्थाप्य वनद्वारि सेनामिदमुवाच सः ॥ १.९१.३४ ॥

他在林门口安置了那支有旗帜、满是马匹、步兵与象群拥挤的军队,然后对它说道。

1.91.35

मुनिं विरजसं द्रष्टुं गमिष्यामि तपोधनम् ।
काश्यपं स्थीयतामत्र यावदागमनं मम ॥ १.९१.३५ ॥

我将去拜见仙人毗罗遮娑和苦行富足的迦叶波。在我回来之前,请大军留在此地。

1.91.36

तद्वनं नन्दनप्रख्यमासाद्य मनुजेश्वरः ।
क्षुत्पिपासे जहौ राजा मुदं चावाप पुष्कलाम् ॥ १.९१.३६ ॥

那位人主抵达那片如同南达那园的森林,遗忘了饥渴,获得了无限的喜悦。

1.91.37

सामात्यो राजलिङ्गानि सोपनीय नराधिपः ।
पुरोहितसहायश्च जगामाश्रममुत्तमम् ॥ १.९१.३७ ॥

国王与大臣们一同放下王者的标志,在祭司的陪伴下,前往那座殊胜的净修林。

1.91.38

दिदृक्षुस्तत्र तमृषिं तपोराशिमथाव्ययम् ।
ब्रह्मलोकप्रतीकाशमाश्रमं सोऽभिवीक्ष्य ह।
षट्पदोद्गीतसंघुष्टं नानाद्विजगणायुतम् ॥ १.९१.३८ ॥

他想要见到那位苦行之聚、不坏的仙人,于是环顾了那座如梵界般的净修林,它回荡着蜜蜂的歌唱,充满了无数鸟群。

1.91.39

विस्मयोत्फुल्लनयनो राजा प्रीतो बभूवह ।
ऋचो बह्वृचमुख्यैश्च प्रेर्यमाणाः पदक्रमैः।
शुश्राव मनुजव्याघ्रो विततेष्विह कर्मसु ॥ १.९१.३९ ॥

国王惊奇地睁大双眼,心中欢喜。在此,这位人中虎听见在广大的祭祀仪式中,以词句与次第诵读的梨俱颂,由众梨俱长老们诵出。

1.91.40

यज्ञविद्याङ्गविद्भिश्च यजुर्विद्भिश्च शोभितम् ।
मधुरैः सामगीतैश्च ऋषिभिर्नियतव्रतैः ॥ १.९१.४० ॥

那座净修林因通晓祭祀辅助学问者、通晓夜柔吠陀者,以及持守誓戒的仙人们以甜美的娑摩之歌而庄严。

1.91.41

भारुण्डसामगीताभिरथर्वशिरसोद्गतैः ।
यतात्मभिः सुनियतैः शुशुभे स तदाश्रमः ॥ १.९१.४१ ॥

那座净修林此时因婆罗顿达娑摩之歌,以及从阿闼婆之首发出的声音而光辉灿烂,这些由自制、严持的修行者所唱。

1.91.42

अथर्ववेदप्रवराः पूगयज्ञियसामगाः ।
संहितामीरयन्ति स्म पदक्रमयुतां तु ते ॥ १.९१.४२ ॥

阿闼婆吠陀中的翘楚与普伽祭祀的娑摩歌者们,正在诵读附有词句与次第的本集。

1.91.43

शब्दसंस्कारसंयुक्तर्ब्रुवद्भिश्चापरैर्द्विजैः ।
नादितः स बभौ श्रीमान्ब्रह्मलोक इवापरः ॥ १.९१.४३ ॥

那处光辉之地回荡着其他再生婆罗门以纯正音韵诵说的声音,犹如另一个梵天世界。

1.91.44

यज्ञसंस्तरविद्भिश्च क्रमशिक्षाविशारदैः ।
न्यायतत्त्वात्मविज्ञानसंपन्नैर्वेदपारगैः ॥ १.९१.४४ ॥

此地充满了通晓祭坛布置、精通诵读次第之学、具备正理、真实与自我之知、并已通达吠陀的再生婆罗门。

1.91.45

नानावाक्यसमाहारसमवायविशारदैः ।
विशेषकार्यविद्भिश्च मोक्षधर्मपरायणैः ॥ १.९१.४५ ॥

此地充满了善于汇集与会通众多言说、知晓各类特定之事、并专注于解脱法的再生婆罗门。

1.91.46

स्तापनाक्षेपसिद्धान्तपरमार्थज्ञतां गतैः ।
शब्दच्छन्दोनिरुक्तज्ञैः कालज्ञानविशारदैः ॥ १.९१.४६ ॥

此地充满了已通达确立之说、驳难与第一义谛的再生婆罗门,他们通晓音韵、韵律与词源,并精于历法之学。

1.91.47

द्रव्यकर्मगुणज्ञैश्च कार्यकारणवेदिभिः ।
पक्षिवानररुतज्ञैश्च व्यासग्रन्थसमाश्रितैः ॥ १.९१.४७ ॥

此地充满了通晓实体、业与德性、明了因果、能解鸟鸣与猿啼,并依止毗耶娑典籍的再生婆罗门。

1.91.48

नानाशास्त्रेषु मुख्यैश्च शुश्राव स्वनमीरितम् ।
लोकायतिकमुख्यैश्च समन्तादनुनादितम् ॥ १.९१.४८ ॥

他听到了诸多论典中的主要学者与顺世派的首领所发出的声音,它四面回荡。

1.91.49

तत्रतत्र च विप्रेन्द्रान्नियतान्संशितव्रतान् ।
जपहोमपरान्विप्रान्ददर्श परवीरहा ॥ १.९१.४९ ॥

他到处看见那些自我克制、坚守誓愿、专心念诵与献祭的婆罗门中的俊杰,他是敌方英雄的杀手。

1.91.50

आसनानि विचित्राणि रुचिराणि महीपतिः ।
प्रयत्नोपहितानि स्म दृष्ट्वा विस्मयमागमत् ॥ १.९१.५० ॥

国王看见那些精心布置的奇异而华美的座席,心中充满惊叹。

1.91.51

देवतायतनानां च प्रेक्ष्य पूजां कृतां द्विजैः ।
ब्रह्मलोकस्थमात्मानं मेने स नृपसत्तमः ॥ १.९१.५१ ॥

那位最优秀的国王看见婆罗门在诸神庙宇中举行的供奉,便以为自己身处梵天的世界。

1.91.52

स काश्यपतपोगुप्तमाश्रमप्रवरं शुभम् ।
नातृप्यत्प्रेक्षमाणो वै तपोवनगुणैर्युतम् ॥ १.९१.५२ ॥

他注视着那座由迦叶波的苦行所守护、具备苦行林之德的殊胜吉祥的净修林,却怎么也看不够。

1.91.53

स काश्यपस्यायतनं महाव्रतै-
र्वृतं समान्तादृषिभिस्तपोधनैः।
विवेश सामात्यपुरोहितोऽरिहा ।
विविक्तमत्यर्थमनोहरं शुभम् ॥ १.९१.५३ ॥

这位消灭敌人者与大臣和祭司一同进入迦叶波的居所。那里四周环绕着持大誓的仙人,他们以苦行为财富;那地方幽静、极为迷人而吉祥。