摩诃婆罗多 · 章 11.9
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
11.9.1
गते व्यासे तु धर्मात्मा धृतराष्ट्रो महीपतिः ।
किमचेष्टत विप्रर्षे तन्मे व्याख्यातुमर्हसि
विदुरस्य तु तद्वाक्यं श्रुत्वा तु पुरुषर्षभः ।
युज्यतां यानमित्युक्त्वा पुनर्वचनमव्रवीत् ॥ ११.९.१ ॥
毗耶娑离去后,正法之王持国做了什么?婆罗门中的仙人啊,请您为我解说。听了维杜罗的话,那位人中之雄说道:“套上车吧。”然后又说了这样的话。
11.9.2
एतच्छ्रुत्वा नरश्रेष्ठश्चिरं ध्यात्वा त्वचेतनः ।
सञ्जयं योजयेत्युक्त्वा विदुरं प्रत्यभाषत
शीघ्रमानय गान्धारीं सर्वाश्च भरतस्त्रियः ।
वधूं कुन्तीमुपादाय याश्चान्यास्तत्र योषितः ॥ ११.९.२ ॥
听了这话,那位人中之雄沉思良久,仿佛失去了知觉。随后他说:“桑闍耶,套上车。”并对维杜罗说:“快把甘陀利、婆罗多族的所有女子、儿媳贡蒂,以及那里的其他女子都带来。”
11.9.3
क्षिप्रमानय गान्धारीं सर्वाश्च भरतस्त्रियः ।
कुन्तीं चैव तथा क्षत्तः समानय ममाऽन्तिकम् ॥ ११.९.३ ॥
啊,维杜罗,快把甘陀利、婆罗多族的所有女子,以及贡蒂,都带到我面前来。
11.9.4
एवमुक्त्वा स धर्मात्मा विदुरं धर्मवित्तमम् ।
शोकविप्रहतज्ञानो यानमेवान्वरोहत ॥ ११.९.४ ॥
说完这些话,那位正法之人,心智被悲痛击倒,与最通晓正法的维杜罗一同登上了车。
11.9.5
गान्धारी पुत्रशोकार्ता भर्तुर्वचननोदिता ।
सह कुन्त्या यतो राजा सह स्त्रीभिरुपाद्रवत् ॥ ११.९.५ ॥
甘陀利为失去儿子而悲痛,受丈夫的话催促,与贡蒂及众女子一同奔向国王所在之处。
11.9.6
ताः समासाद्य राजानं भृशं शोकसमन्विताः ।
आमन्त्र्यान्योन्यमायस्ता भृशमुच्चुक्रुशुस्ततः ॥ ११.९.६ ॥
那些充满悲痛的女人来到国王面前,互相呼唤,疲惫不堪,随即大声哭号。
11.9.7
ताः समाश्वासयत्क्षत्ता ताभ्यश्चार्ततरः स्वयम् ।
अश्रुकण्ठीः समारोप्य ततोऽसौ निर्ययौ पुरात् ॥ ११.९.७ ॥
管家(维都罗)安慰了她们,尽管他自己比她们更加悲痛;他让泪水哽咽的女人们登上车,然后便离开了城市。
11.9.8
ततः प्रणादः सञ्जज्ञे सर्वेषु कुरुवेश्मसु ।
आकुमारं पुरं सर्वमभवच्छोककर्शितम् ॥ ११.९.८ ॥
于是,库鲁家族的每座宅邸都响起了哀号,整座城市,直到孩童,都被悲痛折磨得憔悴不堪。
11.9.9
अदृष्टपूर्वा या नार्यः पुरा देवगणैरपि ।
पृथग्जनेन दृश्यन्ते तास्तदा निहतेश्वराः ॥ ११.९.९ ॥
往昔连诸神之众也未曾得见的女子,如今却被凡人看见了,因为她们的夫主当时已被杀死。
11.9.10
प्रकीर्य केशान्सुशुभान्भूषणान्यवमुच्य च ।
एकवस्त्रधरा नार्यः परिपेतुरनाथवत् ॥ ११.९.१० ॥
女子们散开美丽的头发,解下饰物,只穿一件衣服,如同无依无靠的人四处游荡。
11.9.11
श्वतेपर्वतरूपेभ्यो गृहेभ्यस्ता निराक्रमन् ।
गुहाभ्य इव शैलानां पृषत्यो हतयूथपाः ॥ ११.९.११ ॥
她们从如白山般的宅邸中走出,如同斑鹿母鹿从山洞中走出,它们的群首已被杀死。
11.9.12
तान्युदीर्णानि नारीणां तदा वृन्दान्यनेकशः ।
शोकार्तान्यद्रवन्राजन्किशोरीणामिवाङ्गणे ॥ ११.९.१२ ॥
大王啊,那时,被悲痛折磨的众多妇女成群结队,高声哭喊,像庭院里的小女孩一样四处奔跑。
11.9.13
प्रगृह्य बाहून्क्रोशन्त्यः पुत्रान्भ्रातॄन्पितॄनपि ।
दर्शयन्ति हता हि स्म युगान्ते लोकसङ्क्षयम् ॥ ११.९.१३ ॥
她们举起双臂,呼唤儿子、兄弟和父亲,哭喊着,仿佛在显示这些人已被杀害,就如同一个时代终结时世界的毁灭。
11.9.14
विलपन्त्यो रुदन्त्यश्च धावमानास्ततस्ततः ।
शोकेनोपहतज्ञाताः कर्तव्यं न प्रजज्ञिरे ॥ ११.९.१४ ॥
她们哀号哭泣,四处奔走,心神被悲痛击碎,不知该怎么办。
11.9.15
व्रीडां जग्मुः पुरा याः स्म सखीनामपि योषितः ।
ता एकवस्त्रा निर्लज्जाः श्वश्रूणां पुरतोऽभवन् ॥ ११.९.१५ ॥
那些从前连在女伴面前都会害羞的妇人,如今只着一件衣服,毫无羞耻地站在婆婆们面前。
11.9.16
परस्परं सुसूक्ष्मेषु शोकेष्वाश्वासयन्ति याः ।
ताः शोकविह्वला राजन्नवैक्षन्त परस्परम् ॥ ११.९.१६ ॥
大王啊,那些从前在细微的悲伤中互相安慰的人,如今被悲痛压垮,只是彼此凝视。
11.9.17
ताभिः परिवृतो राजा रुदतीभिः सहस्रशः ।
निर्ययौ नगराद्दीनस्तूर्णमायोधनं प्रति ॥ ११.९.१७ ॥
被成千上万哭泣的妇女包围,悲伤的国王迅速离开城市,朝战场走去。
11.9.18
शिल्पिनो वणिजो वैश्याः सर्वे कर्मोपजीविनः ।
ते पार्थिवं पुरस्कृत्य निर्ययुर्नगराद्बहिः ॥ ११.९.१८ ॥
工匠、商人与吠舍,凡以劳作谋生者,皆推举国王在前,走出城外。
11.9.19
तेषां विक्रोशमानानामार्तानां कुरुसङ्क्षये ।
प्रादुरासीन्महाञ्शब्दो व्यथयन्भुवनान्युत ॥ ११.९.१९ ॥
在俱卢族灭亡之际,那些悲号的受难者发出巨大的哭声,连世间万界也为之痛苦。
11.9.20
युगान्तकाले सम्प्राप्ते भूतानां दह्यतामिव ।
अभावस्योदयः प्राप्त इति भूतानि मेनिरे ॥ ११.९.२० ॥
劫末之时降临,众生如被焚烧,便以为虚无之兆已经显现。
11.9.21
भृशमुद्विग्नमनसस्ते पौराः कुरुसङ्क्षये ।
प्राक्रोशन्त महाराज स्वनुरक्तास्तदा भृशम् ॥ ११.९.२१ ॥
俱卢族灭亡之时,那些心意极为慌乱的城民,大王啊,当时因深深眷恋而放声哭号。