摩诃婆罗多 · 章 10.3
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
10.3.1
कृपस्य वचनं श्रुत्वा धर्मार्थसहितं शुभम् ।
अश्वत्थामा महाराज दुःखशोकसमन्वितः ॥ १०.३.१ ॥
聽了憍利波的善言,合乎法與利,大王啊,充滿悲痛與憂傷的阿濕婆陀摩……
10.3.2
दह्यमानस्तु शोकेन प्रदीप्तेनाग्निना यथा ।
क्रूरं मनस्ततः कृत्वा तावभौ प्रत्यभाषत ॥ १०.३.२ ॥
他被悲痛焚烧,如同熊熊烈火,于是使心变得残忍,对那二人说道。
10.3.3
पुरुषेपुरुषे बुद्धिर्याया भवति शोभना ।
तुष्यन्ति च पृथक्सर्वे प्रज्ञया ते स्वयास्वया ॥ १०.३.३ ॥
每个人的智慧各有其善;众人各自以自己的智慧而满足。
10.3.4
सर्वो हि मन्यते लोक आत्मानं बुद्धिमत्तरम् ।
सर्वस्यात्मा बहुमतः सर्वोत्मानं प्रशंसति ॥ १०.३.४ ॥
世人都认为自己更有智慧;每个人都极其看重自己,并称赞自己。
10.3.5
सर्वस्य हि स्वका प्रज्ञा साधुवादे प्रतिष्ठिता ।
परबुद्धिं च निन्दन्ति स्वां प्रशंसन्ति चासकृत् ॥ १०.३.५ ॥
每个人自身的智慧都建立在其所认可为善的基础之上;他们指责他人的见解,而不断地称赞自己的见解。
10.3.6
कारणान्तरयोगेन येषां संवदते मतिः ।
तेऽन्योन्येन च तुष्यन्ति बहुमन्यन्ति चासकृत् ॥ १०.३.६ ॥
凡因其他缘故而意见相合的人,彼此便感到满足,并且一再互相尊重。
10.3.7
तस्यैव तु मनुष्यस्य सासा बुद्धिस्तदातदा ।
कालयोगे विपर्यासं प्राप्यान्योन्यं विपद्यते ॥ १०.३.७ ॥
这同一个人的智慧时时变化;与时间相合而陷入颠倒,便会自相毁坏。
10.3.8
अनित्यत्वात्तु चित्तानां मनुष्याणां विशेषतः ।
चित्तवैक्लब्यमासाद्य सासा बुद्धिः प्रजायते ॥ १०.३.८ ॥
因人心无常,尤其心乱之时,便生出种种不同的智慧。
10.3.9
यथा हि वैद्यः कुशलो ज्ञात्वा व्याधिं यथाविधि ।
भैषज्यं कुरुते योगात्प्रशमार्थमिति प्रभो ॥ १०.३.९ ॥
犹如高明的医生依法识知疾病后,以配合之法调制药剂以求平息,啊主人。
10.3.10
एवं कार्यस्य योगात्प्रशमार्थमिति प्रभो ।
प्रज्ञया च स्वया युक्त्या तां च गृह्णन्ति वै बुधाः ॥ १०.३.१० ॥
同样,以与事务相合之故,啊主人,为了平息,智者以自己的智慧与推理去承担它。
10.3.11
अन्यया यौवने बाल्ये बुद्ध्या भवति मोहितः ।
मध्येऽन्यया जरायां तु सोन्यां रोचयते मतिम् ॥ १०.३.११ ॥
少年与童年时,人被一种智慧所迷惑;中年时被另一种迷惑,而到了老年,他又喜欢另一种见解。
10.3.12
व्यसन वा महाघोरं समृद्धिं चापि तादृशीम् ।
अवाप्य पुरुषो भोज कुरुते बुद्धिवैकृतम् ॥ १०.३.१२ ॥
啊,婆阇,人若遭遇极可怕的灾祸,或同样的兴盛,便会使自己的智慧发生扭曲。
10.3.13
एकस्मिन्नेव पुरुषे सासा बुद्धिस्तदातदा ।
भवत्यनित्या प्रज्ञा हि सा तस्यैव न रोचते ॥ १०.३.१३ ॥
同一个人的那种智慧时时变化;那无常的觉知,他自己也不喜欢。
10.3.14
निश्चित्य तु यथाप्रज्ञं यां मतिं साधु पश्यति ।
तया प्रकुरुते भावं सा तस्योद्योगकारिका ॥ १०.३.१४ ॥
依自己的智慧作出决定后,他以认为善的那种见解去行动;那就是引发他努力的原因。
10.3.15
सर्वो हि पुरुषो भोज साध्वेतदिति निश्चितः ।
कर्तुमारभते प्रीतिं मरणादिषु कर्मसु ॥ १०.३.१५ ॥
啊,婆陀,每个人确信“这是好的”,甚至会欣然着手从事那些导致死亡之类的行为。
10.3.16
सर्वे हि युक्तां विज्ञाय प्रज्ञां वापि स्वकां नराः ।
चेष्टन्ते विविधां चेष्टां हितमित्येव जानते ॥ १०.३.१६ ॥
所有人都依据自己恰当的智慧,进行各种努力,并且认为这是有益的。
10.3.17
उपजाता व्यसनजा येयमद्य मतिर्मम ।
युवयोस्तां प्रवक्ष्यामि सर्वेषां शोकनाशिनीम् ॥ १०.३.१७ ॥
这个由灾难所生的想法,今日在我心中升起;我要说给你们两人听,因为它能消除所有人的悲伤。
10.3.18
प्रजापतिः प्रजाः सृष्ट्वा कर्म तासु विधाय च ।
वर्णेवर्णे समाधत्त ह्येकैकं गुणवत्तरम् ॥ १०.३.१८ ॥
生主创造了众生,并在他们之中分配职责,在每一种姓中确立了一个品质更优的个体。
10.3.19
ब्राह्मणे वेदमग्र्यं तु क्षत्रिये तेज उत्तमम् ।
दाक्ष्यं वैश्ये च शूद्रे च सर्ववर्णानुकूलताम् ॥ १०.३.१९ ॥
婆罗门之上者为吠陀,刹帝利之上者为至上之威力,吠舍与首陀罗之上者为技艺,而一切种姓皆以相应其本分为要。
10.3.20
अदान्तो ब्राह्मणोऽसाधुर्निस्तेजाः क्षत्रियो मृतः ।
अदक्षो निन्द्यते वैश्यः शूद्रश्च प्रतिकूलवान् ॥ १०.३.२० ॥
不能克制的婆罗门是恶人;失去威力的刹帝利如同死人;不才的吠舍遭人非议;怀有敌意的首陀罗亦然。
10.3.21
सोऽस्मि जातः कुले श्रेष्ठे ब्राह्मणैरभिपूजिते ।
मन्दभाग्यतयाऽस्म्येतं क्षत्रधर्ममनुष्ठितः ॥ १०.३.२१ ॥
我生于一个受婆罗门极度尊崇的高贵家族;因命运不佳,我奉行了刹帝利的本分。
10.3.22
क्षत्रधर्मं विदित्वाऽहं यदि ब्राह्मण्यमाश्रितः ।
प्रकरिष्ये महत्कर्म न मे तत्साधुसम्मतम् ॥ १०.३.२२ ॥
我既知刹帝利之本分,若转而依托婆罗门的生活并成就大事,那便不为善人所认可。
10.3.23
धारयित्वा धनुर्दिव्यं दिव्यान्यस्त्राणि चाहवे ।
पितरं निहतं दृष्ट्वा किन्नु वक्ष्यामि संसदि ॥ १०.३.२३ ॥
我在战场上执持神弓与神兵,见父亲已被杀死,那么在大会之上我又该说什么呢?
10.3.24
सोऽहमद्य यथाकामं क्षत्रधर्ममवाप्य च ।
गन्ताऽस्मि पदवीं राज्ञः पितुश्चापि महात्मनः ॥ १०.३.२४ ॥
我今日如愿获得刹帝利的本分,将循着国王与伟大心灵之父的道路而行。
10.3.25
अद्य स्वप्स्यन्ति पाञ्चाला विश्वस्ता जितकाशिनः ।
विमुक्तयुग्यकवचा हर्षेण च समन्विताः।
वयं जिता मताश्चैषां श्रान्ता व्यायामकर्शिताः ॥ १०.३.२५ ॥
今日般遮罗人自信而以为已获胜,卸下车轭与甲胄,满怀喜悦而入睡;他们以为我们已败,疲惫不堪,因苦战而憔悴。
10.3.26
तेषां निशि प्रसुप्तानां सुस्थानां शिबिरे स्वके ।
अवस्कन्दं करिष्यामि शिबिरस्याद्य दुष्करम् ॥ १०.३.२६ ॥
夜间,当他们在自己的营中安然熟睡时,今日我将对他们发动突袭;攻击此营是困难的。
10.3.27
तानवस्कन्द्य शिबिरे प्रेतभूतानचेतसः ।
सूदयिष्यामि विक्रम्य मघवानिव दानवान् ॥ १०.३.२७ ॥
我将冲入营中,以勇力击杀他们——他们如鬼魅般失去知觉——正如因陀罗诛杀檀那婆。
10.3.28
अद्य तान्सहितान्सर्वान्धृष्टद्युम्नपुरोगमान् ।
सूदयिष्यामि विक्रम्य कक्षं दीप्त इवानलः ॥ १०.३.२८ ॥
今日我将以勇力击杀他们全部,他们聚集在持国子(德里斯塔德云姆纳)之前,正如烈火焚烧干草。
10.3.29
निहत्य चैव पाञ्चालाञ्शान्तिं लब्धाऽस्मि सत्तम ॥ १०.३.२९ ॥
善人中的至尊啊,诛灭般遮罗人之后,我将获得平静。
10.3.30
पाञ्चालेषु चरिष्यामि सूदयन्नद्य संयुगे ।
पिनाकपाणिः सङ्क्रुद्धः स्वयं रुद्रः पशुष्विव ॥ १०.३.३० ॥
今日我将在战场上于般遮罗人之间往来杀戮,正如手持毗那迦弓、盛怒的楼陀罗亲自在群兽之间往来。
10.3.31
अद्याहं सर्वपाञ्चालान्निकृत्या च निकृष्य च ।
अर्दयिष्यामि संहृष्टो रणे पाण्डुसुतांस्तथा।
सूदयिष्यामि सङ्क्रुद्धः पशूनिव पिनाकधृत् ॥ १०.३.३१ ॥
今日我将砍杀并拖拽所有般遮罗人,欢喜地在战场上折磨般度之子。我怒气冲冲,如持毗那迦弓者,像屠宰牲畜一样杀戮他们。
10.3.32
अद्याहं सर्वपाञ्चालैः कृत्वा भूमिं शरीरिणीम् ।
प्रहृत्यैकेन शस्त्रेण भविष्याम्यनृणः पितुः ॥ १०.३.३२ ॥
今日我将以众般遮罗人使大地成为有形之体,以一件兵器击杀,从而还清父亲的恩债。
10.3.33
दुर्योधनस्य कर्णस्य भीष्मसैन्धवयोरपि ।
गमिष्यामि निशावेलां पदवीमद्य दुर्गमाम् ॥ १०.३.३३ ॥
今日我也将走上杜尔悉陀那、迦尔纳、毗湿摩和信度王的道路,在夜间沿着那条艰险之路前行。
10.3.34
अद्य पाञ्चालराजस्य धृष्टद्युम्नस्य वै निशि ।
विरात्रे प्रमथिष्यामि पशोरिव शिरो बलात् ॥ १०.३.३४ ॥
今夜深夜,我将强行碾碎般遮罗王德里西塔尤姆那的头颅,如同压碎牲畜之首。
10.3.35
अद्य पाञ्चालपाण्डूनां शयितानां शिरो निशि ।
खङ्गेन निशितेनाजौ प्रमथिष्यामि गौतम ॥ १०.३.३५ ॥
瞿昙啊!今夜,我将以利剑击碎在战场上沉睡的般遮罗人与般度人的头颅。
10.3.36
अद्य पाञ्चालसेनां तां निहत्य निशि सौप्तिके ।
कृतकृत्यः सुखी चैव भविष्यामि महामते ॥ १०.३.३६ ॥
智慧者啊,今夜趁众人熟睡,我将杀尽那支般遮罗军队,从而success事成而喜乐。