Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 11.10

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

11.10.1

क्रोशमात्रं ततो गत्वा ददृशुस्तान्महारथान् ।
शारद्वतं कृपं द्रौणिं कृतवर्माणमेव च ॥ ११.१०.१ ॥

随后走了一克罗沙的距离,他们看见了那些大车勇士:沙罗陀瓦特之裔的克里帕、德罗纳之子,以及克里塔瓦尔曼。

11.10.2

ते तु दृष्ट्वैव राजानं प्रज्ञाचक्षुषमीश्वरम् ।
अश्रुकण्ठा विनिःश्वस्य रुदन्तमिदमब्रुवन् ॥ ११.१०.२ ॥

他们一见到国王——那位以智慧为眼的盲目主君——便哽咽着,深深叹息,哭泣着说出了这些话。

11.10.3

पुत्रस्तव महाराज कृत्वा कर्म सुदुष्करम् ।
गतः सानुचरो राजञ्शक्रलोकं महीपते ॥ ११.१०.३ ॥

大王,您的儿子完成了极其艰难的功业,已与随从一同前往因陀罗的世界,大地之主啊。

11.10.4

दुर्योधनबलान्मुक्ता वयमेव त्रयो रथाः ।
सर्वमन्यत्परिक्षीणं सैन्यं ते भरतर्षभ ॥ ११.१०.४ ॥

在难敌的军队中,只有我们三名车兵得以脱身;婆罗多族的雄牛啊,您其余的全部军队都已毁灭。

11.10.5

इत्येवमुक्त्वा राजानं कृपः शारद्वतस्ततः ।
गान्धारीं पुत्रशोकार्तामिदं वचनमब्रवीत् ॥ ११.१०.५ ॥

对国王说完这些话后,沙罗陀瓦特之裔的克里帕随即对因失子之痛而悲苦的甘陀利说出了这番话。

11.10.6

अभीता युध्यमानास्ते घ्नन्तः शत्रुगणान्बहून् ।
वीरकर्माणि कुर्वाणाः पुत्रास्ते निधनं गताः ॥ ११.१०.६ ॥

你的儿子们无所畏惧地战斗,击杀了无数敌众,建立了英雄的功业,最终战死。

11.10.7

ध्रवं सम्प्राप्य लोकांस्ते निर्मलाञ्शस्त्रनिर्जितान् ।
भास्वरं देहमास्थाय विहरन्त्यमरा इव ॥ ११.१०.७ ॥

他们已确然抵达以兵器赢得的清净世界,身披光耀之躯,如天神般漫游。

11.10.8

सर्वे ह्यभिमुखा राज्ञि युध्यमाना हता युधि ।
न हि कश्चिद्धि शूराणां युध्यमानः पराङ्मुखः।
शस्त्रेण निधनं प्राप्तो न च कश्चित्कृताञ्जलिः ॥ ११.१०.८ ॥

王后啊,他们都面向敌人、奋战不退,在战场上被杀。英雄之中,没有一人在战斗时背向敌人;也没有一人死于兵器时是合掌祈求的。

11.10.9

एतां तां क्षत्रियस्याहुः पुराणाः परमां गतिम् ।
शस्त्रेण निधनं सङ्ख्ये तान्न शोचितुमर्हसि ॥ ११.१०.९ ॥

古人称此为刹帝利的最高归宿:战场上死于兵器。因此你不应为他们悲伤。

11.10.10

न चापि शत्रवस्तेषां मुच्यन्ते राज्ञि पाण्डवाः ।
शृणु यत्कृतमस्माभिरश्वत्थामपुरोगमैः ॥ ११.१०.१० ॥

王后啊,他们的敌人般度之子也不会得到解脱。请听我们在马嘶之子(阿湿婆陀摩)率领下所做的事。

11.10.11

अधर्मेण हतं श्रुत्वा भीमसेनेन ते सुतम् ।
सुप्तं शिबिरमासाद्य पाण्डूनां कदनं कृतम् ॥ ११.१०.११ ॥

听闻你的儿子被怖军以不义之法所杀,我们便来到般度诸子熟睡的营地,进行了屠杀。

11.10.12

पाञ्चाला निहताः सर्वे धृष्टद्युम्नपुरोगमाः ।
द्रुपदस्यात्मजाश्चैव द्रौपदेयाश्च पातिताः ॥ ११.१०.१२ ॥

以法立首为首的所有般遮罗人都被杀了;德鲁帕达之子与德罗波蒂之子也都被击倒。

11.10.13

तथा विशसनं कृत्वा पुत्रशत्रुगणस्य ते ।
प्राद्रवाम रणे स्थातुं न हि शक्ष्यामहे त्रयः ॥ ११.१०.१३ ॥

如此屠杀了你诸子之敌的军队之后,我们三人却无法在战场上坚守,于是逃走了。

11.10.14

ते हि शूरा महेष्वासाः क्षिप्रमेष्यन्ति पाण्डवाः ।
अमर्षवशमापन्ना वैरं प्रतिजिहीर्षवः ॥ ११.१०.१४ ॥

那些英雄、大弓箭手般度之子,被愤怒所control,想要报复仇怨,很快就会到来。

11.10.15

ते हतानात्मजाञ्श्रुत्वा प्रमत्ताः पुरुषर्षभाः ।
अन्विष्यन्तः पदं शूराः क्षिप्रमेष्यन्ति पाण्डवाः ॥ ११.१०.१५ ॥

听闻自己的儿子被杀,那些人中之牛、英雄般度之子,发狂般寻找踪迹,很快就会到来。

11.10.16

तेषां तु किल्बिषं कृत्वा संस्थातुं नोत्सहामहे ।
अनुजानीहि नो राज्ञि मा च शोके मनः कृथाः ॥ ११.१०.१६ ॥

我们对他们犯了过错,不敢留在此地。王后啊,请允许我们离去,不要让心沉溺于悲伤。

11.10.17

राजंस्त्वमनुजानीहि धैर्यमातिष्ठ चोत्तमम् ।
दिष्टान्तं पश्य चापि त्वं क्षात्रं धर्मं च केवलम् ॥ ११.१०.१७ ॥

国王啊,你也请允许,并坚守最高的坚定。看清天命所定的结局,只看武士的本分。

11.10.18

इत्येवमुक्त्वा राजानं कृत्वा चाभिप्रदक्षिणम् ।
कृपश्च कृतवर्मा च द्रोमपुत्रश्च भारत ॥ ११.१०.१८ ॥

如此对国王说完,并绕行致敬之后,婆罗多啊,克利帕、克里塔瓦尔曼和德罗纳之子便离去了。

11.10.19

अवेक्षमाणा राजानं धृतराष्ट्रं मनीषिणम् ।
गङ्गामनु महाराज तूर्णमश्वानचोदयन् ॥ ११.१०.१९ ॥

他们回望智者国王持国,大王啊,急速驱马沿恒河而行。

11.10.20

अपक्रम्य तु ते राजन्सर्व एव महारथाः ।
आमन्त्र्यान्योन्यमुद्विग्नास्त्रिधा ते प्रययुस्तदा ॥ ११.१०.२० ॥

国王啊,那些大车战士都从那里离开了;彼此告别之后,心神不宁,于是分三路而去。

11.10.21

जगाम हास्तिनपुरं कृपः शारद्वतस्तदा ।
स्वमेव राष्ट्रं हार्दिक्यो द्रौणिर्व्यासाश्रमं ययौ ॥ ११.१०.२१ ॥

那时,沙罗德瓦特之子克里帕前往象城;希利迪卡之子戈塔瓦尔曼回自己的国土;德罗纳之子马嘶则前往毗耶娑的修行处。

11.10.22

एवं ते प्रययुर्वीरा वीक्षमाणाः परस्परम् ।
भयार्ताः पाण्डुपुत्राणामागस्कृत्वा महात्मनाम् ॥ ११.१०.२२ ॥

那些英雄就这样一边互相望着一边离去,因对伟大的般度之子犯下过错而满怀恐惧。

11.10.23

समेत्य वीरा राजानं तदा त्वनुदिते रषौ ।
विप्रजग्मुर्महात्मानो यथेष्टकमरिन्दमाः ॥ ११.१०.२३ ॥

他们与国王会面之后,在太阳升起之前,那些伟大、能制伏敌人的英雄各自随意离去。

11.10.24

समासाद्याथ वै द्रौणिं पाण्डुपुत्रा महारथाः ।
व्यजयंस्ते रणे राजन्विक्रम्य तदनन्तरम् ॥ ११.१०.२४ ॥

随后,般度之子这些大车战士走近德罗纳之子马嘶,国王啊,他们在战斗中奋勇将其击败。