Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.10

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.10.1

श्रोत्रियस्येव ते राजन्मन्दकस्याविपश्चितः ।
अनुवाकहता बुद्धिर्नैषा तत्त्वार्थदर्शिनी ॥ १२.१०.१ ॥

大王啊,你的智慧如同那愚钝无知的学者,只因死记诵读而昏迷;这并非能洞见真义的智慧。

12.10.2

आलस्ये कृतचित्तस्य राजधर्मानसूयतः ।
विनाशे धार्तराष्ट्राणां किं फलं भरतर्षभ ॥ १२.१०.२ ॥

婆罗多族中的雄牛啊,你心念懈怠,诋毁王者之法,那么毁灭持国之子于你又有何益?

12.10.3

क्षमाऽनुकम्पा कारुण्यमानृशंस्यं न विद्यते ।
क्षात्रमाचरतो मार्गमपि बन्धोस्त्वदन्तरे ॥ १२.१०.३ ॥

忍耐、怜悯、慈悲与柔和,在你身上都找不到,即便对亲族也是如此,而你却行走于刹帝利的道路上。

12.10.4

यदीमां भवतो बुद्धिं विद्याम वयमीदृशीम् ।
शस्त्रं नैव ग्रहीष्यामो न वधिष्याम कंचन ॥ १२.१०.४ ॥

如果我们早知你有这样的想法,我们便不会拿起武器,也不会杀害任何人。

12.10.5

भैक्षमेवाचरिष्याम शरीरस्याविमोक्षणात् ।
न चेदं दारुणं युद्धमभविष्यन्महीक्षिताम् ॥ १२.१०.५ ॥

我们会靠乞讨维持身体生活,而大地诸王之间也就不会发生这场可怕的战争了。

12.10.6

प्राणस्यान्नमिदं सर्वमिति वै कवयो विदुः ।
स्थावरं जङ्गमं चैव सर्वं प्राणस्य भोजनम् ॥ १२.१०.६ ॥

智者都知道,这一切都是生命的食物;无论静止还是运动之物,皆是生命的养料。

12.10.7

आददानस्य चेद्राज्यं ये केचित्परिपन्थिनः ।
हन्तव्यास्त इति प्राज्ञाः क्षत्रधर्मविदो विदुः ॥ १२.१०.७ ॥

若有人接受王国,凡阻挡者都应被杀,智者与熟知刹帝利之法的人如此认为。

12.10.8

ते सदोषा हताऽस्माभिरन्नस्य परिपन्थिनः ।
तान्हत्वा भुङ्क्ष्व धर्मेण युधिष्ठिर महीमिमाम् ॥ १२.१०.८ ॥

他们有罪,我们杀死了阻碍食物的敌人。坚战啊,杀死他们之后,依法享受这片大地吧。

12.10.9

यथा हि पुरुषः खात्वा कूपमप्राप्य चोदकम् ।
पङ्कदिग्धो निवर्तेत् कर्मेदं नस्तथोपमम् ॥ १२.१०.९ ॥

就如人挖井而未得水,满身泥泞而返,我们此事亦是如此之譬喻。

12.10.10

यथाऽऽरुह्य महावृक्षमपहृत्य ततो मधु ।
अप्राश्य निधनं गच्छेत्कर्मेदं नस्तथोपमम् ॥ १२.१०.१० ॥

就如人攀上大树取得蜂蜜,却未及食用便死去,我们此事亦是如此之譬喻。

12.10.11

यथा महान्तमध्वानमाशया पुरुषः पतन् ।
स निराशो निवर्तेत कर्मैतन्नस्तथोपमम् ॥ १२.१०.११ ॥

就如人在长路上怀着希望行走,跌倒后绝望而返,我们此事亦是如此之譬喻。

12.10.12

यथा शत्रून्घातयित्वा पुरुषः कुरुनन्दन ।
आत्मानं घातयेत्पश्चात्कर्मेदं नस्तथोपमम् ॥ १२.१०.१२ ॥

就如人使敌人被杀,之后又使自己被杀,库鲁之喜悦啊,我们此事亦是如此之譬喻。

12.10.13

यथान्नं क्षुधितो लब्ध्वा न भुञ्जीयाद्यदृच्छया ।
कामी च कामिनीं लब्ध्वा कर्मेदं नस्तथोपमम् ॥ १२.१०.१३ ॥

如同饥饿之人偶然得到食物却不吃,贪欲之人得到所爱的女子却不享用,我们的这一行为也是如此。

12.10.14

वयमेवात्र गर्ह्या हि यद्वयं मन्दचेतसम् ।
त्वां राजन्ननुगच्छामो ज्येष्ठोऽयमिति भारत ॥ १२.१०.१४ ॥

在此,我们自己才应受责备,因为我们竟跟随一个心智迟钝的人——哦,国王,哦,婆罗多,仅仅因为他是长兄。

12.10.15

वयं हि बाहुबलिनः कृतविद्या मनस्विनः ।
क्लीबस्य वाक्ये तिष्ठामो यथैवाशक्तयस्तथा ॥ १२.१०.१५ ॥

我们臂力强大,精通技艺,心志高远,却听从一个无能之人的话,仿佛我们毫无能力一般。

12.10.16

अगतीकगतीनस्मान्नष्टार्थनर्थसिद्धये ।
कथं वै नानुपश्येयुर्जनाः पश्यत यादृशम् ॥ १२.१०.१६ ॥

没有出路、为失去的目的和虚妄之事而奔走的我们,人们怎能不看见?看哪,这是何等境况。

12.10.17

आपत्काले हि संन्यासः कर्तव्य इति शिष्यते ।
जरयाऽभिपरीतेन शत्रुभिर्व्यंसितेन वा ॥ १२.१०.१७ ॥

在灾难之时,经典教导应当舍弃世事,对于被衰老所困或被敌人所害之人而言。

12.10.18

तस्मादिह कृतप्रज्ञास्त्यागं न परिचक्षते ।
धर्मव्यतिक्रमं चैव मन्यन्ते सूक्ष्मदर्शिनः ॥ १२.१०.१८ ॥

因此,此间有智之人并不将舍弃视为应行之道,而洞察入微者则视之为违背法度。

12.10.19

कथं तस्मात्समुत्पन्नास्तन्निष्ठास्तदुपाश्रयाः ।
तदेव निन्दां भाषेयुर्धाता तत्र न गर्ह्यते ॥ १२.१०.१९ ॥

从其而生、以其为归、依其为托者,怎会诽谤其本身?在那里,造物主并不受非议。

12.10.20

श्रिया विहीनैरधनैर्नास्तिकैः संप्रवर्तितम् ।
वेदवादस्य विज्ञानं सत्याभासमिवानृत् ॥ १२.१०.२० ॥

由失去福泽与财富的无神论者所推行的吠陀学说之知识,如同真理的幻影,实为虚妄。

12.10.21

शक्यं तु मौनमास्थाय बिभ्रताऽऽत्मानमात्मना ।
धर्मच्छझ समास्थाय च्यवितुं न तु जीवितुम्। ॥ १२.१०.२१ ॥

若以沉默自持,凭自身支撑自己,此事可行;但若借法之名义,只会堕落,而不能生存。

12.10.22

शक्यं पुनररण्येषु सुखमेकेन जीवितुम् ।
अबिभ्रता पुत्रपौत्रान्देवर्षीनतिथीन्पितॄन् ॥ १२.१०.२२ ॥

独自在森林中快乐生活是可能的,但不供养子孙、天神与仙人、客人及祖先。

12.10.23

नेमे मृगाः स्वर्गजितो न वराहा न पक्षिणः ।
अथान्येन प्रकारेण पुण्यमाहुर्न ते जनाः ॥ १२.१०.२३ ॥

这些鹿并非征服天界者,野猪与飞鸟亦非;人们也不会以别的方式称它们为有功德。

12.10.24

यदि संन्यासतः सिद्धिं राजा कश्चिदवाप्नुयात् ।
पर्वताश्च दुमाश्चैव क्षिप्तं सिद्धिमवाप्नुयुः ॥ १२.१०.२४ ॥

若有国王能借弃绝而获得成就,那么山岳和树木也会很快获得成就。

12.10.25

एते हि नित्यसंन्यासा दृश्यन्ते निरुपद्रवाः ।
अपरिग्रहवन्तश्च सततं ब्रह्मचारिणः ॥ १२.१०.२५ ॥

看来,这些人是恒常的弃世者,不受伤害,无所占有,永远是梵行的修习者。

12.10.26

अथ चेदात्मभाग्येषु नान्येषां सिद्धिमश्र्नुते ।
तस्मात्कर्मैव कर्तव्यं नास्ति सिद्धिरकर्मणः ॥ १२.१०.२६ ॥

若人只凭自己的福分获得成就,而非凭他人,那么就应当行动;不行动者没有成就。

12.10.27

औदकाः सृष्टयश्चैव जन्तवः सिद्धिमाप्नुयुः ।
तेषामात्मैव भर्तव्यो नान्यः कश्चन विद्यते ॥ १२.१०.२७ ॥

水生之物及其他众生亦可获得成就;对他们而言,唯有自己的自我需要扶持,别无他者。

12.10.28

अवेक्षस्व यथा स्वैः कर्मभिर्व्यापृतं जगत् ।
तस्मात्कर्मैव कर्तव्यं न्प्रस्ति सिद्धिरकर्मणः ॥ १२.१०.२८ ॥

请观察世界如何投入于各自的行为之中;因此应当行动;不行动者没有成就。