摩诃婆罗多 · 章 1.93
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.93.1
एवमुक्तस्तया शक्रः संदिदेश सदागतिम् ।
प्रातिष्ठत तदा काले मेनका वायुना सह ॥ १.९३.१ ॥
她这样说了之后,帝释天吩咐了萨达伽蒂;于是在适当的时候,门迦与风一同出发了。
1.93.2
अथापश्यद्वरारोहा तपसा दग्धकिल्बिषम् ।
मिश्वामित्रं तप्यमानं मेनका भीरुराश्रमे ॥ १.९३.२ ॥
那时,细腰而怯懦的门迦看见毗首弥多罗在净修处苦修,他的罪恶已被苦行焚尽。
1.93.3
अभिवाद्य ततः सा तं प्राक्रीडदृषिसन्निधौ ।
अपोवाह च वासोऽस्या मारुतः शशिसंनिभम् ॥ १.९३.३ ॥
随后她向他致敬,在仙人面前嬉戏;风吹走了她那如月光般的衣裳。
1.93.4
सागच्छत्त्वरिता भूमिं वासस्तदभिलिप्सती ।
कुत्सयन्तीव सव्रीडं मारुतं वरवर्णिनी ॥ १.९३.४ ॥
那位容貌俊美的女子急忙落到地上,想要抓住那件衣裳,仿佛含羞地责备着风。
1.93.5
पश्यतस्तस्य राजर्षेरप्यग्निसमतेजसः ।
विश्वामित्रस्ततस्तां तु विषमस्थामनिन्दिताम् ॥ १.९३.५ ॥
那位光辉如火的王仙注视着,毗首弥多罗看见那无可指责的女子站在尴尬的姿态中。
1.93.6
गृद्धां वाससि संभ्रान्तां मेनकां मुनिसत्तमः ।
अनिर्देश्यवयोरूपामपश्यद्विवृतां तदा ॥ १.९३.६ ॥
那时,诸仙中最优秀者看见门迦渴望那件衣裳、惊慌失措,其年龄与容貌无法形容,她当时处于裸露之中。
1.93.7
तस्या रूपगुणान्दृष्ट्वा स तु विप्रर्षभस्तदा ।
चकार भावं संसर्गे तया कामवशं गतः ॥ १.९३.७ ॥
那位婆罗门中的上士见到她的容貌与德行,便生起了与她相交的念头,为欲望所控制。
1.93.8
न्यमन्त्रयत चाप्येनां सा चाप्यैच्छदनिन्दिता ।
तौ तत्र सुचिरं कालमुभौ व्यवहरतां तदा ॥ १.९३.८ ॥
他邀请她,无可指摘的她也应允了。两人在那里共同生活了很长时间。
1.93.9
रममाणौ यथाकामं यतैकदिवसं तथा ।
एवं वर्षसहस्राणामतीतं नान्वचिन्तयत् ॥ १.९३.९ ॥
两人随心嬉戏,仿佛只过了一天,如此过去了数千年,他却未曾留意。
1.93.10
कामक्रोधावजितवान्मुनिर्नित्यं समाहितः ।
चिरार्जितस्य तपसः क्षयं स कृतवान्मुनिः ॥ १.९३.१० ॥
这位仙人虽然常常专注,却未能战胜欲望与愤怒,于是毁掉了长期积累的苦行功德。
1.93.11
तपसः संक्षयादेव मुनिर्मोहं समाविशत् ।
मोहाभिभूतः क्रोधात्मा ग्रसन्मूलफलान्मुनिः ॥ १.९३.११ ॥
正因苦行衰减,仙人陷入迷惑;为迷惑所笼罩、性情易怒的仙人,便靠吞食根与果维持生活。
1.93.12
पादैर्जलरवं कृत्वा अन्तर्द्वीपे कुटीं गतः ।
मेनका गन्तुकामा तु शुश्राव जलनिस्वनम् ॥ १.९३.१२ ॥
他用脚拨弄出水声,走进岛内自己的茅屋;而想要离去的门喀闻到水声。
1.93.13
तपसा दीप्तवीर्योऽसावाकाशादेति याति च ।
अद्य संज्ञां विजानामि ययाऽद्य तपसः क्षयः ॥ १.९३.१३ ॥
他以苦行之力光芒闪耀,从天空来来去去。我now明白了那个征兆,今天我的苦行因此而衰减。
1.93.14
गन्तुं न युक्तमित्युक्त्वा ऋतुस्नाताथ मेनका ।
कामरागाभिभूतस्य मुनेः पार्स्वं जगाम ह ॥ १.९३.१४ ॥
她说:「离去不合适。」月经后沐浴的门那加,便走到被欲望与爱染所征服的仙人身边。
1.93.15
जनयामास स मुनिर्मेनकायां शकुन्तलाम् ।
प्रस्थे हिमवतो रम्ये मालिनीमभितो नदीम् ॥ १.९३.१५ ॥
那位仙人在喜马拉雅美丽的山坡上,于摩利尼河两岸,通过门那加生下了沙恭达罗。
1.93.16
देवगर्भोपमां बालां सर्वाभरणभूषिताम् ।
शयानां शयने रम्ये मेनका वाक्यमब्रवीत् ॥ १.९३.१६ ॥
门那加对那位女孩说了这些话,她如同神胎,身饰一切饰物,躺在华美的床上。
1.93.17
महर्षेरुग्रतपसस्तेजस्त्वमसि भामिनि ।
तस्मात्स्वर्गं गमिष्यामि देवकार्यार्थमागता ॥ १.९३.१७ ॥
光彩照人的女子啊,你正是那位苦行严酷的大仙的光辉。因此,我为天神的使命而来,将要前往天界。
1.93.18
जातमुत्सृज्य तं गर्भं मेनका मालिनीमनु ।
कृतकार्या ततस्तूर्णमगच्छच्छक्रसंसदम् ॥ १.९३.१८ ॥
门那加抛下所生的胎儿,沿着摩利尼河,完成了使命,迅速前往因陀罗的集会。
1.93.19
तं वने विजने गर्भं सिंहव्याघ्रसमाकुले ।
दृष्ट्वा शयानं शकुनाः समन्तात्पर्यवारयन्।
नेमां हिंस्युर्वने बालां क्रव्यादा मांसगृद्धिनः ॥ १.९३.१९ ॥
在充满狮虎的荒僻森林里,群鸟见这婴儿躺卧在那里,便从四面将她环绕,以免林中嗜肉的食肉野兽伤害这个女孩。
1.93.20
पर्यरक्षन्त तां तत्र शकुन्ता मेनकात्मजाम् ।
उपस्प्रष्टुं गतश्चाहमपश्यं शयितामिमाम् ॥ १.९३.२० ॥
那里群鸟守护着梅纳卡的女儿。我去取水净身时,看见这个躺着的女孩。
1.93.21
निर्जने विपिने रम्ये शकुन्तैः परिवारिताम् ।
मां दृष्ट्वैवाभ्यपद्यन्त पादयोः पतिता द्विजाः।
अब्रुञ्शकुनाः सर्वे कलं मधुरभाषिणः ॥ १.९३.२१ ॥
我看见她在这幽静美丽的森林里被群鸟环绕,一见到我,那些再生之鸟便俯伏在我脚下。所有说话甜美的鸟都温柔地开口了。
1.93.22
विश्वामित्रसुतां ब्रह्मन्न्यासभूतां भरस्व वै ।
कामक्रोधावजितवान्सखा ते कौशिकीं गतः ॥ १.९३.२२ ॥
婆罗门啊,这是毗首弥多罗的女儿,作为寄托留下的;请你抚养她。你的朋友未能战胜欲望与愤怒,已前往憍奢耆去了。
1.93.23
तस्मात्पोषय तत्पुत्रीं दयावानिति तेऽब्रुवन् ।
सर्वभूतरुतज्ञोऽहं दयावान्सर्वजन्तुषु ॥ १.९३.२३ ॥
所以,请你抚养这女儿,因为你慈悲,他们这样说。我通晓一切众生的语言,对一切生灵都怀有慈悲。
1.93.24
आनयित्वा ततश्चैनां दुहितृत्वे न्यवेशयम् ॥ १.९३.२४ ॥
于是我把她带回来,收作了女儿。
1.93.25
शरीरकृत्प्राणदाता यस्य चान्नानि भुञ्जते ।
क्रमेणैते त्रयोऽप्युक्ताः पितरो धर्मशासने ॥ १.९३.२५ ॥
给予身体者、给予生命者、以及吃其食物者——依次而言,此三者在法典中被称为父亲。
1.93.26
निर्जने तु वने यस्माच्छकुन्तैः परिवारिता ।
शकुन्तलेति नामास्याः कृतं चापि ततो मया ॥ १.९३.२६ ॥
因为她在荒僻的森林中被鸟儿环绕,我便为她取名为沙恭达罗。
1.93.27
एवं दुहितरं विद्धि मम विप्र शकुन्तलाम् ।
शकुन्तला च पितरं मन्यते मामनिन्दिता ॥ १.९३.२७ ॥
婆罗门啊,你当这样知道沙恭达罗是我的女儿;而那无瑕的沙恭达罗也视我为父亲。
1.93.28
एतदाचष्ट पृष्टः सन्मम जन्म महर्षये ।
सुतां कण्वस्य मामेवं विद्धि त्वं मनुजाधिप ॥ १.९३.२८ ॥
大仙人询问时,我如此说明了我的出身;人主啊,请知道我是迦那婆的女儿。
1.93.29
कण्वं हि पितरं मन्ये पितरं स्वमजानती ।
इति ते कथितं राजन्यथावृत्तं श्रुतं मया ॥ १.९३.२९ ॥
我不知道自己的生父,便以迦那婆为父。大王,我已将事情的经过如实告诉你,我也是这样听来的。