摩诃婆罗多 · 章 11.27
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
11.27.1
ते समासाद्य गङ्गां तु शिवां पुण्यजलान्विताम् ।
ह्लादिनीं च प्रसन्नां च महारूपां महावनाम्
अतः परंशान्तिपर्व भविष्यति तस्यायमाद्यः श्लोकः ।
कृत्वोदकं ते सुहृदां सर्वेषां पाण्डुनन्दनाः।
विदुरे धृतराष्ट्रश्च सर्वाश्च भरतस्त्रियः ॥ ११.२७.१ ॥
他们来到恒河,这河吉祥,充满纯净之水,令人喜悦、清澈,形貌壮美,周围有广阔的森林。此后将是《和平篇》;其第一颂是:般度之子为所有朋友、为毗杜罗与持国,以及婆罗多族的所有女子奉献了水供。
11.27.2
भूषणान्युत्तरीयाणि वेष्टनान्यवमुच्य च ।
कवचानि विचित्राणि गङ्गामवजगाहिरे ॥ ११.२७.२ ॥
他们脱下饰物、上衣和头巾,又解下五彩的铠甲,然后投身恒河之中。
11.27.3
ततः पितॄणां भ्रातॄणां पौत्राणां स्वजनस्य च ।
पुत्राणामार्यकाणां च पतीनां च कुरुस्त्रियः ॥ ११.२७.३ ॥
随后,俱卢族的女子为父亲、兄弟、孙子、亲属、儿子、祖父和丈夫(奉献水供)。
11.27.4
उदकं चक्रिरे सर्वा रुदन्त्यो भृशदुःखिताः ।
सुहृदां चापि धर्मज्ञाः प्रचक्रुः सलिलक्रियाम् ॥ ११.२७.४ ॥
所有女子哭泣着,深感悲痛,奉献了水供;精通法的人也为朋友们举行了水礼。
11.27.5
उदके क्रियमाणे तु वीराणां विरपत्निभिः ।
सूपतीर्थाऽभवद्गङ्गा भूयो विप्रससार च ॥ ११.२७.५ ॥
英雄们的妻子奉献水供之时,恒河化作了有许多沐浴处的圣渡口,之后又继续奔流。
11.27.6
तन्महोदधिसङ्काशं निरानन्दमनुत्सवम् ।
वीरपत्नीभिराकीर्णं गङ्गातीरमशोभत ॥ ११.२७.६ ॥
那恒河之岸,如同大海,没有欢乐,没有庆典,布满英雄之妻,显得一片凄凉。
11.27.7
ततः कुन्ती महाराज रुदन्ती शोककर्शिता ।
व्रीडया मन्दया वाचा पुत्रान्वचनमब्रवीत् ॥ ११.२७.७ ॥
于是,大王啊,因悲痛而消瘦、哭泣的贡蒂,以羞怯微弱的声音对诸子说了这番话。
11.27.8
यः स वीरो महेष्वासो रथयूथपयूथपः ।
अर्जुनेन हतः सङ्ख्ये वीरलक्षणलक्षितः ॥ ११.२७.८ ॥
那位英雄,大弓箭手,车阵统帅之统帅,具有英雄之相,在战场上被阿周那杀死。
11.27.9
यं सूतपुत्रं मन्यध्वं राधेयमिति पाण्डवाः ।
यो व्यराजच्चमूमध्ये दिवाकर इव प्रभुः ॥ ११.२७.९ ॥
你们称为御者之子、罗陀之子的那位,他在军中光辉如太阳,是强大的主君。
11.27.10
प्रत्ययुध्यत वः सर्वान्पुरा यः सपदानुगान् ।
दुर्योधनबलं सर्वं यः प्रकर्षन्व्यरोचत ॥ ११.२७.१० ॥
他从前与你们所有人交战,与步兵和随从一起,并率领杜尔yodhana的全军而光辉闪耀。
11.27.11
यस्य नास्ति समो वीर्ये पृथिव्यामपि कश्चन ।
यो वृणीत यशः शूरः प्राणैरपि सदा भुवि ॥ ११.२७.११ ॥
大地之上,无人在勇力上能与他相比;那英雄总是在世间追求名声,甚至不惜生命。
11.27.12
कर्णस्य सत्यसन्धस्य सङ्ग्रामेष्वपलायिनः ।
कुरुध्वमुदकं तस्य भ्रातुरक्लिष्टकर्मणः ॥ ११.२७.१२ ॥
为那守誓言、在战场上从不退缩的迦尔纳,为那位行事不知疲倦的兄长,你们应献上水。
11.27.13
स हि वः पूर्वजो भ्राता भास्करान्मय्यजायत ।
कुण्डली कवची शूरो दिवाकरसमप्रभः ॥ ११.२७.१३ ॥
他是你们的长兄,由太阳在我腹中所生;佩戴耳环、身披铠甲,光辉如太阳的英雄。
11.27.14
श्रुत्वा तु पाण्डवाः सर्वे मातुर्वचनमप्रियम् ।
कर्णमेवानुशोचन्तो भूयश्चात्यातुरा भवन् ॥ ११.२७.१४ ॥
般度之子们听到母亲这些不悦耳的话,都为迦尔纳悲痛,更加极度痛苦。
11.27.15
ततः स पुरुषव्याघ्रः रुन्तीपुत्रो युधिष्ठिरः ।
उवाच मातरं वीरो निःश्वसन्निव पन्नगः ॥ ११.२७.१५ ॥
于是,人中虎、昆提之子、英雄坚战,像毒蛇一样叹息,对母亲说道:
11.27.16
यः शरोर्मिर्ध्वजावर्तो महाभुजमहाग्रहः ।
तलशब्दप्रणुदितो महारथमहाग्रहः ॥ ११.२७.१६ ॥
箭矢为其波浪,旗幡为其漩涡,巨臂为其大鳄,被拍掌之声所激荡,大车战士为其大星宿。
11.27.17
यस्येषुपातमासाद्य कोऽन्यस्तिष्ठेद्धनञ्जयात् ।
कथं पुत्रो भवत्याः स देवगर्भः पुराऽभवत्।
कुण्डली कवची शूरो दिवाकरसमप्रभः ॥ ११.२७.१७ ॥
一旦进入他箭矢的射程,还有谁能抵挡财主(阿周那)?他是你们的儿子,昔日生于神胎,佩戴耳环、身披铠甲,光辉如太阳的英雄。
11.27.18
यस्य बाहुप्रतापेन तापिताः सर्वतो वयम् ।
तमग्निमिव वस्त्रेण कथं छादितवत्यसि ॥ ११.२७.१८ ॥
那以臂力使我们四面受煎熬的人,你怎能像用布遮火一样将他藏起?
11.27.19
यस्य बाहुप्रभावेन वैरमस्मास्वरोचयत् ।
सुयोधनस्तु तं ज्येष्ठं कथं नोदितवत्यसि ॥ ११.२७.१९ ॥
那以臂力使苏约达纳喜欢与我们为敌的长兄,你怎么没有去推动他?
11.27.20
तथा कर्णं महेष्वासं धार्तराष्ट्रैरुपासितम् ।
उपासितं यथाऽस्माभिर्बलं गाण्डीवधन्वनः ॥ ११.२७.२० ॥
同样,被持国诸子所侍奉的大弓手迦尔纳,正如我们侍奉持甘狄拔弓者的军队一样。
11.27.21
भूमिपानां च सर्वेषां बलं बलवतां वरः ।
नान्यः कुन्तीसुतात्कर्णादगृह्णाद्रथिनो रथी ॥ ११.२७.२१ ॥
迦尔纳,诸王之力,强者中之最;除了昆提之子迦尔纳,无人被视为超过他的战车勇士。
11.27.22
स नः प्रथमजो भ्राता सर्वशस्त्रभृतां वरः ।
असूत तं भवत्यग्रे कथमद्भुतविक्रमम् ॥ ११.२७.२२ ॥
他是我们的长兄,诸持兵器者中的最优者;你如何先生下了这位有奇异勇力的人?
11.27.23
अहो भवत्या मन्त्रस्य गूहनेन वयं हताः ।
निधनेन हि कर्णस्य पीडितास्तु सबान्धवाः ॥ ११.२७.२३ ॥
唉!因你隐瞒秘密,我们被毁灭;因迦尔纳之死,我们与亲族一同受苦。
11.27.24
अभिमन्योर्विनाशेन द्रौपदेयवधेन च ।
पाञ्चालानां विनाशेन कुरूणां घातनादपि ॥ ११.२७.२४ ॥
因阿毗曼尤之死,因德劳帕蒂之子被杀,因般遮罗人的毁灭,也因俱卢人的被杀。
11.27.25
ततः शतगुणं दुःखमिदमापतितं महत् ।
कर्णमेवानुशोचापि दह्याम्यग्नाविवाहितः ॥ ११.२७.२५ ॥
于是这巨大的悲痛百倍地降临到我身上。我只为迦尔纳而哀悼,如同被置于火中般焚烧。
11.27.26
नेह स्म किञ्चिदप्राप्य भवेदपि दिवि स्थितम् ।
न चेदं वैशसं घोरकं कौरवान्तकरं भवेत् ॥ ११.२७.२६ ॥
若在此未得任何所得,即便身在天上,这也不会发生;这场导致俱卢覆灭的可怕灾难也不会发生。
11.27.27
एवं विलप्य बहुलं धर्मराजो युधिष्ठिरः ।
व्यरुदच्छनकैः राजंश्चकारास्योदकं प्रभुः ॥ ११.२७.२७ ॥
大王,如此悲叹良久之后,法王坚战轻声哭泣;那位主人随即为他行了奉水之礼。
11.27.28
ततो विनेदुः सहसा स्त्रियस्ताः खलु सर्वशः ।
अभितो याः स्थितास्तत्र तस्मिन्नुदककर्मणि ॥ ११.२७.२८ ॥
于是在那奉水的仪式中,站立在四周的那些妇女突然从各处哀号起来。
11.27.29
तत आनाययामास कर्णस्य सपरिच्छदाः ।
स्त्रियः कुरुपतिर्धीमान्भ्रातुः प्रेम्णा युधिष्ठिरः ॥ ११.२७.२९ ॥
于是智慧的俱卢之主坚战出于对兄弟的爱,把迦尔纳的妇女连同其随从都召到了那里。
11.27.30
स ताभिः सह धर्मात्मा प्रेतकृत्यमनन्तरम् ।
सर्वं चकार कर्णस्य विधिवद्भूरिदक्षिणम् ॥ ११.२७.३० ॥
随后,正法之心的坚战与那些妇女一起,依照规定为迦尔纳举行了全部葬礼,并施予丰厚的布施。
11.27.31
स राजा धृतराष्ट्रश्च कृत्वा जलमतन्द्रितः ।
समुत्ततार गङ्गाया भार्यया सह भारत ॥ ११.२७.३१ ॥
国王持国也不倦怠地行了奉水之礼,婆罗多啊,与他的妻子一同从恒河上岸。
11.27.32
पापेनासौ मया श्रेष्ठो भ्राता ज्ञातिर्निपातितः ।
अतो मनसि यद्गुह्यं स्त्रीणां तन्न भविष्यति ॥ ११.२७.३२ ॥
因我的罪过,那位优秀的兄弟、亲族被杀了。因此,女人心中的秘密将不再是秘密。
11.27.33
इत्युक्त्वा स तु गङ्गाया उत्तताराकुलेन्द्रियः ।
भ्रातृभिः सहितः सर्वैर्गङ्गातीरमुपेयिवान् ॥ ११.२७.३३ ॥
说完这些话,他心神激荡地从恒河上岸,与所有兄弟一同来到恒河岸边。