摩诃婆罗多 · 章 11.24
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
11.24.1
सोमदत्तसुतं पश्य युयुधानेन पातितम् ।
वितुद्यमानं विहगैर्बहुभिर्माधवान्तिके ॥ ११.२४.१ ॥
看那被游尤陀那在摩陀婆附近击倒、被众多飞鸟啄食的苏摩达塔之子。
11.24.2
पुत्रशोकाभिसन्तप्तः शोमदत्तो जनार्दन ।
युयुधानं महेष्वासं गर्हयन्निव दृश्यते ॥ ११.२४.२ ॥
哦,阇那陀那!苏摩达塔为爱子之丧所煎熬,看来正在指责大弓手游尤陀那。
11.24.3
असौ हि भूरिश्वसो माता शोकपरिप्लुता ।
आश्वासयति भर्तारं सोमदत्तमनिन्दिता ॥ ११.२४.३ ॥
那位深深叹息、被悲痛淹没的母亲,那位无可指责的女子,正在安慰她的丈夫苏摩达塔。
11.24.4
दिष्ट्या नैनं महाराज दारुणं भरतक्षयम् ।
कुरुसङ्क्रन्दनं घोरं युगान्तमनुपश्यसि ॥ ११.२४.४ ॥
大王啊,幸而你没有看见婆罗多族这场可怕的毁灭,俱卢族可怖的哭号,这如同世界末日般的景象。
11.24.5
दिष्ट्या यूपध्वजं पुत्रं वीरं भूरिसहस्रदम् ।
अनेकक्रतुयज्वानं निहतं नानुपश्यसि ॥ ११.२४.५ ॥
幸而你没有看见你的儿子——以祭柱为旗帜的英雄,施予千万的人,行过许多祭祀的人——已被杀死。
11.24.6
दिष्ट्या स्नुषाणामाक्रन्दे घोरं विलपितं बहु ।
न शृणोषि महाराज सारसीनामिवार्णवे ॥ ११.२४.६ ॥
大王啊,幸而你没有听见儿媳们哭号中那可怕而巨大的悲叹,那如同海上沙罗西鹤的啼鸣。
11.24.7
एकवस्त्रास्तु पञ्चैताः प्रकीर्णासितमूर्धजाः ।
स्नुषास्ते परिधावन्ति हतापत्या हतेश्वराः ॥ ११.२४.७ ॥
身着一件衣裳,黑发散乱,你的这五位儿媳奔走不停,失去了子嗣与夫君。
11.24.8
श्वापदैर्भक्ष्यमाणं त्वमहो दिष्ट्या न पश्यसि ।
छिन्नबाहुं नरव्याघ्रमर्जुनेन निपातितम् ॥ ११.२४.८ ॥
唉,幸而你看不见:那人中猛虎,断了双臂,被阿周那击倒,正被野兽吞食。
11.24.9
शलं विनिहतं सङ्ख्ये भूरिश्रवसमेव च ।
स्नुषाश्च विविधाः सर्वा दिष्ट्या नाद्येह पश्यसि ॥ ११.२४.९ ॥
沙罗在战场上被杀,婆鲁利什罗婆亦然;你那些儿媳——幸而今日你在此看不见她们。
11.24.10
दिष्ट्या तत्काञ्चनं छत्रं यूपकेतोर्महात्मनः ।
विनीकीर्णं रथोपस्थे सौमदत्तेर्न पश्यसि ॥ ११.२४.१० ॥
幸而你看不见:那伟大的犹波柯图的金伞,散落在索摩达多之子的战车底板上。
11.24.11
अमूस्तु भूरिश्रवसो भार्याः सात्यकिना हतम् ।
परिवार्यानुशोचन्ति भर्तारमसितेक्षणाः ॥ ११.२४.११ ॥
而这些是婆鲁利什罗婆的妻子,他被萨提亚基所杀;黑眼睛的她们围着丈夫哀悼。
11.24.12
एता विलप्य करुणं भर्तृशोकेन कर्शिताः ।
पतन्त्यभिमुखा भूमौ कृपणं बत केशव ॥ ११.२४.१२ ॥
她们因丈夫之哀而消瘦,悲恸哀号后,面朝下扑倒在地——哎呀,哦,凯沙瓦!
11.24.13
बीभत्सुरतिबीभत्सं कर्मेदमकरोत्कथम् ।
प्रमत्तस्य यदच्छैत्सीद्बाहुं शूरस्य यज्वनः ॥ ११.२४.१३ ॥
阿周那怎能做出如此可憎的事,斩断了那位疏忽的、勇猛而行祭祀者的手臂?
11.24.14
ततः पापतरं कर्म कृतवानपि सात्यकिः ।
यस्मात्प्रायोपविष्टस्य प्राहार्षीत्संशितात्मनः ॥ ११.२४.१४ ॥
随后,萨提亚奇也做了更大的罪孽之事,他夺去了那位坚定之人的性命,那人正坐在绝食求死的誓愿之中。
11.24.15
एको द्वाभ्यां हतः शेते क्षत्रधर्मेण धार्मिकः ।
किन्नु वक्ष्यति वै सत्सु गोष्ठीषु च सभासु च ॥ ११.२४.१५ ॥
一位正直之人被两人所杀,依刹帝利之法躺卧在那里。如今在善人的集会与议会上,他将会说些什么呢?
11.24.16
अपुण्यमयशस्यं च कर्मेदं सात्यकिः स्वयम् ।
इति यूपध्वजस्यैताः स्त्रियः क्रोशन्ति माधव ॥ ११.२४.१६ ॥
这桩无福且有辱名声的罪行是萨提亚奇亲自所为,尤帕德瓦贾的妇女们如此哭喊着,哦,摩陀婆!
11.24.17
भार्या यूपध्वजस्यैषा करसम्मितमध्यमा ।
कृत्वोत्सङ्गे भुजं भर्तुः कृपणं परिदेवति ॥ ११.२४.१७ ॥
尤帕德瓦贾的这位妻子,腰肢纤细如一掌之握,将丈夫的手臂置于膝上,悲切地哀哭。
11.24.18
अयं स हन्ता शूराणां मित्राणामभयप्रदः ।
प्रदाता गोसहस्राणां क्षत्रियान्तकरः करः ॥ ११.२४.१८ ॥
这便是那只手:它杀死了英雄,赐予朋友无畏,布施了成千上万头牛,毁灭了刹帝利。
11.24.19
अयं स रशनोत्कर्षी पीनस्तनविमर्दनः ।
नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः ॥ ११.२४.१९ ॥
这就是那只拉扯腰带、揉捏丰满乳房、触摸肚脐、大腿与臀部、并解开衣结的手。
11.24.20
वासुदेवस्य सान्निध्ये पार्थेनाक्लिष्टकर्मणा ।
युध्यतः समरेऽन्येन प्रमत्तस्य निपातितः ॥ ११.२४.२० ॥
在瓦苏提婆面前,被毫不费力行事的普利塔之子帕尔沙,于战场上在他疏忽作战时被另一人击倒。
11.24.21
किन्नु वक्ष्यसि संसत्सु कथासु च जनार्दन ।
अर्जुनस्य महत्कर्म स्वयं वा स किरीटभृत् ॥ ११.२४.२१ ॥
哦,阇那陀那,你将在集会与故事中如何讲述阿周那的伟大功绩?还是戴冠者自己来讲?
11.24.22
इत्येवं गर्हयित्वैषा तूष्णीमास्ते वराङ्गना ।
तामेतामनुशोचन्ति सपत्न्यः स्वामिव स्नुषाम् ॥ ११.२४.२२ ॥
这位高贵的女子如此责备之后,便默然而坐;她的诸位妻妾为她悲叹,仿佛她是自己的儿媳。
11.24.23
गान्धारराजः शकुनिर्बलवान्सत्यविक्रमः ।
निहतः सहदेवेन भागिनेमेन मातुलः ॥ ११.२४.२३ ॥
犍陀罗王沙恭尼,强大而勇武真实,被偕天所杀;这位舅舅被姊妹之子所杀。
11.24.24
यः पुरा हेमदण्डाभ्यां व्यजनाभ्यां स्म वीज्यते ।
स एष पक्षिभिः पक्षैः शयान उपवीज्यते ॥ ११.२४.२४ ॥
昔日以金柄扇子扇风的人,如今躺在那里,被鸟的翅膀扇风。
11.24.25
यः स्वरूपाणि कुरुते शतशोऽथ सहस्रशः ।
तस्य मायाविनो माया दग्धाः पाण्डवतेजसा ॥ ११.२४.२५ ॥
那位能化现百千形相的幻术者之幻术,被般度之子的光辉焚毁了。
11.24.26
मायया निकृतिप्रज्ञो जितवान्यो युधिष्ठिरम् ।
सभायां विपुलं राज्यं स जहौ जीवितं कथम् ॥ ११.२४.२६ ॥
那位以诡计赢得集会中的坚战、夺取其广大王国的诡智之人,究竟是如何舍弃生命的?
11.24.27
शकुन्ताः शकुनिं कृष्ण समन्तात्पर्युपासते ।
कितवं मम पुत्राणां विनाशायोपशिक्षितम् ॥ ११.२४.२७ ॥
黑天啊,群鸟四面环绕着沙恭尼,那个为毁灭我的儿子们而被训练出来的赌徒。
11.24.28
एतेनैतन्महद्वैरं प्रसक्तं पाण्डवैः सह ।
वधाय मम पुत्राणामात्मनः सगणस्य च ॥ ११.२४.२८ ॥
正因为此人,这场与般度诸子的大仇怨才延续下来,以致我的儿子们、他自己及其随从都走向毁灭。
11.24.29
यथैव मम पुत्राणां लोकाः शस्त्रजिताः प्रभो ।
एवमस्यापि दुर्बुद्धेर्लोकाः शस्त्रेण वै जिताः ॥ ११.२४.२९ ॥
主啊,正如我儿子们的世界是以武器夺得的,那个恶念之人的世界也同样是以武器夺得的。
11.24.30
कथं च नायं तत्रापि पुत्रान्मे भ्रातृभिः सह ।
विरोधयेदृजुप्रज्ञाननृजुर्मधुसूदन ॥ ११.२४.३० ॥
摩图苏陀那啊,那个心术不正的人,难道在那里也没有挑动我的儿子们和兄弟们去与正直之人为敌吗?