Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 11.4

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

11.4.1

कथं संसारगहनं विज्ञेयं वदतां वर ।
एतदिच्छाम्यहं श्रोतुं तत्त्वमाख्याहि पृच्छतः ॥ ११.४.१ ॥

言者中最优秀的人啊,应当如何理解轮回的幽深森林?我愿意听闻此事,请把它的真理告诉我这个发问的人。

11.4.2

जन्मप्रभृति भूतानां क्रियाः सर्वास्तु लक्षयन् ।
पूर्वमेवेह कलिले वसते किञ्चिदन्तरम् ॥ ११.४.२ ॥

从出生起观察众生的一切作为,此处,人先在污泥中停留一段时间。

11.4.3

ततः स पञ्चमेऽतीते मासे मांसमकल्पयत् ।
ततः सर्वाङ्गसम्पूर्णो गर्भो मासे तु जायते ॥ ११.४.३ ॥

此后,第五个月过去,它形成血肉;然后在月中,胎儿四肢俱全地成形。

11.4.4

अमेध्यमध्ये वसति मांसशोणितलेपने ।
ततस्तु वायुवेगेन ऊर्ध्वपादो ह्यधोमुखः ॥ ११.४.४ ॥

他居住在不净之中,被血肉涂抹;然后因风的力量,双足朝上,面朝下。

11.4.5

योनिद्वारमुपागम्य बहून्क्लेशान्समृच्छति ।
योनिसंपीडनाच्चैव पूर्वकर्मभिरन्वितः ॥ ११.४.५ ॥

到达子宫之门,他承受许多苦痛,既因子宫的挤压,也因与前世业行相连。

11.4.6

तस्मान्मुक्तः स संसारादन्यान्पश्यत्युपद्रवान् ।
ग्रहास्तमनुच्छन्ति सारमेया इवामिषम् ॥ ११.४.६ ॥

因此,虽然他从世间存在中解脱,他仍见到其他灾难;攫取的星辰追逐他,犹如野狗追逐肉食。

11.4.7

ततः कालान्तरे प्राप्ते व्याधयश्चापि तं तथा ।
उपसर्पन्ति जीवन्तं बध्यमानं स्वकर्मभिः ॥ ११.४.७ ॥

随后,时间流逝,疾病也来临于他——他仍活着,被自己的业所束缚。

11.4.8

बद्धमिन्द्रियपाशैस्तं सङ्गकामुकमातुरम् ।
व्यसनान्यनुवर्तन्ते विविधानि नराधिप ॥ ११.४.८ ॥

他被感官之索所缚,贪求执着而受苦,种种灾难随之而来,人王啊。

11.4.9

बाध्यमानश्च तैर्भूयो नैव तृप्तिमुपैति सः ।
तदा नावैति चैवायं प्रकुर्वन्साध्वसाधु वा ॥ ११.४.९ ॥

他反复被这些折磨,却始终得不到满足;此时他甚至不知道自己所做的是善还是恶。

11.4.10

तत्रैनं परिपश्यन्ति ये ध्यानपरिनिष्ठिताः ।
अयं न बुध्यते तावद्यमलोकादिहागमे ॥ ११.४.१० ॥

那里,专心于禅定的人能看见他;他尚未察觉自己是从阎摩世界来到此处的。

11.4.11

यमदूतैर्विकृष्यंश्च मृत्युं कालेन गच्छति ।
वाग्घीनस्य च या मात्रा इष्टानिष्टकृताऽस्य वै।
भूय एवात्मनाऽऽत्मानं बध्यमानमुपैति सः ॥ ११.४.११ ॥

被阎摩的使者拖拽,他在时候到来时走向死亡。对于失语者而言,由好恶所造成的尺度就是如此;他自己再次把自己缚住,又回到那同样的境地。

11.4.12

अहो विनिकृतो लोको लोभेन च वशीकृतः ।
लोभक्रोधमदोन्मत्तो नात्मानमवबुध्यते ॥ ११.४.१२ ॥

唉!世界被贪欲所折磨、所支配!被贪、嗔、慢所迷乱,它竟不能认识自己。

11.4.13

कुलीनत्वे च रमते दुष्कुलीनान्विकुत्सयन् ।
धनदर्पेण दृप्तश्च दरिद्रान्परिकुत्सयन् ॥ ११.४.१३ ॥

以高贵出身为乐,轻视出身低微者,因财富的骄傲而自大,连贫穷者也加以诋毁。

11.4.14

मूर्खानिति परानाह नात्मानं समवेक्षते ।
दोषान्क्षिपति चान्येषां नात्मानं शास्तुमिच्छति ॥ ११.४.१४ ॥

他称别人为愚人,却不反省自己;把过错推给别人,却不愿自我纠正。

11.4.15

यदा प्राज्ञाश्च मूर्खाश्च धनवन्तश्च निर्धनाः ।
कुलीनाश्चाकुलीनाश्च मानिनोऽथाप्यमानिनः ॥ ११.४.१५ ॥

当智者与愚人、富者与贫者、高贵者与低贱者、骄傲者与谦卑者——

11.4.16

सर्वे पितृवनं प्राप्ताः स्वपन्ति विगतत्वचः ।
निर्मांसैरस्थिभूयिष्ठैर्गात्रैः स्नायुनिबन्धनैः ॥ ११.४.१६ ॥

所有人到达火葬场后,皮肤尽失,躯体无肉,大多只剩骨骼,由筋腱连结而躺卧。

11.4.17

किं विशेषं प्रपश्यन्ति तत्र तेषां परे जनाः ।
येन प्रत्यवगच्छेयुः कुलरूपविशेषणम् ॥ ११.४.१७ ॥

在那里,别人看到他们之间有什么区别,能借此辨认出家族与容貌的差异呢?

11.4.18

यदा सर्वे समं न्यस्ताः स्वपन्ति धरणीतले ।
कस्मादन्योन्यमिच्छन्ति विप्रलब्धुमिहाबुधाः ॥ ११.४.१८ ॥

当所有人同样被放置在大地表面而躺卧时,愚昧之人为何在此互相欺骗?

11.4.19

प्रत्यक्षं च परोक्षं च यो निशम्य श्रुतिं त्विमाम् ।
अध्रुवे जीवलोकेऽस्मिन्यो धर्ममनुपालयन्।
जन्मप्रभृति वर्तेत प्राप्नुयात्परमां गतिम् ॥ ११.४.१९ ॥

闻此教导,于此无常的众生世界中,无论显露与隐微之处皆守持法,自出生起如是行持者,便得至高的归宿。

11.4.20

एवं सर्वं विदित्वा वै यस्तत्त्वमनुवर्तते ।
स प्रमोक्षयते चैव पन्थानं मनुजेश्वर ॥ ११.४.२० ॥

如是了知一切,而随顺真理者,便得解脱;人主啊,他正是得此道路。