Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 11.17

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

11.17.1

दुर्योधनं हतं दृष्ट्वा गान्धारी शोककर्शिता ।
सहसा न्यपतद्भूमौ छिन्नेव कदली वने ॥ ११.१७.१ ॥

甘塔丽见难敌已被杀,悲痛憔悴,忽然倒在地上,如同林中被砍倒的芭蕉树。

11.17.2

सा तु लब्ध्वा पुनः संज्ञां विक्रुश्य च विलप्य च ।
दुर्योधनमभिप्रेक्ष्य शयानं रुधिरोक्षितम् ॥ ११.१७.२ ॥

她重新恢复知觉,哭喊悲号,凝望着浑身浴血躺卧的难敌。

11.17.3

परिष्वज्याथ गान्धारी कृपणं पर्यदेवयत् ।
हाहापुत्रेति शोकार्ता विललापाकुलेन्द्रिया ॥ ११.१७.३ ॥

甘塔丽拥抱着他,悲痛地哀叹。她哭喊着:“哎呀,儿啊!”被悲痛折磨,神志错乱,号啕不已。

11.17.4

सुगूढजत्रु विपुलं हारनिष्कविभूषितम् ।
वारिणा नेत्रजेनोरः सिञ्चन्ती शोकतापिता ॥ ११.१७.४ ॥

她用眼中的泪水浇灌他宽阔的胸膛——那胸膛锁骨隐秘,饰以项链与金饰——她被悲痛煎熬着,

11.17.5

समीपस्थं हृषीकेशमिद वचनमब्रवीत् ।
उपस्थितेऽस्मिन्सङ्ग्रामे ज्ञातीनां संक्षये विभो ॥ ११.१७.५ ॥

她对站在身旁的希利史迦说了这些话:“啊,大能者!这场战争已经降临,亲族已被毁灭之时……”

11.17.6

मामयं प्राह वार्ष्णेय प्राञ्चलिर्नृपसत्तमः ।
अस्मिञ्ज्ञातिसमुद्धर्षे जयमम्बा ब्रवीतु मे ॥ ११.१७.६ ॥

“啊,韦利须尼之后!这位最优秀的国王合掌对我说:‘在这场亲族之争中,愿母亲告诉我胜利。’”

11.17.7

इत्युक्ते जानती सर्वमहं स्वव्यसनागमम् ।
अब्रुवं पुरुषव्याघ्र यतो धर्मस्ततो जयः ॥ ११.१७.७ ॥

被如此询问后,我虽知自己灾难将至,仍说道:人中虎啊,法在何处,胜利便在何处。

11.17.8

तथा तु युव्यमानस्त्वं सम्प्रगृह्य सुपुत्रक ।
ध्रुवं शखजिताँल्लोकान्प्राप्स्यस्यमरवत्प्रभो ॥ ११.१७.८ ॥

如此奋战,紧握兵器,好儿子啊,主上,你必定会获得以武器征服的世界,如同不死者一般。

11.17.9

इत्येव… पूर्वं नैवं शोचामि वै प्रभो ।
धृतराष्ट्रं तु शोचामि कृपणं हतबान्धवम् ॥ ११.१७.९ ॥

如此……从前我并不这样悲伤,主上。但我为那可怜的、亲族已被杀尽的持国王而悲伤。

11.17.10

अमर्वणं युधां श्रेष्ठं कृतास्त्रं युद्धदुर्मदम् ।
शयानं वीरशयने पश्य माधव मे सुतम् ॥ ११.१७.१० ॥

看我的儿子吧,他不肯屈服,是战士中的最优秀者,精通武艺,在战斗中骄傲,如今躺在英雄的床上,哦摩陀婆。

11.17.11

बोऽयं मूर्धावसिक्तानाये याति परन्तपः ।
सोऽवं पांसुषु शेतेऽद्य पञ्च कालस्य पर्ययम् ॥ ११.१७.११ ॥

在这一族中头顶受过灌顶、行走之际令敌人燃烧的那位,今天却躺在尘土中——这是时间五重轮转所造成的逆转。

11.17.12

दुवं दुर्योधनो वीरो गतिं न सुलभां गतः ।
तथा ह्यभि… शेते शयने वीरसेविते ॥ ११.१७.१२ ॥

英雄难敌确实没有到达容易获得的归宿。同样……他躺在英雄们所常躺的床上。

11.17.13

यं पुरा पर्युपासीना समयन्ति वरस्त्रियः ।
सं वीरशयने सुप्तं रमयन्त्यशिवाः शिवाः ॥ ११.१७.१३ ॥

昔日良家女子侍坐于旁、与之相近的人,如今躺在勇士的床榻上沉睡,却被不祥的豺狼取乐。

11.17.14

यं पुरा पर्युपासीना रमयन्ति महीक्षितः ।
महीतलस्यं निहतं गृध्रास्तं पर्युपासते ॥ ११.१७.१४ ॥

昔日侍坐于旁、令诸王欢喜的人,如今被杀倒在大地之上,秃鹫围坐在他身边。

11.17.15

यं पुरा व्यजनैरम्यैरुपवीजन्ति योषितः ।
तमद्य पक्षव्यजनै रुपवीजन्ति पक्षिणः ॥ ११.१७.१५ ॥

昔日女子以精美的扇子为其扇风,如今却由飞鸟以翅膀为之扇风。

11.17.16

एष शेते महाबाहुर्बलवान्सत्यविक्रमः ।
सिंहेनेव द्विपः सङ्ख्ये भीमसेनेन पातितः ॥ ११.१७.१६ ॥

此大臂、强力、真正勇武之人,在战场上被毗摩森那打倒,犹如狮子击倒大象一般,躺卧在那里。

11.17.17

पश्य दुर्योधनं कृष्ण शयानं रुधिरोक्षितम् ।
निहतं भीमसेनेन गदां सम्मृज्य भारत ॥ ११.१७.१७ ॥

克里希纳啊,请看杜尤陀那躺在血泊之中,已被毗摩森那所杀。婆罗多啊,他擦拭了自己的权杖之后将其杀死。

11.17.18

अक्षौहिणीर्महाबाहुर्दश चैकां च केशव ।
आनयद्यः पुरा सङ्ख्ये सोऽनयान्निधनं गतः ॥ ११.१७.१८ ॥

克舍婆啊,那位大臂者曾在战场上率领十一个阿克绍希尼军队,却因不义而死去。

11.17.19

एष दुर्योधनः शेते महेष्वासो महाबलः ।
शार्दूल इव सिंहेन भीमसेनेन पातितः ॥ ११.१७.१९ ॥

此即大弓手、大力之杜尤达那,被狮子般的毗摩森那打倒,宛如被狮子击倒的老虎,躺在地上。

11.17.20

विदुरं ह्यवमत्यैष पितरं चैव मन्दभाक् ।
बालो वृद्धावमानेन मन्दो मृत्युवशं गतः ॥ ११.१७.२० ॥

此人轻慢毗杜罗,甚至轻慢其父,这个不幸、愚昧、年少无知的人,因侮辱长者而落入死神之手。

11.17.21

निःसपत्ना मही यस्य त्रयोदशसमाः स्थिता ।
स शेते निहतो भूमौ पुत्रो मे पृथिवीपतिः ॥ ११.१७.२१ ॥

十三年间大地无敌的那人,我的儿子,地上之主,被杀倒卧于地。

11.17.22

अपश्यं कृष्ण पृथिवीं धार्तराष्ट्रानुशासिताम् ।
पूर्णां हस्तिगवाश्वैश्च वार्ष्णेय न तु तच्चिरम् ॥ ११.१७.२२ ॥

克里希那啊,我曾见大地为持国之子所统治,充满象、牛、马;瓦尔什尼之后啊,那并不持久。

11.17.23

तामेवाद्य महाबाहो पश्याम्यन्यानुशासिताम् ।
हीनां हस्तिगवाश्वेन किन्नु जीवामि माधव ॥ ११.१७.२३ ॥

大臂者啊,今日我见那大地为他人所治,失去了象、牛、马;摩陀婆啊,那我为何还活着?

11.17.24

इदं कष्टतरं पश्य पुत्रस्यापि वधान्मम ।
या इमाः पर्युपासन्ते हताञ्शूरान्रणे स्त्रियः ॥ ११.१७.२४ ॥

看哪,这比我儿之死更痛苦:这些女子围坐在战场上阵亡的英雄身旁。

11.17.25

प्रकीर्णकेशां सुश्रोणीं दुर्योधनभूजाङ्कगाम् ।
रुक्मवेदिनिभां पश्य कृष्ण लक्ष्मणमातरम् ॥ ११.१७.२५ ॥

克里希那啊,看那罗什曼那的母亲,披头散发,腰肢美好,倚在难敌的臂弯里,如金祭坛般闪耀。

11.17.26

नूनमेषा पुरा बाला जीवमाने महाभुजे ।
भुजावाश्रित्य रमते सुभुजस्य मनस्विनी ॥ ११.१७.२६ ॥

她从前,在大臂者尚在世时,作为年轻而高贵的女子,依靠善臂者须菩陀的臂膀而欢乐。

11.17.27

कथं तु शतधा नेदं हृदयं मम दीर्यते ।
पश्यन्त्या निहतं पुत्रं पौत्रेण सहितं रणे ॥ ११.१७.२७ ॥

我眼见儿子与孙子一同战死沙场,我的心怎么没有碎成百片?

11.17.28

पुत्रं रुधिरसंसिक्तमुपजिघ्रत्यनिन्दिता ।
दुर्योधनं तु वामोरूः पाणिना परिमार्जती ॥ ११.१७.२८ ॥

那无过之人嗅着浸满鲜血的儿子;那美股之人以手拭抹难敌。

11.17.29

किन्नु शोचति भर्तारं हतपुत्रं मनस्विनी ।
तथा ह्यवस्थिता भाति पुत्रं चाप्यभिवीक्ष्य सा ॥ ११.१७.२९ ॥

那位高贵的女子,儿子已死,为何还为丈夫悲叹?她就这样站着,看着儿子,她也

11.17.30

स्वशिरः पञ्चशाखाभ्यामभिहत्यायतेक्षणा ।
पतत्युरसि वीरस्य कुरुराजस्य माधव ॥ ११.१७.३० ॥

用五指击打自己的头,长眼的她倒在英雄、库鲁王的胸前,哦,摩陀婆。

11.17.31

पुण्डरीकनिभा भाति पुण्डरीकान्तरप्रभा ।
मुखं प्रमृज्य पुत्रस्य भर्तुश्चैव तपस्विनी ॥ ११.१७.३१ ॥

她如莲花般光彩照人,带着莲心的光辉,这位苦修的女子擦拭着儿子和丈夫的面容。

11.17.32

यदि सत्यागमाः सन्ति यदि वै श्रुतयस्तथा ।
ध्रुवं लोकानवाप्तोऽयं नृपो बाहुबलार्जितान् ॥ ११.१७.३२ ॥

若真有真实的传承与吠陀启示,那么这位国王必定已得到了凭借双臂之力所获得的诸世界。