Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 12.106

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

12.106.1

न निकृत्या न दम्भेन ब्रह्मन्निच्छामि जीवितुम् ।
नाधर्मयुक्तानिच्छेयमर्थान्सुमहतोऽप्यहम् ॥ १२.१०६.१ ॥

バラモンよ、私は欺瞞や偽善によって生きたいとは思わない。不法に染まった富は、たとえどれほど大きくとも、私は望まない。

12.106.2

पुरस्तादेव भगवन्मयैतदपवर्जितम् ।
येन पापं न शङ्केत यद्वा कृत्स्नं हितं भवेत् ॥ १२.१०६.२ ॥

尊き方よ、私はこれを前もって退けました。罪を恐れることがないように、あるいはすべてが益となるように。

12.106.3

आनृशंस्येन धर्मेण लोके ह्यस्मिञ्जिजीविषुः ।
नाहमेतदलं कर्तुं नैतन्मय्युपपद्यते ॥ १२.१०६.३ ॥

この世で慈悲と法によって生きたいと願う私は、そのようなことをする力もなく、それは私にふさわしくもない。

12.106.4

उपपन्नस्त्वमेतेन यथा क्षत्रिय भाषसे ।
प्रकृत्या ह्युपपन्नोऽसि बुद्ध्या चाद्भुतदर्शनः ॥ १२.१०६.४ ॥

クシャトリヤよ、あなたが語るとおり、あなたはこれを備えている。生まれつき確かに備えており、知恵によっても驚くべき姿をしている。

12.106.5

उभयोरेव साह्यार्थे यतिष्ये तव तस्य च ।
संश्लेषं वा करिष्यामि शाश्वतं ह्यनपायिनम् ॥ १२.१०६.५ ॥

あなた方二人を助けるために、私は必ず努めよう。あなたのためにも彼のためにも。永続し滅びることのない和合を成し遂げよう。

12.106.6

त्वादृशं हि कुले जातभनृशंसं बहुश्रुतम् ।
अमात्यं को न कुर्वीत राज्यप्रणयकोविदम् ॥ १२.१०६.६ ॥

あなたのように高貴な家に生まれ、慈悲深く、博学で、国政に通じた者を、誰が大臣に任じないことがあろうか。

12.106.7

यस्त्वं प्रव्राजितो राज्याद्व्यसनं चोत्तमं गतः ।
आनृशंस्येन वृत्तेन क्षत्रियेच्छसि जीवितुम् ॥ १२.१०६.७ ॥

王国を追われ大きな不幸に陥った汝よ、クシャトリヤよ、慈悲と正しい行いによって生きることを望むのか。

12.106.8

आगन्ता मद्गृहं तात वैदेहः सत्यसंगरः ।
अथाहं तं नियोक्ष्यामि तत्करिष्यत्यसंशयम् ॥ १२.१०६.८ ॥

親愛なる者よ、誓いに忠実なヴァイデーハの王が我が家に来るだろう。そのとき私は彼を任命しよう。彼は疑いなくそれを成すだろう。

12.106.9

तत आहूय वैदेहं मुनिर्वचनमब्रवीत् ।
अयं राजकुले जातो विदिताभ्यन्तरो मम ॥ १२.१०६.९ ॥

そこで聖者はヴァイデーハの王を呼び、この言葉を述べた。「この者は王族に生まれ、私の内奥をよく知っている。」

12.106.10

आदर्श इव शुद्धात्मा शारदश्चन्द्रमा यथा ।
नास्मिन्पश्यामि वृजिनं सर्वतो मे परीक्षितः ॥ १२.१०६.१० ॥

彼は鏡のように心が清く、秋の月のように澄んでいる。私はあらゆる面から彼を試したが、彼に何の過失も見ない。

12.106.11

तेन ते संधिरेवास्तु विश्वसास्मिन्यथा मयि ।
न राज्यमनमात्येन शक्यं शास्तुममित्रहन् ॥ १२.१०६.११ ॥

彼との間に同盟があるように。私を信頼するように彼をも信頼せよ。敵を打ち砕く者よ、大臣なしには王国は統治できない。

12.106.12

अमात्य शुद्ध एव स्याद्बुद्धिसंपन्न एव वा ।
तस्माच्चैव भयं राज्ञः पश्य राज्यस्य योजनम् ॥ १२.१०६.१२ ॥

大臣は清廉であるか、少なくとも知恵を備えているべきだ。ゆえに、王国を治める中で王にとっての危険がどこにあるかを見よ。

12.106.13

धर्मात्मनां क्वचिल्लोके नान्यास्ति गतिरीदृशी ।
तदा राजपुत्रोऽयं सतां मार्गमनुष्ठितः।
असंगृहीतस्त्वेवैष त्वया धर्मपुरोगमः ॥ १२.१०६.१३ ॥

義にかなった人々にとって、世界にはこれほどの別の道はない。そのときこの王子は善人の道を歩んだが、お前は彼を自分の側に引き寄せなかった。彼はダルマを先に置く者である。

12.106.14

संसेव्यमानः शत्रूंस्ते गृह्णीयान्महतो गणान् ॥ १२.१०६.१४ ॥

お前が彼によく仕えるなら、彼はお前の敵の大軍を捕らえることができるだろう。

12.106.15

यद्ययं प्रतियुद्ध्येत स्वकर्म क्षत्रियस्य तत् ।
जिगीषमाणस्त्वां युद्धे पितृपैतामहे पदे ॥ १२.१०६.१५ ॥

もし彼が応戦するなら、それはクシャトリヤ自身の務めである。父祖の座のために、戦いでお前に勝ちたいと望んでいるのだから。

12.106.16

त्वं अपि प्रतियुद्ध्येथा विजिगीषुर्व्रते स्थितः ।
अयुद्ध्वैव नियोगान्मे वशे कुरु हिते स्थितः ॥ १२.१०६.१६ ॥

お前もまた、勝利を望み、誓いに堅く立って応戦せよ。戦わずして、私の命によって彼を支配下に置け。益あるところに立って。

12.106.17

स त्वं धर्ममवेक्षस्व हित्वा लोभमसांप्रतम् ।
न च कामान्न च द्रोहात्स्वधर्मं हातुमर्हसि ॥ १२.१०६.१७ ॥

ゆえに、お前はダルマに目を向け、ふさわしくない貪欲を捨てよ。欲望からも敵意からも、お前は自らのダルマを捨ててはならない。

12.106.18

नैव नित्यं जयस्तात नैव नित्यं पराजयः ।
तस्माज्जयश्च भोक्तव्यो भोक्तव्यश्च पराजयः ॥ १२.१०६.१८ ॥

いとし子よ、勝利は常にあるものではなく、敗北も常にあるものではない。ゆえに勝利は味わうべきであり、敗北もまた耐え忍ぶべきである。

12.106.19

आत्मन्यपि च संदृश्यावृभौ जयपराजयौ ।
निःशेषकारिणां तात निःशेषकरणाद्भयम् ॥ १२.१०६.१९ ॥

自分の内にも勝利と敗北の両方をよく見て、わが子よ、全力で行う者には全力の行為そのものから恐れが生じる。

12.106.20

इत्युक्तः प्रत्युवाचेदं वचनं ब्राह्मणर्षभम् ।
प्रतिपूज्याभिसत्कृत्य पूजार्हमनुमान्य च ॥ १२.१०६.२० ॥

このように言われて、彼はバラモンの中の雄牛にこの言葉で答え、敬意を表し、尊ぶべき人を敬い、暇を請うた。

12.106.21

यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयान्महाश्रुतः ।
श्रेयस्कामो यथा ब्रूयादुभयोरेव तत्क्षमम् ॥ १२.१०६.२१ ॥

大いに賢い者が語るように、大いに学識ある者が語るように、善を願う者が語るように、それこそ両者にふさわしい。

12.106.22

यद्यद्वचनमुक्तोऽस्मि करिष्यामि च तत्तथा ।
एतद्धि परमं श्रेयो न मेऽत्रास्ति विचारणा ॥ १२.१०६.२२ ॥

私に言われた言葉のとおり、そのとおりにいたします。これこそ最上の善であり、私にはこれについて考えることは何もありません。

12.106.23

ततः कौसल्यमाहूय मैथिलो वाक्यमब्रवीत् ।
धर्मतो बुद्धितश्चैव बलेन च जितं मया ॥ १२.१०६.२३ ॥

そこでカウシャリヤを呼び、ミティラーの王はこう言った。「私は法によって、知恵によって、また力によって打ち負かされた。」

12.106.24

अहं त्वया चात्मगुणैर्जितः पार्थिवसत्तम ।
आत्मानमनवज्ञाय जितवद्वर्ततां भवान् ॥ १२.१०६.२४ ॥

王の中の最上の人よ、私はあなたとあなた自身の徳によって打ち負かされた。自分を軽んじることなく、勝った者として振る舞うがよい。

12.106.25

नावमन्यामि ते बुद्धिं नावमन्ये च पौरुषम् ।
नावमन्ये जयामीति जितवद्वर्ततां भवान् ॥ १२.१०६.२५ ॥

私はあなたの知恵を軽んじず、あなたの男らしい勇気も軽んじない。「私は勝つ」と思って軽んじることはない。勝者のように振る舞いなさい。

12.106.26

यथावत्पूजितो राजन्गृहं गन्तासि मे गृहात् ।
ततः संपूज्य तौ विप्रं विश्वस्तौ जग्मतुर्गृहान् ॥ १२.१०६.२६ ॥

王よ、私の家で十分にもてなされて、あなたは私の家から自分の家へお帰りになるでしょう。その後、かのバラモンを丁重にもてなして、二人は安心して自分の家へ帰っていった。

12.106.27

वैदेहस्त्वथ कौसल्यं प्रवेश्य गृहमञ्जसा ।
प्राद्यार्ध्यमधुपर्कैस्तं पूजार्हं प्रत्यपूजयत् ॥ १२.१०६.२७ ॥

その後、ヴィデーハの王はカウシャルヤを速やかに家へ招き入れ、足を洗う水、敬意の供物、蜂蜜の混合物によって、その尊ぶべき客人を返礼として敬った。

12.106.28

ददौ दुहितरं चास्मै रत्नानि विविधानि च ।
एष राज्ञां परो धर्मः समौ जयपराजयौ ॥ १२.१०६.२८ ॥

彼は娘と様々な宝石をも彼に与えた。これが王の最高の義務である——勝利と敗北は等しいのだ。