Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.96

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.96.1

तं कुमारमृषिर्दृष्ट्वा कर्म चास्यातिमानुषम् ।
समयो यौवराज्याय इत्यनुध्याय स द्विजः ॥ १.९६.१ ॥

仙人见那孩子及其超凡的行为,心想册立太子的时机已到;如此思量之后,那位再生者

1.96.2

शकुन्तलां समाहूय कण्वो वचनमब्रवीत् ।
शृणु भद्रे मम सुते मम वाक्यं शुचिस्मिते ॥ १.९६.२ ॥

迦婆唤来沙恭达罗,说道:善良的女儿,纯洁微笑的人,请听我的话。

1.96.3

पतिव्रतानां नारीणां विशिष्टमिति चोच्यते ।
पतिशुश्रूषणं पूर्वं मनोवाक्कायचेष्टितैः ॥ १.९६.३ ॥

在忠于丈夫的妇女中,此为最卓越者:首先以心、口、身的行为侍奉丈夫。

1.96.4

अनुज्ञाता मया पूर्वं पूजयैतद्व्रतं तव ।
एतेनैव च वृत्तेन पुण्याँल्लोकानवाप्य च ॥ १.९६.४ ॥

我先前已准许你;请尊奉你的这一誓愿。凭借此行,便能获得善果之界,

1.96.5

तस्यान्ते मानुषे लोके विशिष्टां तप्स्यसे श्रियम् ।
तस्माद्भद्रेऽद्य यातव्यं समीपं पौरवस्य ह ॥ १.९६.५ ॥

待到其后,你将在人间以超群的光辉照耀。因此,善良的人,今天你必须前往波卢婆王的面前。

1.96.6

स्वयं नायाति मत्वा ते गतं कालं शुचिस्मिते ।
गत्वाऽऽराधय राजानं दुष्यन्तं हितकाम्यया ॥ १.९६.६ ॥

他以为时机已过,所以不亲自前来。纯洁微笑的人啊,你去吧,出于为你好的心愿,去取悦国王杜servant。

1.96.7

दौष्यन्तिं यौवराज्यस्थं दृष्ट्वा प्रीतिमवाप्स्यसि ।
देवतानां गुरूणां च क्षत्रियाणां च भामिनि ॥ १.९६.७ ॥

光彩照人的女子啊,见到处于太子之位的杜什扬塔之子,你将对诸神、长者和刹帝利感到欣慰。

1.96.8

भर्तॄणां च विशेषेम हितं संगमनं भवेत् ।
तस्मात्पुत्रि कुमारेण गन्तव्यं मत्प्रियेप्सया ॥ १.९६.८ ॥

与丈夫的结合尤其有益。因此,女儿啊,为了让我欢喜,你应当与王子同往。

1.96.9

प्रतिवाक्यं न दद्यास्त्वं शपिता मम पादयोः ॥ १.९६.९ ॥

你不可反驳;我以我的脚起誓约束你。

1.96.10

एवमुक्त्वा सुतां तत्र पौत्रं कण्वोऽभ्यभाषत ।
परिष्वज्य च बाहुभ्यां मूर्ध्न्युपाघ्राय पौरवम् ॥ १.९६.१० ॥

说罢,迦那婆在那里对女儿和外孙说话;以双臂拥抱,亲吻了宝罗婆的头顶。

1.96.11

सोमवंशोद्भवो राजा दुष्यन्त इति विश्रुतः ।
तस्याग्रमहिषी चैषा तव माता शुचिव्रता ॥ १.९६.११ ॥

月亮族所生的名叫杜什扬塔的国王very著名;他的正妃,你的母亲,便是这位持守纯净誓愿的女子。

1.96.12

गन्तुकामा भर्तृपार्श्वं त्वया सह सुमध्यमा ।
गत्वाऽभिवाद्य राजनं यौवराज्यमवाप्स्यसि ॥ १.९६.१२ ॥

这位腰身纤细、渴望回到丈夫身边的女子将与你同往;你去拜见国王并恭敬致礼后,将获得太子之位。

1.96.13

स पिता तव राजेन्द्रस्तस्य त्वं वशगो भव ।
पितृपैतामहं राज्यमातिष्ठस्व स्वभावतः ॥ १.९६.१३ ॥

他是你的父亲,诸王之王;你要服从他。依其本性,承担父祖传下的王国吧。

1.96.14

तस्मिन्काले स्वराज्यस्थो मामनुस्मर पौरव ॥ १.९६.१४ ॥

那时,你在自己的王国中立定之后,要想念我,普卢的后裔啊。

1.96.15

अभिवाद्य मुनेः पादौ पौरवो वाक्यमब्रवीत् ।
त्वं पिता मम विप्रर्षे त्वं माता त्वं गतिश्च मे ॥ १.९६.१५ ॥

他向圣者的双足行礼后,普卢族的王子说道:"婆罗门仙人啊,您是我的父亲,您是我的母亲,您是我的归依。"

1.96.16

न चान्यं पितरं मन्ये त्वामृते तु महातपः ।
तव शुश्रूषणं पुण्यमिह लोके परत्र च ॥ १.९६.१६ ॥

大苦行者啊,除您之外,我不认他人为父。侍奉您,在此世与后世都是功德。

1.96.17

शकुन्तला भर्तृकामा स्वयं यातु यथेष्टतः ।
अहं सुश्रूषणपरः पादमूले वसामि वः ॥ १.९६.१७ ॥

渴望夫君的沙恭达罗,愿她依自己的心意亲自前往。我则专心侍奉,住在您的脚下。

1.96.18

क्रीडां व्यालमृगैः सार्धं करिष्ये न पुरा यथा ।
त्वच्छासनपरो नित्यं स्वाध्यायं च करोम्यहम् ॥ १.९६.१८ ॥

我不再像从前那样与野兽嬉戏。我将永远遵从您的教令,并诵习吠陀。

1.96.19

एवमुक्त्वा तु संश्लिष्य पादौ कण्वस्य तिष्ठतः ।
तस्य तद्वचनं श्रुत्वा प्ररुरोद शकुन्तला ॥ १.९६.१९ ॥

她说完这话,抱住站立的迦纳瓦的双足;听到他的话,沙恭达罗放声大哭。

1.96.20

स्नेहात्पितुश्च पुत्रस्य हर्षशोकसमन्विता ।
निशाम्य रुदतीमार्तां दौष्यन्तिर्वाक्यमब्रवीत् ॥ १.९६.२० ॥

杜湿扬陀因对父子之情而喜悲交织,见沙恭达罗痛苦哭泣,便说了这些话。

1.96.21

श्रुत्वा भगवतो वाक्यं किं रोदिषि शकुन्तले ।
गन्तव्यं काल्य उत्थाय भर्तृप्रीतिस्ववास्ति चेत् ॥ १.९६.२१ ॥

听了尊者的话,沙恭达罗啊,你为何哭泣?黎明时你须起身前往;若你爱你的丈夫,愿你平安。

1.96.22

एकस्तु कुरुते पापं फलं भुङ्क्ते महाजनः ।
मया निवारितो नित्यं न करोषि वचो मम ॥ १.९६.२२ ॥

一人作恶,而大众享受其果。我一直阻止你,你却不听我的话。

1.96.23

निःसृतान्कुञ्जरान्नित्यं बाहुभ्यां संप्रमथ्य वै ।
वनं च लोडयन्नित्यं सिंहव्याघ्रगणैर्वृतम् ॥ १.९६.२३ ॥

不断驱赶大象,以双臂将其摧毁,并不断搅扰被狮虎群包围的森林。

1.96.24

एवंविधानि चान्यानि कृत्वा वै पुरुनन्दन ।
रुषितो भगवांस्तात तस्मादावां विवासितौ ॥ १.९६.२४ ॥

啊,普鲁之裔,因你做了这样的事和其他事,尊者震怒了,亲爱的;所以我们二人被驱逐了。

1.96.25

नाहं गच्छामि दुष्यन्तं नास्मि पुत्र हितैषिणी ।
पादमूले वसिष्यामि महर्षेर्भावितात्मनः ॥ १.९६.२५ ॥

我不去找豆扇多,我也不是希望儿子福祉的人。我将住在那位心灵清净的大仙脚下。

1.96.26

एवमुक्त्वा तु रुदती पपात मुनिपादयोः ।
एवं विलपतीं कण्वश्चानुनीय च हेतुभिः।
पुनः प्रोवाच भगवानानृशंस्याद्धितं वचः ॥ १.९६.२६ ॥

她如此说完,哭泣着跪倒在圣者脚下。当她这样哀泣时,迦那婆以道理安慰她,并出于慈悲再次说出有益的话语。

1.96.27

शकुन्तले शृणुष्वेदं हितं पथ्यं च भामिनि ।
पतिव्रताभावगुणान्हित्वा साध्यं न किंचन ॥ १.९६.२७ ॥

沙恭多罗啊,请听这句有益而正当的话,夫人:舍弃忠贞妻子的美德,便无所可成。

1.96.28

प्रतिव्रतानां देवा वै तुष्टाः सर्वरप्रदाः ।
प्रसादं च करिष्यन्ति आपदो मोक्षयन्ति च ॥ १.९६.२८ ॥

赐予一切恩惠的诸神,都会喜爱忠贞的妻子;他们会施以恩惠,并使她们脱离灾难。

1.96.29

पतिप्रसादात्पुण्यं च प्राप्नुवन्ति न चाशुभम् ।
तस्माद्गत्वा तु राजानमाराधय शुचिस्मिते ॥ १.९६.२९ ॥

凭借丈夫的恩宠,她们获得功德,而非恶果。因此,笑容纯净的人啊,去见国王,使他欢喜吧。

1.96.30

शकुन्तलां तथोक्त्वा वै शाकुन्तलमथाब्रवीत् ।
दौहित्रो मम पौत्रस्त्वमिलिलस्य महात्मनः ॥ १.९६.३० ॥

他这样对沙恭多罗说完,便对沙恭多罗之子说:"你是我女儿的儿子,也是伟大的伊罗的孙子。"

1.96.31

शृणुष्व वचनं सत्यं प्रब्रवीमि तवानघ ।
मनसा भर्तृकामा वै वाग्भिरुक्त्वा पृथग्विधम् ॥ १.९६.३१ ॥

无罪者啊,请听我的真实之言:她心中渴望着丈夫,并且已用种种言辞表达过了。

1.96.32

गन्तुं नेच्छति कल्याणी तस्मात्तात वहस्व वै ।
शक्तस्त्वं प्रतिगन्तुं च मुनिभिः सह पौरव ॥ १.९६.३२ ॥

吉祥者不愿前往;因此,孩子,你带她去吧。普卢的后裔啊,你能与仙人们一同返回。

1.96.33

इत्युक्त्वा सर्वदमनं कण्वः शिष्यानथाब्रवीत् ।
शकुन्तलामिमां शीग्रं सपुत्रामाश्रमादितः ॥ १.९६.३३ ॥

说完这话,制伏一切的迦纳瓦对弟子们说:“快把这位沙恭达罗连同她的儿子从这座净修林带走。”

1.96.34

भर्तुः प्रापयताभ्याशं सर्वलक्षणपूजिताम् ।
नारीणां चिरवासो हि बान्धवेषु न रोचते ॥ १.९६.३४ ॥

请把这位以一切美德受尊敬的女子送到她丈夫身边;女子长久留在亲属之间,实在不合人意。

1.96.35

कीर्तिचारित्रधर्म्नस्तस्मान्नयत मा चिरम् ॥ १.९६.३५ ॥

因此,为了名声、德行与法义,请不要拖延,立即带她离去。

1.96.36

धर्माभिपूजितं पुत्रं काश्यपेन निशाम्य तु ।
काश्यपात्प्राप्य चानुज्ञां मुमुदे च शकुन्तला ॥ १.९६.३६ ॥

沙恭达罗听到迦叶论及其因法而受尊敬的儿子,又得到迦叶的许可,便欢喜起来。

1.96.37

कण्वस्य वचनं श्रुत्वा प्रतिगच्छेति चासकृत् ।
तथेत्युक्त्वा तु कण्वं च मातरं पौरवोऽब्रवीत्।
किं चिरायसि मातस्त्वं गमिष्यामो नृपालयम् ॥ १.९६.३७ ॥

闻迦那之言,屡次被告知“回去吧”,那位補盧族王子说“好吧”,随即对迦那与母亲说:“母亲,为何迟疑?我们去王宫吧。”

1.96.38

एवमुक्त्वा तु तां देवीं दुष्यन्तस्य महात्मनः ।
अभिवाद्य मुनेः पादौ गन्तुमैच्छत्स पौरवः ॥ १.९६.३८ ॥

对那位女神如此说罢,伟大的豆扇多之子补盧族王子向仙人的足下行礼,便想离去。

1.96.39

शकुन्तला च पितरमभिवाद्य कृताञ्जलिः ।
प्रदक्षिणीकृत्य तदा पितरं वाक्यमब्रवीत् ॥ १.९६.३९ ॥

沙恭多罗合掌向父亲行礼,右绕而行,然后对父亲说了这些话。

1.96.40

अज्ञानान्मे पिता चेति दुरुक्तं वापि चानृतम् ।
अकार्यं वाप्यनिष्टं वा क्षन्तुमर्हति तद्भवान् ॥ १.९६.४० ॥

"父亲,若我因无知说了粗暴、虚假、不当或令人不悦的话,您值得宽恕。"

1.96.41

एवमुक्तो नतशिरा मुनिर्नोवाच किंचन ।
मनुष्यभावात्कण्वोऽपि मुनिरश्रूण्यवर्तयत् ॥ १.९६.४१ ॥

如此被告知,仙人低头不语;迦那也因人之常情而流下了眼泪。

1.96.42

अब्भक्षान्वायुभक्षांश्च शीर्णपर्णाशनान्मुनीन् ।
फलमूलाशिनो दान्तान्कृशान्धमनिसंततान् ॥ १.९६.४२ ॥

那些饮水、饮风、食落叶的仙人;那些食果与根、自我克制、消瘦、身上青筋显露的仙人。

1.96.43

व्रतिनो जटिलान्मुण्डान्वल्कलाजिनसंवृतान् ।
समाहूय मुनिः कण्वः कारुण्यादिदमब्रवीत् ॥ १.९६.४३ ॥

迦婆仙人召集持戒者、结发者、剃光头者、身披树皮与鹿皮者,出于怜悯说道:

1.96.44

मया तु लालिता नित्यं मम पुत्री यशस्विनी ।
वने जाता विवृद्धा च न च जानाति किंचन ॥ १.९६.४४ ॥

我一直悉心疼爱我那光荣的女儿;她生于森林、长于森林,什么都不懂。

1.96.45

आश्रमात्तु पथा सर्वैर्नीयतां क्षत्रियालयम् ।
द्वितीययोजने विप्राः प्रतिष्ठानं प्रतिष्ठितम् ॥ १.९६.४५ ॥

诸位婆罗门,请你们从修行处沿路,将她送到刹帝利的住所;在第二由旬处,有一座已建立的城市,名为波罗提湿陀那。

1.96.46

प्रतिष्ठाने पुरे राजा शाकुन्तलपितामहः ।
अध्युवास चिरं कालमुर्वश्या सहितः पुरा ॥ १.९६.४६ ॥

在波罗提湿陀那城,沙恭达罗之子的祖父国王,昔日曾与优婆湿曼(乌尔瓦希)长久同居。

1.96.47

अनूपजाङ्गलयुतं धनधान्यसमाकुलम् ।
प्रतिष्ठितं पुरवरं गङ्गायामुनसङ्गमे ॥ १.९६.४७ ॥

一座殊胜之城,拥有湿地与高地,富饶丰足,建立于恒河与阎牟那河的汇合处。

1.96.48

तत्र सङ्गममासाद्य स्नात्वा हुतहुताशनाः ।
शाकमूलफलाहारा निवर्तध्वं तपोधनाः।
अन्यथा तु भवेद्विप्रा अध्वनो गमने श्रमः ॥ १.९६.४८ ॥

到达那里的汇合处,沐浴并向火中献祭,以菜根与果实为食,苦行的诸位啊,请返回吧;否则,诸位婆罗门,路途上将会疲劳。

1.96.49

तथेत्युक्त्वा च ते सर्वे प्रातिष्ठन्त महौजसः ।
शकुन्तलां पुरस्कृत्य दुष्यन्तस्य पुरं प्रति ॥ १.९६.४९ ॥

众大能仙人说“就这样吧”,便让沙恭达罗走在前面,朝豆扇多的城市出发了。

1.96.50

गृहीत्वा चामरप्रख्यं पुत्रं कमललोचनम् ।
आजग्मुश्च पुरं रम्यं दुष्यन्ताध्युषितं वनात् ॥ १.९६.५० ॥

他们抱着那个如拂尘般肤色、眼如莲花的儿子,从森林来到了豆扇多居住的美丽城市。

1.96.51

शकुन्तलां समादाय मुनयो धर्मवत्सलाः ।
ते वनानि नदीः शैलान्गिरिप्रस्रवणानि च ॥ १.९६.५१ ॥

众仙人携带沙恭达罗,热爱正法,穿过森林、河流、山峦和山泉。

1.96.52

कन्दराणि नितम्बांश्च राष्ट्राणि नगराणि च ।
आश्रमाणि च पुण्यानि गत्वा चैव गतश्रमाः ॥ १.९६.५२ ॥

穿过洞穴、山坡、国土、城市和圣洁的修行处,他们依然毫无疲惫。

1.96.53

शनैर्मध्याह्नवेलायां प्रतिष्ठानं समाययुः ।
तां पुरीं पुरुहूतेन ऐलस्यार्थे विनिर्मिताम् ॥ १.९६.५३ ॥

他们在正午时分缓缓抵达普拉提什塔纳,那座城市是因陀罗为阿伊拉(补卢罗婆娑)建造的。

1.96.54

परिघाट्टालकैर्मुख्यैरुपकल्पशतैरपि ।
शतघ्नीचक्रयन्त्रैश्च गुप्तामन्यैर्दुरासदाम् ॥ १.९६.५४ ॥

这座城市以门闩、望楼、主要防御、数百种装置、百杀器与轮械及其他手段守卫,难以接近。

1.96.55

हर्म्यप्रसादसंबाधां नानापण्यविभूषिताम् ।
मण्टपैः ससभै रम्यैः प्रपाभिश्च समावृताम् ॥ १.९६.५५ ॥

这座城市里挤满了府邸和宫殿厅堂,陈列着各式货物,周围环绕着华美的凉亭、议事厅和施水亭。

1.96.56

राजमार्गेण महता सुविभक्तेन शोभिताम् ।
कैलासशिखराकारैर्गोपुरैः समलङ्कृताम् ॥ १.९६.५६ ॥

这座城市以宽阔而布局井然的王道为胜,并以如同凯拉萨峰顶般的城门装饰。

1.96.57

द्वारतोरणनिर्यूहैर्मङ्गलैरुपशोभिताम् ।
उद्यानाम्रवणोपेतां महतीं सालमेखलाम् ॥ १.९६.५७ ॥

这座大城以门楼、拱门、凸出部分和吉祥标志装点,拥有园林、芒果林和森林,并被一圈娑罗树环绕。

1.96.58

सर्वपुष्करिणीभिश्च उद्यानैश्च समावृताम् ।
वर्णाश्रमैः स्वधर्मस्थैर्नित्योत्सवसमाहितैः ॥ १.९६.५८ ॥

这座城市四周环绕着各式莲池与园林,城中住着各个种姓与人生阶段的人,他们恪守本分,常常沉浸于节庆之中。

1.96.59

धनधान्यसमृद्धैश्च संतुष्टै रत्नपूजितैः ।
कृतयज्ञैश्च विद्वद्भिरग्निहोत्रपरैः सदा ॥ १.९६.५९ ॥

这座城市住满了富有钱财与粮食、知足常乐、受珠宝尊敬、举行祭祀、博学且始终专心于火供的人。

1.96.60

वर्जिता कार्यकरणैर्दानशीलैर्दयापरैः ।
अधर्मभीरुभिः सर्वैः स्वर्गलोकजिगीषुभिः ॥ १.९६.६० ॥

这座城市没有行恶之人,住满了慷慨、慈悲、畏惧不义、并且都渴望征服天界的人。

1.96.61

एवंविधजनोपेतमिन्द्रलोकमिवापरम् ।
तस्मिन्नगरमध्ये तु राजवेश्म प्रतिष्ठितम् ॥ १.९६.६१ ॥

城中如此人民充盈,仿佛另一个因陀罗天界,城市中央矗立着王宫。

1.96.62

इन्द्रसद्मप्रतीकाशं संपूर्णं वित्तसंचयैः ।
तस्य मध्ये सभा दिव्या नानारत्नविभूषिता ॥ १.९६.६२ ॥

如同因陀罗的居所,堆满了积聚的财富;其中央有一座以各种宝石装饰的神圣议事厅。

1.96.63

तस्यां सभायां राजर्षिः सर्वालङ्कारभूषितः ।
ब्राह्मणैः क्षत्रियैश्चापि मन्त्रिभिश्चापि संवृतः ॥ १.९६.६३ ॥

在那议事厅中,王仙身着各种饰品,被婆罗门、刹帝利和大臣们环绕。

1.96.64

संस्तूयमानो राजेन्द्रः सूतमागधबन्दिभिः ।
कार्यार्थिषु तदाऽभ्येत्य कृत्वा कार्यं गतेषु सः ॥ १.९६.६४ ॥

被御者、歌者与颂者赞颂的诸王之王,那时有求事者前来,他办完事务、众人离去之后……

1.96.65

सुखासीनोऽभवद्राजा तस्मिन्काले महर्षयः ।
शकुन्तानां स्वनं श्रुत्वा निमित्तज्ञास्त्वलक्षयन् ॥ १.९६.६५ ॥

那时国王安坐;大仙们精通预兆,听闻鸟鸣,便留意观察。

1.96.66

शकुन्तले निमित्तानि शोभनानि भवन्ति नः ।
कार्यसिद्धिं वदन्त्येते ध्रुवं राज्ञी भविष्यसि।
अस्मिंस्तु दिवसे पुत्रो युवराजो भविष्यति ॥ १.९६.६६ ॥

“沙恭达罗啊,这些兆象对我们是吉祥的。它们必定预示事业成功;你将成为王后。而就在这一天,一个儿子将成为太子。”

1.96.67

वर्धमानपुरद्वारं तूर्यघोषनिनादितम् ।
शकुन्तलां पुरस्कृत्य विविशुस्ते महर्षयः ॥ १.९६.६७ ॥

在回响着号角轰鸣声的瓦尔达玛纳城门前,诸大仙将沙恭达罗置于前方,走了进去。

1.96.68

प्रविशन्तं नृपसुतं प्रशशंसुश्च वीक्षकाः ।
वर्धमानपुरद्वारं प्रविशन्नेव पौरवः ॥ १.९६.६८ ॥

当这位王子、paurava 踏入瓦尔达玛纳城门之时,观者便已对他赞叹不已。

1.96.69

इन्द्रलोकस्थमात्मानं मेने हर्षसमन्वितः ॥ १.९६.६९ ॥

他满心欢喜,以为自己身处因陀罗的天界。

1.96.70

ततो वै नागराः सर्वे समाहूय परस्परम् ।
द्रष्टुकामा नृपसुतं समपद्यन्त भारत ॥ १.९६.७० ॥

于是,所有城中百姓相互呼唤,想要一睹王子风采,婆罗多啊,纷纷聚集而来。

1.96.71

देवतेव जनस्याग्रे भ्राजते श्रीरिवागता ।
जयन्तेनेव पौलोमी इन्द्रलोकादिहागता ॥ १.९६.७१ ॥

她在人群前光彩照人,宛如女神,又如吉祥天女亲临;又如补罗密与Jayanta一同从因陀罗天界来到此处。

1.96.72

इति ब्रुवन्तस्ते सर्वे महर्षीनिदमब्रुवन् ।
अभिवादयन्तः सहिता महर्षीन्देववर्चसः ॥ १.९६.७२ ॥

众人如此说着,一同向如神光般的诸大仙行礼,并说道:

1.96.73

अद्य नः सफलं जन्म कृतार्थाश्च ततो वयम् ।
एवं ये स्म प्रपश्यामो महर्षीन्सूर्यवर्चसः ॥ १.९६.७३ ॥

今日我们的出生结出了果实,我们心愿已足,因为我们得以这样见到如太阳般光辉的大仙人。

1.96.74

इत्युक्त्वा सहिताः केचिदन्वगच्छन्त पौरवम् ।
हैमवत्याः सुतमिव कुमारं पुष्करेक्षणम् ॥ १.९६.७४ ॥

说罢,其中一些人结伴跟随这位波卢婆,如跟随喜马瓦蒂之子那样,这位莲目少年。

1.96.75

ये केचिदब्रुवन्मूढाः शाकुन्तलदिदृक्षवः ।
कृष्णाजिनेन संछन्नाननिच्छन्तो ह्यवेक्षितुम् ॥ १.९६.७५ ॥

一些愚昧之人想要见到沙昆多罗的仙人,于是说道;然而他们身披黑羚羊皮,并不愿被人看见。

1.96.76

पिशाचा इव दृश्यन्ते नागराणां विरूपिणः ।
विना सन्ध्यां पिशाचास्ते प्रविशन्ति पुरोत्तमम् ॥ १.९६.७६ ॥

在城中百姓看来,他们像丑陋的鬼怪;没有黄昏,那些鬼怪便进入这座美好的城市。

1.96.77

क्षुत्पिपासार्दितान्दीनान्वल्कलाजिनवाससः ।
त्वगस्थिभूतान्निर्मांसान्धमनीसन्ततानपि ॥ १.९६.७७ ॥

饥渴所苦,贫弱可怜,身着树皮与鹿皮,只剩皮骨,无肉,满布青筋。

1.96.78

पिङ्गलाक्षान्पिङ्गजटान्दीर्घदन्तान्निरूदरान् ।
विशीर्षकानूर्ध्वहस्तान्दृष्ट्वा हास्यन्ति नागराः ॥ १.९६.७८ ॥

城中百姓见到这些人——黄眼、黄发、长牙、无腹、似无头、举手的人——便会大笑。

1.96.79

एवमुक्तवतां तेषां गिरं श्रुत्वा महर्षयः ।
अन्योन्यं ते समाहूय इदं वचनमब्रुवन् ॥ १.९६.७९ ॥

众大仙听到他们如此说,便互相呼唤,说了这番话。

1.96.80

उक्तं भगवता वाक्यं न कृतं सत्यवादिना ।
पुरप्रवेशनं नात्र कर्तव्यमिति शासनम् ॥ १.९६.८० ॥

世尊所说之言,说真话者并未遵行。此处不应入城,这便是训令。

1.96.81

किं कारणं प्रवेक्ष्यामो नगरं दुर्जनैर्वृतम् ।
त्यक्तसङ्गस्य च मुनेर्नगरे किं प्रयोजनम् ॥ १.९६.८१ ॥

为何要进入被恶人包围的城市?那已舍弃执着的牟尼,在城中又有何用?

1.96.82

गमिष्यामो वनं तस्माद्गङ्गायामुनसङ्गमम् ।
एवमुक्त्वा मुनिगणाः प्रतिजग्मुर्यथागतम् ॥ १.९६.८२ ॥

因此我们将前往森林,到恒河与阎牟那河的汇合处。说罢,众牟尼群便沿来时的路返回了。