マハーバーラタ · 章 12.11
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.11.1
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
तापसैः सह संवादं शक्रस्य भरतर्षभ ॥ १२.११.१ ॥
バラタの牡牛よ、ここでこの古い物語が語られる――帝釈天(インドラ)と苦行者たちとの対話である。
12.11.2
शक्यं पुनररण्येषु सुखमेतेन जीवितुम् ।
केचिद्गृहान्परित्यज्य वनमभ्यागमन्द्विजाः।
अजातश्मश्रवो मन्दाः कुले जाताः प्रवव्रजुः ॥ १२.११.२ ॥
これによって、森でもまた幸福に生きることができる。ある再生族の者たちは家を捨てて森へ行った――髭もなく、愚かで、良家に生まれた者たちが出家した。
12.11.3
धर्मोऽयमिति मन्वानाः समृद्धा धर्मचारिणः ।
त्यक्त्वा भ्रातॄन्पितॄंश्चैव तानिन्द्रोऽन्वकृपायत ॥ १२.११.३ ॥
「これこそダルマだ」と考え、豊かでありながらダルマを行う者たちは兄弟と父を捨てた。インドラは彼らを憐れんだ。
12.11.4
स तान्बभाषे मघवान्पक्षीभूत्वा हिरण्मयः ।
सुदुष्करं मनुष्यैस्तु यत्कृतं विघसाशिभिः ॥ १२.११.४ ॥
マガヴァン(インドラ)は黄金の鳥の姿となり、彼らに語った。「残りものを食べる者たち(ヴィガサーシン)が成し遂げたことは、人間にとってきわめて困難である。」
12.11.5
पुण्यं भवति कर्मैषां प्रशस्तं चैव जीवितम् ।
सिद्धार्थास्ते गतिं मुख्यां प्राप्ताः कर्मपरायणाः ॥ १२.११.५ ॥
彼らの行いは功徳があり、その生き方も称賛に値する。行いに専心し、目的を成し遂げた彼らは、最高の境地に至った。
12.11.6
अहो बतायं शकुनिर्विघसाशान्प्रशंसति ।
अस्मान्नूनमयं शास्ति वयं च विघसाशिनः ॥ १२.११.६ ॥
「ああ!この鳥は残りものを食べる者たちを称賛している。きっと我々に教えているのだ――我々もまた残りものを食べる者ではないか。」
12.11.7
नाहं युष्मान्प्रशंसामि पङ्कदिग्धान्रजस्वलान् ।
उच्छिष्टभोजिनो मन्दानन्ये वै विघसाशिनः ॥ १२.११.७ ॥
泥にまみれ、埃にまみれ、残り物を食べる愚か者であるおまえたちを、私は称賛しない。他の者もまた残り物を食べる者である。
12.11.8
इदं श्रेयः परमिति वयमेवममंस्महि ।
शकुने ब्रूहि यच्छ्रेयो वयं ते श्रद्दधामहे ॥ १२.११.८ ॥
これこそ最高の善だと私たちは考えていた。シャクニよ、何が善なのか言ってくれ。我々はおまえを信頼する。
12.11.9
यदि मां नाभिशङ्कध्वं विभज्यात्मानमात्मना ।
ततोऽहं वः प्रवक्ष्यामि याथातथ्यं हितं वचः ॥ १२.११.९ ॥
もし私を疑わず、自分自身を自分で吟味するなら、そのとき私はおまえたちに真実で有益な言葉を告げよう。
12.11.10
शृणुमस्ते वचस्तात पन्थानो विदितास्तव ।
नियोगे चैव धर्मात्मन्स्थातुमिच्छाम शाधि नः ॥ १२.११.१० ॥
愛しい者よ、我々はおまえの言葉を聞く。すべての道はおまえに知られている。正しき者よ、我々はその規範の中にとどまりたい。我々を教えよ。
12.11.11
चतुष्पदां गौः प्रवरा लोहानां काञ्चनं वरम् ।
शब्दानां प्रवरो मन्त्रो ब्राह्मणो द्विपदां वरः ॥ १२.११.११ ॥
四足の中では牛が最も優れ、金属の中では金が最も優れ、音の中ではマントラが最も優れ、二足の中ではバラモンが最も優れる。
12.11.12
मन्त्रोऽयं जातकर्मादिर्ब्राह्मणस्य विधीयते ।
जीवतोऽपि यथाकालं श्मशाननिधनान्तकः ॥ १२.११.१२ ॥
このマントラは出生の儀礼から始まり、バラモンに定められている。生きている間も、時が来れば火葬場での死によって終わる。
12.11.13
कर्माणि वैदिकान्यस्य स्वर्ग्यः पन्थास्त्वनुत्तमः ।
अथ सर्वाणि कर्माणि मन्त्रसिद्धानि चक्षते।
आम्नायदृढवादीनि तथा सिद्धिरिहेष्यते ॥ १२.११.१३ ॥
その吠陀の祭儀こそ天界へ至る道であり、それが最上の道である。すべての祭儀はマントラによって成就すると言われる。アームナーヤの伝承に堅く説かれたものによって、ここで成就が得られる。
12.11.14
मासार्धमासा ऋतव आदित्यशशितारकम् ।
ग्रसन्ते कर्म भूतानि तदिदं कर्मशंसिनाम् ॥ १२.११.१४ ॥
月と半月と季節、そして日・月・星々が、衆生の行為を呑み込む。これが行為を讃える者たちの説である。
12.11.15
सिद्धिक्षेत्रमिदं पुण्यमयमेवाश्रमो महान् ॥ १२.११.१५ ॥
ここは聖なる成就の地であり、ここまさに偉大な庵である。
12.11.16
अथ ये कर्म निन्दन्तो मनुष्याः कापथं गताः ।
मूढानामर्थहीनानां तेषामेनस्तु विद्यते ॥ १२.११.१६ ॥
しかし、祭儀を非難して邪道に入った人々、迷い無益な者たちには、まさに罪がある。
12.11.17
देववंशान्पितृवंशान्ब्रह्मवंशांश्च शाश्चतान् ।
संत्यज्य मूढा वर्तन्ते ततो यान्त्यशुचीन्पथः ॥ १२.११.१७ ॥
神々の系譜、祖霊の系譜、婆羅門の系譜は永遠である。それを捨てて愚者は振る舞い、それゆえ不浄の道へ行く。
12.11.18
एतद्वोऽस्तु तपोयुक्तं ददामीत्यृषिचोदितम् ।
तस्मात्तदध्यावसतस्तपस्वित्वमिहोच्यते ॥ १२.११.१८ ॥
「これがあなたがたにとって苦行と結ばれたものとなるように。私はこれを与える」——聖仙はこのように言った。ゆえに、ここに住む者は苦行者であるとここに説かれる。
12.11.19
देववंशान्ब्रह्मवंशान्पितृवंशांश्च शाश्वतान् ।
संविभज्य गुरोश्चर्यां तद्वै दुष्करमुच्यते ॥ १२.११.१९ ॥
神々・バラモン・祖霊の永遠の系譜を正しく分け与え、師の行いに従うこと、それこそ困難であると言われる。
12.11.20
देवा वै दुष्करं कृत्वा विभूतिं परमां गताः ।
तस्माद्गार्हस्थ्यमुद्वोढुं दुष्करं प्रब्रवीमि वः ॥ १२.११.२० ॥
神々は困難な行いをして、最高の威光に至った。それゆえ私はあなたがたに言う、家長の生活を担うこともまた困難である、と。
12.11.21
तपः श्रेष्ठं प्रजानां हि मूलमेतन्न संशयः ।
कुटुम्वविधिनाऽनेन यस्मिन्सर्वं प्रतिष्ठितम् ॥ १२.११.२१ ॥
苦行は万物の中で最も優れている。これこそ根本であり、疑いはない。この家庭の規律によって、すべてが確立されている。
12.11.22
एतद्विदुस्तपो विप्रा द्वन्द्वातीता विमत्सराः ।
एतस्माद्वनमध्ये तु लोकेषु तप उच्यते ॥ १२.११.२२ ॥
二元の対立を超え、嫉妬のないバラモンたちはこれを苦行と知る。それゆえ、森の中で、諸世界において、これは苦行と呼ばれる。
12.11.23
दुराधर्षं पदं चैव गच्छन्ति विघसाशिनः ।
सायंप्रातर्विभज्यान्नं स्वकुटुम्बे यथाविधि ॥ १२.११.२३ ॥
残りものを食べる者は、家の中で朝夕に規定どおり食物を分けることで、侵しがたい境地に至る。
12.11.24
दत्त्वाऽतिथिभ्यो देवेभ्यः पितृभ्यः स्वजनाय च ।
अवशिष्टानि येऽश्नन्ति तानाहुर्विघसाशिनः ॥ १२.११.२४ ॥
客人、神々、祖霊、そして身内に施した後、残りを食べる人々は、食余者と呼ばれる。
12.11.25
तस्मात्स्वधर्ममास्थाय सुव्रताः सत्यवादिनः ।
लोकस्य गुरवो भूत्वा ते भवन्त्यनुपस्कृताः ॥ १२.११.२५ ॥
それゆえ、自らの義務に堅く立ち、誓いを守り、真実を語る者たちは、世界の師となり、汚れなきままでいる。
12.11.26
त्रिदिवं प्राप्य शक्रस्य स्वर्गलोके विमत्सराः ।
वसन्ति शाश्वतान्वर्षाञ्जना दुष्करकारिणः ॥ १२.११.२६ ॥
シャクラの三天に至り、嫉妬なく、困難な行いをした人々は、天界に永遠の年月住まう。
12.11.27
ततस्ते तद्वचः श्रुत्वा धर्मार्थसहितं हितम् ।
उत्सृज्य नास्तिकमतिं गार्हस्थ्यं धर्ममाश्रिताः ॥ १२.११.२७ ॥
そこで彼らは法と利を伴うその有益な言葉を聞き、無神論の見解を捨て、家住者の義務に身を寄せた。
12.11.28
तस्मात्त्वमपि सर्वज्ञ धैर्यमालम्ब्य शाश्वतम् ।
प्रशाधि पृथिवीं कृत्स्नां हतामित्रां नरोत्तम ॥ १२.११.२८ ॥
ゆえに全知なる者よ、汝もまた永遠の堅忍を保ち、敵の打ち倒された全大地を統治せよ、人中の最上者よ。