Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 11.18

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

11.18.1

पश्य माधव पुत्रान्मे शतसङ्ख्याञ्जितक्लमान् ।
गदया भीमसेनेन भूयिष्ठं निहतान्रणे ॥ ११.१८.१ ॥

看哪,摩陀婆(黑天),我那一百个曾经克服疲惫的儿子,大多被毗摩森那的铁棒打死在战场上。

11.18.2

इदं दुःखतरं मेऽद्य यदिमा मुक्तमूर्धजाः ।
हतपुत्रा रणे बालाः परिधावन्ति मे स्नुषाः ॥ ११.१८.२ ॥

今天于我更为悲痛的是:这些散开头发的年轻儿媳,儿子们已战死沙场,却在四处奔跑。

11.18.3

प्रासादतलचारिण्यश्चरमैर्भूषणान्वितैः ।
कायेनाद्य स्पृशन्तीमां रुधिरार्द्रां वसुन्धराम् ॥ ११.१८.३ ॥

这些曾在宫殿平台上行走、佩戴最后饰物的女子,今天以自己的身体触碰着这被鲜血浸湿的大地。

11.18.4

कृच्छ्रादुत्सारयन्ति स्म गृध्रगोमायुवायसान् ।
दुःखेनार्ता विघूर्णन्त्यो मत्ता इव चरन्त्युत ॥ ११.१८.४ ॥

她们艰难地驱赶秃鹫、豺狼和乌鸦;被悲痛折磨的她们踉踉跄跄地徘徊,仿佛醉酒一般。

11.18.5

एषाऽन्या त्वनवद्याङ्गी करसम्मितमध्यमा ।
घोरमायोधनं दृष्ट्वा निपतत्यतिदुःखिता ॥ ११.१८.५ ॥

这另一位,身形完美,腰细到一手可握,看到可怕的战场后,极度悲伤地倒下了。

11.18.6

दृष्ट्वा मे पार्थिवसुतामेतां लक्ष्मणमातरम् ।
राजपुत्रीं महाबाहो मनो न ह्युपशाम्यति ॥ ११.१८.६ ॥

啊,大臂者,看到这位王女,即罗什曼那之母,我的心无法平静。

11.18.7

भ्रातॄंश्चान्याः पितॄंश्चान्याः पुत्रांश्च निहतान्भुवि ।
दृष्ट्वा परिपतन्त्येषाः प्रगृह्य सुमहाभुजान् ॥ ११.१८.७ ॥

其他女子看见兄弟、父亲和儿子倒毙于地,便抓住那些大臂的人,扑倒在他们身上。

11.18.8

मध्यमानां तु नारीणां वृद्धानां चापराजित ।
आक्रन्दं हतबन्धूना दारुणे वैशसे शृणु ॥ ११.१८.८ ॥

无敌者啊,请听那中年和老年妇女在这场可怕屠杀中为被杀亲属发出的哀嚎。

11.18.9

रथनीडानि देहांश्च हतानां गजवाजिनाम् ।
आश्रित्य श्रममोहार्ताः स्थिताः पश्य महाभुज ॥ ११.१८.९ ॥

大臂者啊,请看她们倚靠着战车的座位,以及被杀的象与马的尸身站立着,被疲惫与昏乱所折磨。

11.18.10

अन्या चापहृतं कायाच्चारुकुण्डलमुन्नसम् ।
स्वस्य बन्धोः शिरः कृष्ण गृहीत्वा पश्य तिष्ठति ॥ ११.१८.१० ॥

克里希那啊,请看另一个女子站着,手里捧着她亲属被从身上割下的头颅,那头颅戴着美丽的耳环,鼻梁高挺。

11.18.11

पूर्वजातिकृतं पापं मन्ये नाल्पमिवानघ ।
एताभिर्निरवद्याभिर्मया चैवाल्पपुण्यया।
यदिदं धर्मराजेन घातितं नो जनार्दन ॥ ११.१८.११ ॥

无罪者啊,我想前世所造的罪业并不小。因为这些无过的女子,也因为我这功德微薄之人,哦阇那陀那,我们的人才被法王杀害。

11.18.12

न हि नाशोऽस्ति वार्ष्णेय कर्मणोः शुभपापयोः ॥ ११.१८.१२ ॥

瓦尔什尼的后裔啊,善业与恶业,确实都不会消失。

11.18.13

प्रत्यग्रवयसः पश्य दर्शनीयकुचाननाः ।
कुलेषु जाता हीमत्यः कृष्णपक्ष्माक्षिमूर्धजाः ॥ ११.१८.१३ ॥

看那些正值青春年华、胸脯与容颜俱美、出身高贵、知羞的女子,她们的睫毛、眼睛与头发都乌黑。

11.18.14

हंसगद्गदभाषिण्यो दुःखशोकप्रमोहिताः ।
सारस्य इव वाशन्त्यः पतिताः पश्य माधव ॥ ११.१८.१४ ॥

看那些说话哽咽如天鹅、被悲痛与忧伤迷乱、像仙鹤般哀号而倒卧在地的女子,哦,摩陀婆。

11.18.15

फुल्लुपद्यप्रकाशानि पुण्डरीकाक्ष योषिताम् ।
अनवद्यानि वक्त्राणि तापयत्येष रश्मिवान् ॥ ११.१८.१५ ॥

哦,莲花眼者,这轮光芒四射的太阳正灼烤着这些女子无瑕的面容,她们如盛开的莲花般光彩照人。

11.18.16

सेर्ष्याणां मम पुत्राणां वासुदेवावरोधनम् ।
मत्तमातङ्गदर्पाणां पश्यन्त्यद्य पृथग्जनाः ॥ ११.१८.१६ ॥

哦,婆苏提婆,我那些好嫉妒、如发情大象般骄傲的儿子们的内宫,今日竟被普通百姓看见。

11.18.17

शतचन्द्राणि चर्माणि ध्वजांश्चादित्यवर्चसः ।
रौक्माणि चैव वर्माणि निष्कानपि च काञ्चनान् ॥ ११.१८.१७ ॥

看那些刻有百个月亮图案的盾牌、如太阳般闪耀的旌旗、黄金铠甲,以及金质的尼什卡饰物。

11.18.18

शिरस्त्राणानि चैतानि पुत्राणां मे महीतले ।
पश्य दीप्तानि गोविन्द पावकान्सुहुतानिव ॥ ११.१८.१८ ॥

哦,哥文达,我儿子们的这些头盔散落在地上;看它们如同供奉得当的圣火般熊熊燃烧。

11.18.19

एष दुःशासनः शेते शूरेणामित्रघातिना ।
पीतशोणि… सर्वाङ्गो युधि भीमेन पातितः ॥ ११.१८.१९ ॥

杀敌的英雄怖军(Bhīma)在战场上击倒了难敌之弟困愿(Duḥśāsana),他躺在这里,全身沾满鲜血……

11.18.20

गदया भीमसेनेन पश्य माधव मे सुतम् ।
द्यूतक्लेशाननुस्मृत्य द्रौपदीचोदितेन च ॥ ११.१८.२० ॥

摩陀婆啊,请看我的儿子,他被怖军以铁棒击倒。想起赌博的苦难以及德罗波蒂的激励吧。

11.18.21

उक्ता ह्यनेन पाञ्चाली सभायां द्यूतनिर्जिता ।
प्रियं चिकीर्षता भ्रातुः कर्णस्य च जनार्दन ॥ ११.१८.२१ ॥

janārdana啊,他为了讨好兄长和迦尔纳,在朝堂上对在赌局中被赢得的般遮罗女(德罗波蒂)这样说过。

11.18.22

सहैव सहदेवेन नकुलेनार्जुनेन च ।
दासीभूताऽसि पाञ्चालि क्षिप्रं प्रविश नो गृहान् ॥ ११.१८.२२ ॥

你与萨诃提婆、那昆拉和阿周那一同成了奴婢,般遮罗女啊;快进入我们的家中吧。

11.18.23

ततोऽहमब्रुवं कृष्ण तदा दुर्योधनं नृपम् ।
मृत्युपाशपरिक्षिप्तां द्रौपदीं पुत्र वर्जय ॥ ११.१८.२३ ॥

克里希那啊,那时我对国王难敌说:儿啊,放了被死亡绳索缠绕的德罗波蒂吧。

11.18.24

निबोधैनं सुदुर्बुद्धिं मातुलं कलहप्रियम् ।
क्षिप्रमेनं परित्यज्य पुत्र संशाम्य पाण्डवैः ॥ ११.१८.२४ ॥

你要看清这个极其愚蠢、喜好争斗的舅舅;儿啊,快快舍弃他,与般度诸子讲和吧。

11.18.25

न बुद्ध्यसे त्वं दुर्बुद्धे भीमसेनममर्षणम् ।
वाङ्गराचैस्तुदंस्तीक्ष्णैरुल्काभिरिव कुञ्जरम् ॥ ११.१८.२५ ॥

愚昧之人啊,你不了解那不能忍受侮辱的毗摩犀那;你用尖锐如火的言辞刺激他,如同用火把刺戳大象。

11.18.26

तानेवं रहसि क्रुद्धो वाक्शल्यानवधारयन् ।
उत्ससर्ज विषं तेषु सर्पो गोवृषभेष्विव ॥ ११.१८.२६ ॥

他在暗中愤怒,忍受着那如荆棘般的言语,便像毒蛇向牛群中的公牛喷洒毒液一样,向他们倾泻了毒液。

11.18.27

एष दुःशासनः शेते विक्षिप्य विपुलौ भुजौ ।
निहतो भीमसेनेन सिहेनेव महागजः ॥ ११.१८.२७ ॥

杜沙萨那躺在这里,双臂张开,被毗摩犀那杀死,如同大象被狮子所杀。

11.18.28

अत्यर्थमकरोद्रौद्रं भीमसेनोऽत्यमर्षणः ।
दुःशासनस्य यत्क्रुद्धोऽपिबच्छोणितमाहवे ॥ ११.१८.२८ ॥

极不能忍受侮辱的毗摩犀那做出了极其可怖的事:愤怒之中,他在战场上饮下了杜沙萨那的血。