摩诃婆罗多 · 章 11.1
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
11.1.1
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्
हते दुर्योधने चैव हते सैन्ये च सर्वशः ।
धृतराष्ट्रो महाराज श्रुत्वा किमकरोन्मुने ॥ ११.१.१ ॥
向那罗延、那罗以及人中最上者致敬,向女神萨罗室伐底和广博仙人致敬之后,应当诵念“胜利”。杜尤达那被杀、全军尽数覆灭之时,大王持国听闻后做了什么,哦,仙人?
11.1.2
तथैव कौरवो राजा धर्मपुत्रो महामनाः ।
कृपप्रभृतयश्चैव किमकुर्वत ते त्रयः ॥ ११.१.२ ॥
同样,那位俱卢王、法之子、大心者,以及克里帕等人——那三位又做了什么?
11.1.3
अश्वत्थाम्नः कृतं कर्म शापश्चान्योन्यकारितः ।
वृत्तान्मुत्रं ब्रूहि यदभाषत सञ्जयः ॥ ११.१.३ ॥
请讲述阿什瓦塔曼所作之事,以及彼此施加的诅咒——即桑闪耶所叙述的事件始末。
11.1.4
हते पुत्रशते दीनं छिन्नशाखमिव द्रुमम् ।
पुत्रशोकाभिसन्प्तं धृतराष्ट्रं महीपतिम् ॥ ११.१.४ ॥
百子被杀之后,大地之主持国,如同断了枝干的树木般悲苦,因丧子之痛而煎熬。
11.1.5
ध्यानमूकत्वमापन्नं चिन्तया समभिप्लुतम् ।
सञ्जयो जयतां श्रेष्ठ राजानं वाक्यमब्रवीत् ॥ ११.१.५ ॥
对陷入忧虑、沉思无言的国王,胜利者中最杰出的桑闪耶说了这些话。
11.1.6
किं शोचसि महाराज नास्ति शोके सहायता ।
अक्षौहिण्यो हताश्चाष्टौ दश चैव विशाम्पते।
निर्जितेयं वसुमती शून्या स्थास्यति केवलम् ॥ ११.१.६ ॥
大王,你为何悲伤?悲伤中无可依靠。人主啊,八个半和十个阿克绍希尼军已被杀尽;这块被征服的大地只会空空荡荡地存在。
11.1.7
नानादिग्भ्यः समागम्य नानाजात्या नराधिपाः ।
सहितास्व पुत्रेण सर्वे वै निधनं गताः ॥ ११.१.७ ॥
来自四面八方、不同族类的诸王,连同他们的儿子,全都走向了死亡。
11.1.8
पितॄणां पुत्रपौत्राणां ज्ञातीनां सुहृदां तथा ।
गुरूणां चानुपूर्व्येण ये चान्येऽनुचरा हताः।
प्रेतकार्याणि सर्वाणि कारयस्व नराधिप ॥ ११.१.८ ॥
按次第为已死的父辈、子孙、亲属、朋友、长辈以及其他随从举行葬礼,人主啊。
11.1.9
तच्छ्रुत्वा करुणं पुत्रपौत्रवधार्दितः ।
पपात भुवि दुर्धर्षो वाताहत इव द्रुमः ॥ ११.१.९ ॥
听闻此言,因儿子与孙子被杀而痛苦万分,这位不可战胜的人悲恸地倒在地上,如同被风吹倒的树木。
11.1.10
हतपुत्रो हतामात्यो हतसर्वसुहृज्जनः ।
दुःखं नूनं गमिष्यामि विचरन्पृथिवीमिमाम् ॥ ११.१.१० ॥
儿子已死,大臣已死,所有朋友与亲族都已死去;我必定将在悲痛中流浪于这片大地之上。
11.1.11
किन्नु बन्धुविहीनस्य जीवितेन ममाद्य वै ।
लूनपक्षस्य इव मे वैनतेयस्य सञ्जय ॥ ११.१.११ ॥
善时啊,失去亲族的我,今日这生命又有何用?我就像被斩断双翼的毗娜达之子迦楼罗。
11.1.12
हृतराज्यो हतसुहृद्वतपुत्रश्च वै तथा ।
न भ्राजिष्ये महाप्राज्ञ क्षीणरश्मिरिवांशुमान् ॥ ११.१.१२ ॥
王权被夺,朋友已死,儿子也已死去;大智者啊,我将不再闪耀,就像光芒衰弱的太阳。
11.1.13
न कृतं सुहृदां वाक्यं जामद्ग्न्यस्य च ।
सभामध्ये तु कृष्णेन यच्छ्रेयोऽभिहितं मम। ॥ ११.१.१३ ॥
我没有听从朋友们的话,也没有听从杰玛达格尼之子的话。克里希那在会议中所说的对我有益的话,我也没有听从。
11.1.14
अलं वैरेण ते राजन्पुत्रः संगृद्यतामिति ।
तच्च वाक्यमकृत्वाऽहं भृशं तप्यामि दुर्मतिः ॥ ११.१.१४ ॥
"国王啊,敌意已经足够;请接纳你的儿子。"我没有听从这话,愚昧的我如今深感懊悔。
11.1.15
न हि श्रोताऽस्मि भीष्मस्य शर्मयुक्तं प्रभाषितम् ॥ ११.१.१५ ॥
我确实没有听从毗湿摩那充满福祉的话。
11.1.16
दुर्योधनस्य च तथा वृषभस्येव नर्दतः ।
दुःशासनवधं श्रुत्वा कर्णस्य च विपर्ययम्।
द्रोणसूर्योपरागं च हृदयं मे विदीर्यते ॥ ११.१.१६ ॥
听到难敌如公牛般的咆哮,听到难降的被杀、迦尔纳的逆转,以及德罗纳这太阳的陨落,我的心如同被撕裂一般。
11.1.17
न स्मराम्यात्मनः किञ्चित्पुरा सञ्जय दुष्कृतम् ।
यस्येदं फलमद्येह मया मूढेन भुज्यते ॥ ११.१.१७ ॥
桑闍耶啊,我不记得自己过去有什么恶业,今天在这里由愚昧的我承受其果报。
11.1.18
नूनं व्यपकृतं किञ्चिन्मया पूर्वेषु जन्मसु ।
येन मां दुःखभागेषु धाता कर्मसु युक्तवान् ॥ ११.१.१८ ॥
我在前世必定做过什么不当之事,因此造物主使我承受了苦难的份额。
11.1.19
परिणामश्च वयसः सर्वबन्धुक्षयश्च मे ।
सुहृन्मित्रविनाशश्च दैवयोगादुपागतः ॥ ११.१.१९ ॥
衰老已临到我身,我所有的亲族都已灭亡;由于天命的安排,我的良友和朋友也都已消逝。
11.1.20
कोन्वस्ति दुःखिततरो मत्तोऽन्यो हि पुमान्भुवि ॥ ११.१.२० ॥
世上还有哪个人比我更加悲痛呢?
11.1.21
तन्मामद्यैव पश्यन्तु पाण्डवाः संशितव्रताः ।
विवृतं ब्रह्मलोकस्य दीर्घमध्वानमास्थितम् ॥ ११.१.२१ ॥
因此,愿今日就让坚守誓愿的般度子孙来见我吧,因为我已踏上通往梵天界的长长开阔之路。
11.1.22
तस्य लालप्यमानस्य बहु शोकं विचिन्वतः ।
शोकापहं नरेन्द्रस्य सञ्जयो वाक्यमब्रवीत् ॥ ११.१.२२ ॥
对那位因悲痛而大加哀叹、陷入沉思的国王,Sañjaya说出了这些能消除忧愁的话。
11.1.23
शोकं राजन्व्यपनुद श्रुतास्ते वेदनिश्चयाः ।
शास्त्रागमाश्च विविधा वृद्धेभ्यो नृपसत्तम ॥ ११.१.२३ ॥
国王啊,请驱散你的忧愁;你已从长者那里听闻了吠陀的确定之理与各种经典的传统,诸王中最尊贵的人啊。
11.1.24
सृञ्जये पुत्रशोकार्ते यदूर्चुर्मुनयः पुरा ।
यथा यौवनजं दर्पमास्थिते ते सुते नृप ॥ ११.१.२४ ॥
请听古时仙人关于遭受丧子之痛的斯林遮耶所说的话,正如你的诸子因青春之傲而执着一样,国王啊。
11.1.25
न त्वया सुहृदां वाक्यं ब्रुवतामवधारितम् ।
स्वार्थश्च न कृतः कश्चिल्लुब्धेन फलगृद्धिना ॥ ११.१.२५ ॥
你贪婪而贪图果实,未曾在意朋友们所说的话,也未曾为自己的利益做过任何事。
11.1.26
असिनैवैकधारेण स्वबुद्ध्या तु विचेष्टितम् ।
प्रायशोऽवृत्तसम्पन्नाः सततं पर्युपासिताः ॥ ११.१.२६ ॥
你凭自己的见识所做的行为,如同单刃之剑;而且大多时候,你总是侍奉那些品行不端的人。
11.1.27
यस्य दुःशासनो मन्त्री राधेयश्च दुरात्मवान् ।
शकुनिश्चैव दुष्टात्मा चित्रसेनश्च दुर्मतिः ॥ ११.१.२७ ॥
其大臣为恶心的难降(Duḥśāsana)、心术不正的罗陀之子(迦尔纳)、性情恶毒的沙恭尼,以及心怀恶念的旗使(Citrasena);
11.1.28
अनल्पं येन वै सर्वं शल्यभूतं कृतं जगत् ।
कुरुवृद्धस्य भीष्मस्य गान्धार्या विदुरस्य च ॥ ११.१.२८ ॥
因为他,整个世界对库卢长者毗湿摩、甘陀利和维杜罗而言,都变得如同刺一般,带来极大的苦难;
11.1.29
द्रोणस्य च महाराज कृपस्य च शरद्वतः ।
कृष्णस्य च महाबाहो नारदस्य च धीमतः ॥ ११.१.२९ ॥
大王啊,还有德罗纳、沙罗陀婆之子克里巴;大臂者啊,还有克里希纳,以及智慧的那罗陀。
11.1.30
ऋषीणां च तथाऽन्येषां व्यासस्यामिततेजसः ।
न कृतं तेन वचनं तव पुत्रेण भारत।
क्षपिताः क्षत्रियाः सर्वे शत्रूणां वर्धितं यशः ॥ ११.१.३० ॥
你的儿子也未曾听从诸仙人及其他人的话,也未听从光辉无量的毗耶娑的教诲。婆罗多啊!所有刹帝利都被灭绝,而敌人的名声却增长了。
11.1.31
अधर्मसंयुतं किञ्चिन्नित्यं युद्धमिति ब्रुवन् ।
मध्यस्थो हि त्वमप्यासीर्न क्षमं किञ्चिदुक्तवान् ॥ ११.१.३१ ॥
你说战争总是伴随着某种不义,于是也保持中立,没有说出任何合适的话。
11.1.32
धूर्धरेण त्वया भारस्तुलया न समं धृतः ॥ ११.१.३२ ॥
你这承担重担之人,并没有在天平上公平地衡量那份重担。
11.1.33
आदावेव मनुष्येण वर्तितव्यं यथाक्रमम् ।
यथा नातीतमर्थं वै पश्चात्तापेन युज्यते ॥ ११.१.३३ ॥
人应从一开始就循序而行,这样对于已经过去的事,事后就不会陷入懊悔。
11.1.34
पुत्रगृद्ध्या त्वया राजन्प्रियं तस्य चिकीर्षितम् ।
पश्चात्तापमिमं प्राप्तो न त्वं शोचितुमर्हसि ॥ ११.१.३४ ॥
大王啊,你因贪恋儿子,想要做让他欢喜的事;如今这份悔恨已临到你身上,你不应当悲伤。
11.1.35
मधु यः केवलं दृष्ट्वा प्रपातं नानुपश्यति ।
स भ्रष्टोमधुलोभेन शोचत्येव यथा भवान् ॥ ११.१.३५ ॥
只看见蜂蜜而看不见下面深渊的人,因贪恋蜂蜜而坠落,便会像你一样悲伤。
11.1.36
अर्थान्न शोचन्प्राप्नोति न शोचन्विन्दते सुखम् ।
न शोचञ्श्रियमाप्नोति न शोचन्विन्दते जयम् ॥ ११.१.३६ ॥
不悲伤的人得到财富;不悲伤的人找到幸福。不悲伤的人得到荣光;不悲伤的人得到胜利。
11.1.37
स्वयमुत्पादयित्वाऽग्निं परीतस्तेन योऽग्निना ।
दह्यमानः पुनस्तापं भजते न स पण्डितः ॥ ११.१.३७ ॥
自己点燃火焰,被火焰包围而燃烧,又再受苦的人,不是智者。
11.1.38
त्वयैव ससुतेनायं वाक्यवायुसमीरितः ।
लोभाज्येन च संसिक्तो ज्वलितः पार्थपावकः ॥ ११.१.३८ ॥
你与你的儿子们以言语之风煽动、以贪欲之酥油浇灌,点燃了普利塔之子的这团火。
11.1.39
तस्मिन्समिद्धे पतिताः शलभा इव ते सुताः ।
तान्केशवाग्निनिर्दग्धान्न त्वं शोचितुमर्हसि ॥ ११.१.३९ ॥
在那熊熊烈火中,你的儿子们如飞蛾般坠落。对于那些被克沙瓦之火烧死的人,你不应当悲伤。
11.1.40
यच्चाश्रुपातकलिलं वदनं वहसे नृप ।
अशास्त्रदृष्टमेतद्धि न प्रशंसन्ति पण्डिताः ॥ ११.१.४० ॥
啊,国王,你面上满是落泪、显得浑浊,这在典籍中并无记载,智者也不赞许。
11.1.41
विस्फुलिङ्गा इव ह्येतान्दहन्ति किल मानवान् ।
जहीहि मन्युं बुद्ध्या वै धास्यात्मानमात्मना ॥ ११.१.४१ ॥
这些火星实在会灼烧人。你应以智慧舍弃愤怒,并以自己的力量使自己安住于自身。
11.1.42
एवमाश्वासितं तेन सञ्जयेन महात्मना ।
विदुरो भूय एवाह बुद्धिपूर्वं परन्तप ॥ ११.१.४२ ॥
被伟大的桑贾耶如此安慰之后,维都拉又以智慧开口,啊,焚敌者。