Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 11.3

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

11.3.1

सुमाषितं महाप्राज्ञ शोकोऽयं विगतो मम ।
भूय एव तु वाक्यानि श्रोतुमिच्छामि तत्त्वतः ॥ ११.३.१ ॥

大智者啊,因你的善言,我的这份悲伤已经消散。现在我真心想再听你的教言。

11.3.2

अनिष्टानां च संसर्गादिष्टानां च निवर्तनात् ।
कथं हि मानसं दुःखं विप्रयुज्यन्ति पण्डिताः ॥ ११.३.२ ॥

众智者因接触不喜之物、远离所喜之物,究竟如何从心中的苦恼中解脱?

11.3.3

वतोयतो मनो दुःखात्सुखाद्र विप्रमुच्यते ।
तवत्तसः शगं लब्ध्वा सुगतिं विन्दते बुधः ॥ ११.३.३ ॥

心从苦与乐中完全解脱的地方,智者便从那里获得寂静,达到善趣。

11.3.4

अशाधतमिदं सर्वं चिन्त्यमानं नरर्षभ ।
कदलीसन्निभो लोकः सारो ह्यस्य न विद्यते ॥ ११.३.४ ॥

人中之雄啊,细想之下,这一切都是无常的。世界如同芭蕉树,其中确实找不到真实的精华。

11.3.5

यदा प्राज्ञाश्च मूढाश्च धनवन्तोऽथ निर्धनाः ।
सर्वे पितृवनं प्राप्य स्वपन्ति विगतज्वराः ॥ ११.३.५ ॥

当智者与愚者、富人与穷人,都来到火葬场,摆脱了热恼而躺卧之时。

11.3.6

निर्मांसैरस्थिभूयिष्ठैर्गात्रैः स्नायुनिबन्धिभिः ।
किं विशेषं प्रपश्यन्ति तत्र तेषां परे जनाः ॥ ११.३.६ ॥

在那些无肉、多为骨骼、以筋络相连的躯体中,其他人在那里能看出他们之间有什么区别呢?

11.3.7

येन प्रत्यवगच्छेयुः कुलरूपविशेषणम् ।
कस्मादन्योन्यमिच्छन्ति विप्रलब्धधियो नराः ॥ ११.३.७ ॥

人们心智迷乱,既能由此辨识家族与形貌的区别,为何仍彼此贪求?

11.3.8

गृहाण्येव हि मर्त्यानामाहुर्देहानि पण्डिताः ।
कालेन विनियुज्यन्ते सत्वमेकं तु शोभनम् ॥ ११.३.८ ॥

智者说,凡人的身体便是他们的居所;时光耗尽它们,唯有那唯一的生命本质是善的。

11.3.9

यथा जीर्णमजीर्णं वा वस्त्रं त्यक्त्वा तु पूरुषः ।
अन्यद्रोचयते वस्त्रमेवं देहाः शरीरिणाम् ॥ ११.३.९ ॥

正如人弃去破旧或未旧的衣服,转而喜欢另一件衣服,有形体者的身体也是如此。

11.3.10

वैचित्रवीर्य सत्यं हि दुःखं वा यदि वा सुखम् ।
प्राप्नुवन्तीह भूतानि स्वकृतेनैव कर्मणा ॥ ११.३.१० ॥

毗七多婆利耶之子啊,此世众生确实只因自己所作之业,而得苦或得乐。

11.3.11

कर्मणा प्राप्यते स्वर्गः सुखं दुःखं च भारत ।
ततो वहति तं भारमवशः स्ववशोऽपि वा ॥ ११.३.११ ॥

婆罗多啊,天界、乐与苦皆由业而得;因此人或被迫或自愿地担负那重担。

11.3.12

यथा च मृन्मयं भाण्डं चक्रारूढं विपद्यते ।
किञ्चित्प्रक्रियमाणं वा कृतमात्रमथापि वा ॥ ११.३.१२ ॥

正如陶器置于陶轮之上,或半成之时,或刚刚制成之际,便会毁坏。

11.3.13

हीनं वाऽप्यवरोप्यं वा अवतीर्णमथापि वा ।
आर्द्रं वाऽप्यथवा शुष्कं पच्यमानमथापि वा ॥ ११.३.१३ ॥

无论它尚未完成、正在取下、已经取下、湿润或干燥,或正在烹煮,它也会毁坏。

11.3.14

अवतार्यन्तमापाङ्कादुद्धृतं चापि भारत ।
अथवा परिभुज्जन्तमेवं देहाः शरीरिणाम् ॥ ११.३.१४ ॥

婆罗多之子啊,无论正从火上取下、已取出,或正在被食用,有形众生的身体也是如此。

11.3.15

गर्भस्थो वा प्रसूतो वाऽप्यथवा दशरात्रिकः ।
अर्धमासगतो वाऽपि मासमात्रगतोऽपि वा ॥ ११.३.१५ ॥

无论他在胎中,已经出生,只有十夜,半个月,或仅一个月大,他都可能死去。

11.3.16

संवत्सरगतो वापि द्विसंवत्सर एव वा ।
यौवनस्थोऽथ मध्यस्थो वृद्धो वापि विपद्यते ॥ ११.३.१६ ॥

无论一岁或两岁,在青年,在中年,或年老,他都会死亡。

11.3.17

प्राक्कर्मभिस्तु भूतानि भवन्ति नभवन्ति च ।
एवं संबर्धिते लोके किमर्थमनुतप्यसे ॥ ११.३.१७ ॥

众生因前业而生,也因前业而不生。世界如此增长,你为何悲伤?

11.3.18

यथा तु सलिलं राजन्क्रीडार्थमनुसञ्चरन् ।
उन्मज्जेच्च निमज्जेच्च चेष्टते च नराधिप ॥ ११.३.१८ ॥

王啊,正如一个为了嬉戏而在水中游动的人,时而浮起,时而沉没,并且扑动挣扎,人主啊!

11.3.19

एवं संसारगहने उन्मज्जननिमज्जने ।
कर्मयोगेन बध्यन्ते क्लिश्यन्ते चाल्पबुद्धयः ॥ ११.३.१९ ॥

如此,在轮回(saṃsāra)的密林中,有升起与沉没。以业的系缚,少智之人被束缚,并受煎熬。

11.3.20

ये तु प्राज्ञाः स्थिता मध्ये संसारान्तगतैषिणः ।
समागमज्ञा भूतानां ते यान्ति परमां गतिम् ॥ ११.३.२० ॥

然而,那些安住于轮回中间、寻求轮回尽头、知晓众生聚合的智者,便抵达至高之境。