Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 10.10

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

10.10.1

तस्यां रात्र्यां व्यतीतायां धृष्टद्युम्नस्य सारथिः ।
गत्वा शशंस पाण्डुभ्यः सौप्तिके कदनं कृतम् ॥ १०.१०.१ ॥

その夜が明けると、ドリシュタデュムナの御者が行って、眠っている陣営で行われた殺戮をパーンドゥの子らに告げた。

10.10.2

द्रौपदेया हता राजन्द्रुपदस्वात्मजैः सह ।
प्रमत्ता निशि विश्वस्ताः स्वपन्तः शिबिरे स्वके ॥ १०.१०.२ ॥

王よ、ドラウパディーの息子たちは、自らの一族であるドルパダの息子たちとともに、夜、自陣で油断し無警戒に眠っているところを殺された。

10.10.3

गौतमेन नृशंसेन भोजेन कृतवर्मणा ।
अश्वत्थान्ना च पापेन हतं वः शिबिरं निशि ॥ १०.१०.३ ॥

残酷なゴータマ(クリパ)、ボージャ(クリタヴァルマン)、そして邪悪なアシュヴァッタマンによって、夜のうちにあなたがたの陣営は討たれた。

10.10.4

एतैर्नरगजाश्वानां प्रासशक्तिपरश्वयैः ।
सहस्रामि विकृन्द्भिर्निः शेषं शिबिरं कृतम् ॥ १०.१०.४ ॥

彼らは槍、投槍、戦斧でもって、数千の人と象と馬を切り倒し、陣営全体を完全に荒廃させた。

10.10.5

…विहगफलभारनतस्य ह ।
…महतो वनस्येव परश्वथैः।
… सुमहाञ्शब्दो बलस्य तव भारत ॥ १०.१०.५ ॥

……鳥と果実の重みに曲がった木のように……斧に打たれる大きな森のように……バーラタよ、あなたの軍から非常に大きな叫び声が上がった。

10.10.6

महमेकोऽबशिष्टस्तु तस्मात्सैन्यामहीपते ।
मुक्तः कथञ्चिद्धर्मात्मन्व्यग्राच्च कृतवर्मणः ॥ १०.१०.६ ॥

大地の王よ、その軍からは私一人だけが残った。義に篤き者よ、私はどうにかしてクリタヴァルマンの混乱から逃れ出た。

10.10.7

तच्छ्रुत्वा वाक्यमशिवं कुन्तीपुत्रो युधिष्ठिरः ।
पपात मह्यां धर्मात्मा पुत्रशोकसमन्वितः ॥ १०.१०.७ ॥

その不吉な言葉を聞いて、クンティーの子ユディシュティラは息子たちへの悲しみに打ちひしがれ、正義の人でありながら地に倒れた。

10.10.8

पतन्तं तमतिक्रम्य परिजग्राह सात्यकिः ।
भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पाण्डवौ ॥ १०.१०.८ ॥

倒れかかった彼を、サーティヤキが駆け寄って支えた。ビーマセーナ、アルジュナ、そしてマードリーの二人の息子のパーンダヴァも同じようにした。

10.10.9

लब्धचेतास्तु कौन्तेयः शोकविह्वलया गिरा ।
जित्वा शत्रूञ्जितः पश्चात्पर्यदेवयदार्तवत् ॥ १०.१०.९ ॥

意識を取り戻したクンティーの子は、悲しみに震える声で嘆き悲しんだ。敵を打ち負かしたのに、後には敗れた者のように苦しんで嘆いた。

10.10.10

अगम्या गतिरर्थानां कर्मणामीश्वरस्य च ।
दुर्विदा गतिरर्थानामपि ये दिव्यचक्षुषः।
जीयमाना जयन्त्यन्ये जयमाना वयं जिताः ॥ १०.१०.१० ॥

出来事の道筋、行為の道筋、そして主の道筋は計り知れない。天眼を持つ者にとってさえ、出来事の道筋は知りがたい。敗れつつある者が他者を征服し、勝ちつつあった我々は敗れてしまった。

10.10.11

हत्वा भ्रातॄन्वयस्यांश्च पितॄन्पुत्रान्सुहृद्गणान् ।
बन्धूनमात्यान्पौत्रांश्च जित्वा सर्वाञ्जिता वयम् ॥ १०.१०.११ ॥

兄弟、友、父、息子、多くの親友、親族、大臣、孫を殺し、すべてに勝ったのに、我々は敗れてしまった。

10.10.12

अनर्थो ह्यर्थसङ्काशस्तथाऽनर्थोऽर्थदर्शनः ।
जयोऽयमजयाकारो जयस्तस्मात्पराजयः ॥ १०.१०.१२ ॥

災いは実に利益のように見え、利益は災いのように見える。この勝利は敗北の姿をしている。だから勝利こそが敗北なのだ。

10.10.13

यज्जित्वा तप्यते पश्चादापन्न इव दुर्मतिः ।
कथं मन्येत विजयं ततो जिततरः परैः ॥ १०.१०.१३ ॥

勝利の後に愚か者のように、災いに陥った人のように悔やむ者は、その勝利をどうして勝利と思うだろうか。そのとき彼は敵よりも多く敗れているのだ。

10.10.14

येषामर्थाय पापं स्याद्विजयस्य सुहृद्वधैः ।
निर्जितैरप्रमत्तैर्हि विजिता जितकाशिनः ॥ १०.१०.१४ ॥

勝利のために友を殺して罪を負う者たちは、油断せずとも敗れた者たちによって打ち負かされる。自ら勝ったと思う者たちこそ、実は打ち負かされているのだ。

10.10.15

कर्णिनालीकदंष्ट्रस्य स्वङ्गजिह्वस्य संयुगे ।
चापव्यात्तास्यरौद्रस्य ज्यातलस्वननादिनः ॥ १०.१०.१५ ॥

戦いにおいて、牙は返しのついた矢、舌は鋭い剣であり、弓で開いた口は恐ろしく、弦の音のように吠える者。

10.10.16

क्रुद्धस्य नरसिंहस्य सङ्ग्रामेष्वपलायिनः ।
ये व्यमुञ्चन्त कर्णस्य प्रमादात्त इमे हताः ॥ १०.१०.१६ ॥

戦いで逃げなかった者たちが、怒れる人中の獅子カルナによって油断から見逃された――その者たちがここに殺された。

10.10.17

रथहदं शरवर्षोर्मिमन्तं ।
रत्नाचितं वाहनयोधबृन्दम्।
शक्त्यृष्टिमीनध्वजनागनक्रं ।
शरासनावर्तमहेषुफेनम् ॥ १०.१०.१७ ॥

戦車の湖、矢の雨の波を持ち、宝玉に満ち、乗り物と戦士の群れがあり、槍と投げ槍は魚、旗は鰐と象、弓の渦と大矢は泡である湖。

10.10.18

सङ्ग्रामचन्द्रोदयवेगवेलं ।
द्रोणार्णवं ज्यातलनेमिघोषम्।
ये तेरुरुच्चावचशस्त्रनौभि… ।
स्ते राजपुत्रा निहताः प्रमादात् ॥ १०.१०.१८ ॥

戦いの月の出の激しい岸を持つドローナの海を、弦と車輪の轟きとともに、高低さまざまな武器の舟で渡ろうとした王子たち――彼らは油断から殺された。

10.10.19

न हि प्रमादात्परमस्ति कश्च… ।
द्वधो नराणामिह जीवलोके।
प्रमत्तमर्था हि नरं समन्ता… ।
त्त्यजन्त्यनर्थाश्च समाविशन्ति ॥ १०.१०.१९ ॥

この生きとし生けるものの世界において、怠慢に勝る破滅は人間にはない。怠慢な人からは富が四方から離れ去り、災いがその身に入り込む。

10.10.20

ध्वजोत्तमाग्रोच्छ्रितधूमकेतुं ।
शरार्चिषं दीप्तमहापताकम्।
महाधनुर्ज्यातलनेमिघोषं ।
तनुत्रनानाविधशस्त्रहोमम् ॥ १०.१०.२० ॥

高く掲げられた最上の旗の頂から立ち上る煙の旗を持ち、矢を炎とし、燃え上がる大きな幟を持ち、大弓の弦の縁の轟音を響かせ、甲冑と種々の武器を供物とする。

10.10.21

महाचमूकक्षदवाभिपन्नं ।
महाहवे भीष्ममहादवाग्निम्।
ये तेरुरुच्चावचशस्त्रवेगै… ।
स्ते राजपुत्रा निहताः प्रमादात् ॥ १०.१०.२१ ॥

大軍の茂みの山火事に包まれ、あの大戦でビーシュマという大森林の火を、高低さまざまな武器の勢いで渡ろうとした王子たちは、怠慢のために殺された。

10.10.22

न हि प्रमत्तेन नरेण शक्य… ।
माप्तुं वसु श्रीर्विपुलं यशो वा।
पश्याप्रमादेन निहत्य शत्रू… ।
न्सर्वान्महेन्द्रं सुखमेधमानम् ॥ १०.१०.२२ ॥

怠慢な人が富や栄光や広大な名声を得ることはできない。見よ、不放逸によってすべての敵を倒し、インドラのように安楽に栄える者たちを。

10.10.23

इन्द्रोपमान्पार्थिवपुत्रपौत्रा… ।
न्पश्याविशेषेण हतान्प्रमादात्।
तीर्त्वा समुद्रं जणिजः समृद्वा ।
मग्नाः कुनद्यामिव सीदमानाः ॥ १०.१०.२३ ॥

インドラに等しい王の息子や孫たちを見よ。彼らは区別なく怠慢のために殺された。大海を渡って栄えた人々が、汚れた川に溺れて沈んでいくかのように沈んでいく。

10.10.24

अमर्षितैर्ये निहता नरेन्द्रा ।
निःसंशयं ते त्रिदिवं प्रपन्नाः।
कृष्णां तु शोचामि कथं नु साध्वी ।
शोकार्णवं सा विषहिष्यतीति ॥ १०.१०.२४ ॥

怒れる者たちに殺された王たちは、疑いなく天界に達した。しかし私はクリシュナーのために嘆く——あの貞淑な女性は、この悲しみの海にどう耐えるのだろうか。

10.10.25

भातृंश्च पुत्रांश्च हतान्निशम्य ।
पाञ्चालसराजं पितरं च वृद्वम्।
ध्रुवं विसञ्ज्ञा पतिता पृथिव्यां ।
सा शोष्यते शोककृशाङ्गयष्टिः ॥ १०.१०.२५ ॥

兄弟や息子たちが殺されたと聞き、またパーンチャーラの王と年老いた父も殺されたと聞いて、彼女はきっと意識を失って地に倒れるだろう。悲しみに痩せ細った身体で、彼女は衰えていくだろう。

10.10.26

तच्छोकजं दुःखमपारयन्ती ।
कथं भविष्यत्युचिता सुखानाम्।
रोरूयते ज्ञातिवधाभितप्ता ।
प्रदह्वमानेव हुताशनेन ॥ १०.१०.२६ ॥

その悲しみから生じた苦しみに耐えられず、彼女はどうして幸福にふさわしくなれようか。親族の殺戮に苦しみ、彼女は祭火の中で焼かれるかのように泣いている。

10.10.27

इत्येवमार्तः परिदेवयन्स ।
राजाज कुरूणां नकुलं बभाषे।
गच्छान्यैनामिह मन्दभाग्यां ।
समातृपक्षामिति राजपुत्रीम् ॥ १०.१०.२७ ॥

このように悲嘆し嘆き悲しんだクル王は、ナクラに言った。「ここから他の者たちと共に、母方の親族とともにいるあの不幸な王女のもとへ行け。」

10.10.28

माद्रीसुतस्तत्परिगृह्य वाक्यं ।
धर्मेण धर्मप्रथमस्य राज्ञः।
ययौ रथेनालयमाशुदेव्याः ।
पाञ्चालराजस्य च यत्र दाराः ॥ १०.१०.२८ ॥

マードリーの子(ナクラ)はその言葉を受け入れ、法にかけて第一の王の命によって、戦車に乗り、あの女神の住まい、パーンチャーラ王の妻たちがいる所へ向かった。

10.10.29

प्रस्थाप्य माद्रीसुतमाजमीढः ।
शोकार्दितस्तैः सहितः सुहृद्भिः।
रोरूयमाणः प्रययौ सुताना… ।
मायोधनं भूतगणानुकीर्णम् ॥ १०.१०.२९ ॥

マードリーの息子を先に送り出し、悲しみに苦しむアジャミーダ家の末裔(ユディシュティラ)は、友人たちと共に泣きながら、息子たちの…戦場へ向かった。そこは亡霊の群れで埋め尽くされていた。

10.10.30

स तत्प्रविश्याशिवमुग्ररूपं ।
ददर्श पुत्रान्सुहृदः सखींश्च।
भूमौ शयानान्रुधिरार्द्रगात्रा… ।
न्विभिन्नदेहान्प्रहृतोत्तमाङ्गान् ॥ १०.१०.३० ॥

その不吉で恐ろしい姿の戦場に入り、彼は息子たち、友人、仲間たちが地に横たわり、体は血にまみれ、身は引き裂かれ、頭を打たれているのを見た。

10.10.31

स तांस्तु दृष्ट्वा भृशमार्तरूपो ।
युधिष्ठिरो धर्मभृतां वरिष्ठः।
उच्चैः प्रचुक्रोश च कौरवाग्र्यः ।
पपात चोर्व्यां सगणो विसंज्ञः ॥ १०.१०.३१ ॥

彼らすべてを見て、法を守る者の中で最も優れたユディシュティラ、クル族の第一人者は、極度の苦悩に苛まれ、大声で叫び、従者たちと共に大地に倒れ、意識を失った。