摩诃婆罗多 · 章 10.7
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
10.7.1
एवं सञ्चिन्तयित्वा तु द्रोणपुत्रो विशाम्पते ।
अवतीर्य रथोपस्थाद्दध्यौ स प्रयतः स्थितः ॥ १०.७.१ ॥
如此思量之后,德罗纳之子,人主啊,从车座上下来,自制地站立,沉思冥想。
10.7.2
उग्रं स्थाणुं शिवं रुद्रं शर्वमीशानमीश्वरम् ।
गिरिशं वरदं देवं भवभावनमव्ययम् ॥ १०.७.२ ॥
猛烈者、坚定者、吉祥者、楼陀罗、湿婆、伊舍那、主宰、吉黎沙、赐予恩惠的神、令有生成者、不灭者。
10.7.3
शितिकण्ठमजं रुद्रं दक्षक्रतुहरं हरम् ।
विश्वरूपं विरूपाक्षं बहुरूपमुमापतिम् ॥ १०.७.३ ॥
青颈者、不生者、楼陀罗、摧毁达刹祭祀者、哈罗、具一切形相者、异相眼者、多形者、乌玛之主。
10.7.4
श्मशानवासिनं दृप्तं महागणपतिं विभुम् ।
खट्वाङ्गधारिणं मुण्डं जटिलं ब्रह्मचारिणम् ॥ १०.७.४ ॥
居于火葬场者、高傲者、大众之主、遍在者、持骷髅杖者、剃光头者、结发者、梵行者。
10.7.5
मनसा ह्यनुचिन्त्यैनं दुष्करेणाल्पचेतसा ।
अद्य भूतोपहारेण यक्ष्ये त्रिपुराघातिनम् ॥ १०.७.५ ॥
我心中思念此神,尽管智识浅薄,以艰难之举,今日以众生为供品,我将祭拜摧毁三城者。
10.7.6
…तुतं स्तुत्यं स्तूयमानममोघं कृत्तिवाससम् ।
विलोहितं नीलकण्ठमसह्यं दुर्निवारणम् ॥ १०.७.६ ॥
……被赞颂者、值得赞颂者、正被赞颂者、不虚妄者、以兽皮为衣者、赤色者、青颈者、难以承受者、不可阻挡者。
10.7.7
शुक्रं विश्वसृजं ब्रह्म ब्रह्मचारिणमेव च ।
व्रतवन्तं तपोनिष्ठमनन्तं तपतां गतिम् ॥ १०.७.७ ॥
光明者,宇宙的创造者,梵,亦是梵行者;持守誓愿,专注苦行,无限,是苦行者的归宿。
10.7.8
बहुरूपं गणाध्यक्षं त्र्यक्षं पारिषदप्रियम् ।
धनाध्यक्षप्रियसखं गौरीहृदयवल्लभम् ॥ १०.७.८ ॥
具多种形相,众神之主,三目,为随从所爱,财神俱毗罗的爱友,为高利之心所爱之人。
10.7.9
कुमारपितरं पिङ्गं गोवृषोत्तमवाहनम् ।
कुत्तिवाससमत्युग्रमातोषणतत्परम् ॥ १०.७.९ ॥
童子之父,赤黄色,以最好的公牛为坐骑,身披兽皮,极其猛烈,乐于被取悦。
10.7.10
परं परेभ्यः परमं परं यस्मान्न विद्यते ।
इष्वस्त्रोत्तमभर्तारं दिगन्तं देशरक्षिणम् ॥ १०.७.१० ॥
超越诸尊之至尊,无有能过之者;执掌最上箭矢与武器,守护四方尽头之疆域。
10.7.11
हिरण्यकवचं देवं चन्द्रमौलिविभूषणम् ।
प्रपद्ये शरणं देवं परमेण समाधिना ॥ १०.७.११ ॥
身披金甲之神,以月为冠饰。我以最高的定心,皈依此神。
10.7.12
इमां चेदापदं घोरां तराम्यद्य सुदुस्तराम् ।
सर्वभूतोपहारेण यक्ष्येऽहं शुचिना शुचिम् ॥ १०.७.१२ ॥
若我今日能渡过此可怖、极难渡过的灾难,我将以一切众生的供奉,以清净之身礼拜清净之神。
10.7.13
इति तस्य व्यवसितं ज्ञात्वा योगात्सुकर्मणः ।
पुरस्तात्काञ्चनी वेदी प्रादुरासीन्महात्मनः ॥ १०.७.१३ ॥
知其决意,以善行者的瑜伽之力,在这位大德面前出现了一座金祭坛。
10.7.14
तस्यां वेद्यां तदा राजंश्चित्रभानुरजायत ।
स दिशो विदिशः खं च ज्वालाभिरिव पूरयन् ॥ १०.७.१४ ॥
大王,那时祭坛上升起了火神止拔努(Citrabhānu),以其火焰充满四方、隅方与天空。
10.7.15
दीप्तास्यनयनाश्चात्र नैकपादशिरोधराः ।
रत्नचित्राङ्गदधराः समुद्यतकरास्तथाः ॥ १०.७.१५ ॥
此处出现了面目与双眼燃烧的存在,有多只脚和多个脖颈,佩戴镶嵌宝石的斑斓臂环,高举双手。
10.7.16
द्विपाः शैलप्रतीकाशाः प्रादुरासन्महागणाः ।
श्ववराहोष्ट्ररूपाश्च हयगोमायुगोमुखाः ॥ १०.७.१६ ॥
如山的大象与众多大群出现了;有狗、野猪、骆驼之形的,以及有马、豺、牛之面的,也都出现了。
10.7.17
ऋक्षमार्जारवदना व्याघ्रद्वीपिमुखास्तथा ।
काकवक्त्राः प्लुवमुखाः शुकवक्त्रास्तथैव च ॥ १०.७.१७ ॥
有熊与猫之面的,有虎与豹之面的,同样也有乌鸦、青蛙、鹦鹉之面的。
10.7.18
महाजगरवक्त्राश्च हंसवक्त्राः शितप्रभाः ।
दार्वाघाटमुखाश्चापि चाषवक्त्राश्च भारत ॥ १०.७.१८ ॥
又有大蟒之面、天鹅之面、清冷光辉者,有啄木鸟之面与蓝喉鸟之面,婆罗多啊。
10.7.19
कूर्मनक्रमुखाश्चैव शिंशुमारमुखास्तथा ।
महामकरवक्त्राश्च तिमिवक्त्रास्तथैव च ॥ १०.७.१९ ॥
有的面如龟与鳄,同样有面如海豚、大海怪摩伽罗与鲸鱼者。
10.7.20
हरिवक्त्राः क्रौञ्चमुखाः कपोताभमुखास्तथा ।
पारावतमुखाश्चैव मद्गुवक्त्रास्तथैव च ॥ १०.७.२० ॥
有的面如狮猴,有面如鹤者,有面色如鸽者,同样有面如鸽子、面如麦鸡者。
10.7.21
पाणिकर्णाः सहस्राक्षास्तथैव च महोदराः ।
निर्मांसाः काकवक्त्राश्च श्येनवक्त्राश्च भारत ॥ १०.७.२१ ॥
以手为耳,有千目者,同样有大腹者,无肉者,有乌鸦面和鹰面者,婆罗多啊。
10.7.22
तथैवाशिरसो राजन्नृक्षवक्त्राश्च भीषणाः ।
प्रदीप्तनेत्रजिह्वाश्च ज्वालावर्णास्तथैव च ॥ १०.७.२२ ॥
同样,王啊,有无头者,有熊面者,可怖者,眼与舌燃烧者,有火焰色者。
10.7.23
ज्वालाकेशाश्च राजेन्द्र ज्वलद्रोमचतुर्भुजाः ।
मेषवक्त्रास्तथैवान्ये तथा छागमुखा नृप ॥ १०.७.२३ ॥
发如火焰,王中之王啊,身毛燃烧,四臂者;同样有羊面者,也有山羊面者,王啊。
10.7.24
शङ्खाभाः शङ्खवक्त्राश्च शङ्खवर्णास्तथैव च ।
शङ्खमालापरिकराः शह्खध्वनिसमस्वनाः ॥ १०.७.२४ ॥
如海螺之光,有海螺面者,有海螺色者,同样身缠海螺花环,声音如海螺之鸣。
10.7.25
जटाधराः प़ञ्चशिखास्तथा मुण्डाः कृशोदराः ।
चतुर्दंष्ट्राश्चतुर्जिह्वाः शङ्कुकर्णाः किरीटिनः ॥ १०.७.२५ ॥
头发纠结成束,留五撮发髻,同样剃光头顶,腹部精瘦,四颗獠牙,四条舌头,耳朵如木桩,戴着冠冕。
10.7.26
मौञ्जीधराश्च राजेन्द्र तथा कुञ्चितमूर्धजाः ।
उष्णीषिणः कुण्डलिनश्चारुवक्त्राः स्वलङ्कृताः ॥ १०.७.२६ ॥
帝王之主啊,身系茅草腰带,同样头发卷曲,戴着头巾,佩着耳环,面容俊美,装饰精美。
10.7.27
पद्मोत्पलापीडधरास्तथा मुकुटधारिणः ।
महात्म्येन च संयुक्ताः शतशोऽथ सहस्रशः ॥ १०.७.२७ ॥
佩戴莲花与青莲花的花环,同样戴着冠冕,具有伟大威力,成百上千。
10.7.28
शतघ्नीचक्रहस्ताश्च तथा मुसलपाणयः ।
भुशुण्डीपाशहस्ताश्च दण्डहस्ताश्च भारत ॥ १०.७.२८ ॥
手持百杀与战轮,同样手持木杵,手持投枪与绳索,手持棍棒,婆罗多啊。
10.7.29
पृष्ठेषु बद्धेषुधयश्चित्रबाणोत्कटास्तथा ।
सध्वजाः सपताकाश्च सघण्टाः सपरश्वथाः ॥ १०.७.२९ ॥
背上缚着箭袋,以彩色箭矢而凶猛,同样携带旗帜、幡幢、铃铛与斧钺。
10.7.30
महापाशोद्यतकरास्तथा लगुडपाणयः ।
स्थूणाहस्ताः खङ्गहस्ताः सर्पोच्छ्रितकिरीटिनः ॥ १०.७.३० ॥
高举大套索于手中,同样手持棍棒、木桩与长剑,冠冕之上高举着蛇。
10.7.31
महासर्पाङ्गदधराश्चित्राभरणधारिणः ।
रजोध्वजाः पङ्कदिग्धाः सर्वे चित्राम्बरस्रजः।
नीलाङ्गाः पिङ्गलाङ्गाश्च मुण्डवक्तास्तथैव च ॥ १०.७.३१ ॥
臂上缠着大蛇作臂环,佩戴各色饰物,旗帜如尘,满身泥污,皆着彩衣、戴花鬘,有黑色身躯和黄色身躯者,也有剃光头面者。
10.7.32
भेरीशङ्खमृदङ्गांश्च झर्झरानकगोमुखान् ।
अवादयन्पारिषदाः प्रहृष्टाः कनकप्रभाः ॥ १०.७.३२ ॥
金色光辉的随从们欢欣鼓舞,吹奏起大鼓、海螺、鼓、钹与角鼓。
10.7.33
गायमानास्तथैवान्ये संहृष्टाः पुरुषर्षभाः ।
लङ्घयन्तः प्लुवन्तश्च वल्गन्तश्च महारथाः ॥ १०.७.३३ ॥
有人歌唱,其他人也一样;人中之雄欢欣鼓舞,跳跃、腾越、嬉戏,大车战士们。
10.7.34
धावन्तो जवनाश्चण्डाः पावकोद्वूतमूर्धजाः ।
मत्ता इव महानागा विनदन्तो मुहुर्मुहुः ॥ १०.७.३४ ॥
奔跑迅捷而凶猛,发被火焰吹起,如同发狂的大象,一次又一次地咆哮。
10.7.35
सुभीमा घोररूपाश्च शूलपट्टसपाणयः ।
नानाविरागवसनाश्चित्रमाल्यानुलेपनाः ॥ १०.७.३५ ॥
极其可怖,形貌骇人,手持三叉戟与剑,身穿各色衣裳,佩戴彩色花鬘,涂抹香膏。
10.7.36
रत्नचित्राङ्गदधराः समुद्यतकरास्तथा ।
हन्तारो द्विषतां शूराः प्रसह्यासह्यविक्रमाः ॥ १०.७.३६ ॥
佩戴镶嵌宝石的彩色臂环,双手高举,是杀敌的英雄,以不可抵挡的勇力强行取胜。
10.7.37
पातारोऽसृग्वसाज्यानां मांसान्त्रकृतभोजनाः ।
चूडालाः कर्णिकाराश्च प्रहृष्टाः पिठरोदराः ॥ १०.७.३७ ॥
他们饮血、髓与脂,以肉和肠为食,戴着发髻,佩戴羯尼迦罗花耳饰,欢喜雀跃,腹如陶罐。
10.7.38
अतिहस्वातिदीर्घाश्च प्रलम्बाश्चातिभैरवाः ।
विकटाः काललंबोष्ठा बृहच्छेफाण्डपिण्डिकाः ॥ १०.७.३८ ॥
他们极其矮小又极其高大,肢体下垂,极为可怖,形貌扭曲,黑色下垂的嘴唇,生殖器、睾丸和小腿都很大。
10.7.39
महार्हनानाविकटा मुण्डाश्च जटिलाः परे ।
सार्केन्दुग्रहनक्षत्रां द्यां कुर्युस्ते महीतले ॥ १०.७.३९ ॥
他们佩戴珍贵、多样而怪异的饰物;有的剃光了头,有的头发纠结成髻;他们能使大地上的天空充满太阳、月亮、行星与星宿。
10.7.40
उत्सहेरंश्च ये हन्तुं भूतग्रामं चतुर्विधम् ।
ये च वीतभया नित्यं हरस्य भ्रुकुटीसहाः ॥ १०.७.४० ॥
那些敢于杀尽四类众生的人,他们永远无所畏惧,并能承受哈罗(湿婆)的皱眉。
10.7.41
कामकारकरा नित्यं त्रैलोक्यस्येश्वरेश्वराः ।
नित्यानन्दप्रमुदिता वागीशा वीतमत्सराः ॥ १०.७.४१ ॥
他们永远随心所欲而行,是三界众主之主,恒常欢喜于永恒的喜乐,是言语之主,没有嫉妒。
10.7.42
प्राप्याष्टगुणमैश्वर्यं ये न यास्यन्ति वै स्मयम् ।
येषां विस्मयते नित्यं भगवान्कर्मभिर्हरः ॥ १०.७.४२ ॥
那些获得八种功德的主宰之权却不生骄慢的人,那些行为令吉祥的哈罗永远惊叹的人。
10.7.43
मनोवाक्कर्मभिर्युक्तैर्नित्यमाराधितश्च यैः ।
मनोवाक्कर्मभिर्भक्तान्पाति पुत्रानिवौरसान् ॥ १०.७.४३ ॥
凡以意、语、业常常敬奉他的人,他保护这些信徒,如同保护自己的亲生儿子。
10.7.44
पिबन्तोऽसृग्वसाश्चान्ये क्रुद्धा ब्रह्मद्विषां सदा ।
चतुर्विधात्मकं सोमं ये पिबन्ति च सर्वदा ॥ १०.७.४४ ॥
另有一些人,常对婆罗门的仇敌怒火中烧,饮血与骨髓;还有常饮四重本性之苏摩的人。
10.7.45
श्रुतेन ब्रह्मचर्येण तपसा च दमेन च ।
ये समाराध्य शूलाङ्कं भवसायुज्यमागताः ॥ १०.७.४५ ॥
那些以闻学、梵行、苦行与克制感官,完全敬奉持三叉戟标记者,从而得以与婆婆(Bhava)合一的人。
10.7.46
यैरात्मभूतैर्भगवान्पार्वत्या च महेश्वरः ।
महाभूतगणैर्भुङ्क्ते भूतभव्यभवत्प्रभुः ॥ १०.७.४६ ॥
与他自身的眷属以及帕尔瓦蒂一起,世尊摩诃提婆通过诸大元素的众神而享受;他是过去、未来与现在的主宰。
10.7.47
नानावादित्रहसितक्ष्वेडितोत्कृष्टगर्जितैः ।
सन्त्रासयन्तस्ते विश्वमश्वत्थामानमभ्ययुः ॥ १०.७.४७ ॥
伴着各种乐器的喧笑、咆哮与巨大的吼声,惊吓整个世界,他们向阿摄婆陀摩扑来。
10.7.48
संस्तुवन्तो महादेवं भाः कुर्वाणाः सुवर्चसः ।
विवर्धयिषवो द्रौणेर्महिमानं महात्मनः ॥ १०.७.४८ ॥
赞颂大天(Mahādeva),放射光明,光辉灿烂,欲增益德罗纳之子大德者的威光。
10.7.49
जिज्ञासमानास्तत्तेजः सौप्तिकं च दिदृक्षवः ।
भीमोग्रपरिघालातशूलपट्टसपाणयः।
घोररूपाः समाजग्मुर्भूतसङ्घाः सहस्रशः ॥ १०.७.४९ ॥
渴望得知那光辉并目睹夜间的屠杀,形貌可怖的鬼魅群成千上万地聚集而来,手中握着可怖的铁棍、燃烧的火把、长矛与利剑。
10.7.50
जनयेयुर्भयं ये स्म त्रैलोक्यस्यापि दर्शनात् ।
न च तान्प्रेक्षमाणोऽपि व्यथामुपजगाम ह ॥ १०.७.५० ॥
他们仅凭一见便能使三界生惧,然而我看着他们,心中也并未生出痛苦。
10.7.51
अथ द्रौणिर्धनुष्पाणिर्बद्धगोधाङ्गुलित्रवान् ।
स्वयमेवात्मनात्मानमुपहारमुपाहरत् ॥ १०.७.५१ ॥
于是德罗纳之子手持弓,指上缠着皮革护套,亲自将自己献作祭品。
10.7.52
धनूंषि समिधस्तत्र पवित्राणि सिताः शराः ।
हविरात्मवतश्चात्मा तस्मिन्भारत कर्मणि ॥ १०.७.५२ ॥
婆罗多之裔啊,在那场祭祀中,弓是燃火的薪柴,白色的箭是圣洁之物,而克己者的自我便是供品。
10.7.53
ततः सौम्येन मन्त्रेण द्रोणपुत्रः प्रतापवान् ।
उपहारं महामन्युरथात्मानमुपाहरत् ॥ १०.७.५३ ॥
于是威猛而大怒的德罗纳之子,以温和的咒语将自己献作供品。
10.7.54
तं रुद्रं रौद्रकर्माणं रौद्रैः कर्मभिरच्युतम् ।
अभिष्टुत्य महात्मानमित्युवाच कृताञ्जलिः ॥ १०.७.५४ ॥
他赞颂那位行事可怖、即便以可怖之事也不动摇的大德楼陀罗之后,合掌说道。
10.7.55
इममात्मानमद्याहं जातमाङ्गिरसे कुले ।
स्वग्नौ जुहोमि भगवन्प्रतिगृह्णीष्व मां बलिम् ॥ १०.७.५५ ॥
今日我将这生于安吉罗娑族的自身,作为供品投入我自己的火中。世尊啊,请接受我这份祭品。
10.7.56
भवद्भक्त्या महादेव पस्मेण समाधिना ।
अस्यामापदि विश्वात्मन्नुपाकुर्मी तवाग्रतः ॥ १०.७.५६ ॥
大神啊,因我对您的虔敬与定心的专注,在此厄难之中,宇宙之魂啊,我将此献于您面前。
10.7.57
त्वयि सर्वाणि भूतानि सर्वभूतेषु चासि वै ।
गुणानां हि प्रधानानां कैवल्यं त्वयि तिष्ठति ॥ १०.७.५७ ॥
一切众生都在你之中,你也确实在一切众生之中。主要德性的解脱(kaivalya)安住于你之中。
10.7.58
सर्वभूताश्रय विभो हविर्भूतमवस्थितम् ।
प्रतिगृहाण मां देव यद्यशक्याः परे मया ॥ १०.७.५८ ॥
一切众生的依靠啊,遍在的主啊,我已化作祭品站立于此,请接受我吧,神啊,因为其他人已不能被我制服。
10.7.59
इत्युक्त्वा द्रौणिरास्थाय तां देवीं दीप्तपावकाम् ।
सन्त्यज्यात्मानमारुह्य कृष्णवर्त्मन्युपाविशत् ॥ १०.७.५९ ॥
说完这些,德罗纳之子依止那熊熊燃烧的火神,舍弃了身体,登上黑暗之道,便坐了下来。
10.7.60
तमूर्ध्वबाहुं निश्चेष्टं दृष्ट्वा हविरुपस्थितम् ।
अब्रवीद्भगवान्साक्षान्महादेवो हसन्निव ॥ १०.७.६० ॥
看见他高举双臂、纹丝不动地站立如供品,世尊大天(摩诃提婆)亲自开口,仿佛含笑说道。
10.7.61
सत्यशौचार्जवत्यागैस्तपसा नियमेन च ।
क्षान्त्या भक्त्या च धृत्या च कर्मणा मनसा गिरा ॥ १०.७.६१ ॥
以真实、清净、正直与舍弃,以苦行与戒律,以忍耐、虔敬与坚定,以行为、以心、以言。
10.7.62
यथावदहमाराद्वः कृष्णेनाक्लिष्टकर्मणा ।
तस्मादिष्टतमः कृष्णादन्यो मम न विद्यते ॥ १०.७.६२ ॥
我与行事不倦的克里希那一同如法地崇拜了您。因此,我没有比克里希那更亲爱的人。
10.7.63
कुर्वता तात सम्मानं त्वां च जिज्ञासता मया ।
पाञ्चालाः सर्वदा गुप्ता मायाश्च बहुशः कृताः ॥ १०.७.६३ ॥
孩子,我敬重您,并想认识您,因此始终保护般遮罗人,并多次施展幻术。
10.7.64
कृतस्तस्यैव सम्मानं पाञ्चालान्रक्षता मया ।
अभिभूतास्तु कालेन नैषामद्यास्ति जीवितम् ॥ १०.७.६४ ॥
我只是敬奉他,才保护了般遮罗人;然而他们已被时间所征服,今日其中无人尚存生命。
10.7.65
एवमुक्त्वा महात्मानं भगवानात्मनस्तनुम् ।
आविवेश ददौ चास्मै विमलं खङ्गमुत्तमम् ॥ १०.७.६५ ॥
对这位大德者说了这些话后,世尊进入了自身的形体,并赐给他一把纯净、上好的宝剑。
10.7.66
अथाविष्टो भगवता भूयो जज्वाल तेजसा ।
वेगवांश्चाभवद्युद्धे देवसृष्टेन तेजसा ॥ १०.७.६६ ॥
于是,他被世尊所附体,再次以光辉燃烧起来;在战斗中,他因神所造的光辉而变得迅猛。
10.7.67
तं दृष्ट्वा तानि भूतानि रक्षांसि च समाद्रवन् ।
अभितः शिबिरं यान्तं द्रोणपुत्रं महारथम्।
देवदेवं हरं स्थाउं यान्तं साक्षादिवेश्वरम् ॥ १०.७.६७ ॥
众生与罗刹见到他,从四面八方奔涌而来;德罗纳之子,大车将,正走向营地,仿佛至尊自在者、神中之神、不动者哈罗(湿婆)亲自前往一般。